SearchBrowseAboutContactDonate
Page Preview
Page 590
Loading...
Download File
Download File
Page Text
________________ 573 अहं त्वद्देशवास्तव्या, तवास्म्याज्ञप्तिकिङ्करी । इत्युक्त्वा प्रणिपत्यास्यां गतायां सोऽत्ति पूर्ववत् ॥ ८६ ॥ अष्टाहिकोत्सवान्तेऽस्या, ऐशानीगामिनाऽध्वना । वैताढ्यकटकाभ्यर्णमेति चक्रानुगोऽथ सः ॥ ८७ ॥ सिन्धुदेवीभवनतो, जेतुं वैताढ्यनिर्जरम् । वैताढ्यकूटगमने, ऋजुर्मार्गोऽयमेव हि ॥ ८८ ॥ कटके दाक्षिणात्येऽस्य, कटके स्थापितेऽमुना । अष्टमे च कृते सिंहासनं चलति तद्विभोः ॥ ८९ ॥ दत्तोपयोगो वैताढ्यकुमाराख्यः सुरोऽथ सः । गृहीत्वा प्राभृतं तादृगभिगच्छति चक्रिणम् ॥ ९० ॥ आज्ञां स्वीकृत्य नत्वाऽथ, सुरेऽस्मिन् गतवत्यथ । अष्टाहिकोत्सवान्तेऽस्य, चक्री चक्रानुगस्ततः ॥ ९१ ॥ गुहां तमिस्रामभ्येति, प्रतीचीगामिनाऽध्वना । वैताढ्यकूटोपान्ताद्धि, प्रतीच्यामेव सा गुहा ॥ ९२ ॥ गुहायाश्च तमिस्रायाः, स्थापयित्वाऽन्तिके चमूम् । नाकिनं चिन्तयत्येष, कृतमालं कृताष्टमः ॥ ९३ ॥ जिगीषु सोऽपि विज्ञाय चक्रिणं चलदासनः । ढौकयत्येत्य विनमन्नलङ्कारांश्चतुर्दश ॥ ९४ ॥ ते चैवं - " हार द्धहार इग कणय - रयण मुत्तावली उ केउरे । कडए तुडिए मुद्दा कुंडल उरसुत्त चूलमणि तिलयं” ॥ अलङ्कारानुपादाय, स्त्रीरत्नस्योचितानिमान् । विसर्जयति सत्कृत्य, कृतमालं नरेश्वरः ॥ ९५ ॥ अथोत्सवे समप्तेऽस्य, सार्वभौमः समादिशेत् । सेनानीरत्नमाहूय, सिन्धुनिष्कुटसाधनम् ॥ ९६ ॥ सिन्धुः स्यात्तस्य खण्डस्य, पूर्वदक्षिणयोर्दिशोः । उत्तरस्यां च वैताढ्यः, प्रतीच्यां लवणोदधिः ।। ९७ ।। यद्यप्येभिस्त्रिभिः क्लृप्तं, मध्यखण्डात्तथाप्यदः । सिन्ध्वा पृथक्कृतं तस्मात्सिन्धुनिष्कुटमुच्यते ।। ९८ ॥ स चर्मरत्नमादाय, चतुरङ्गचमूवृतः । प्रस्थानं कुरुते तत्र, द्वितीय इव चक्रभृत् ॥ ९९॥ गर्जदूर्जितनिःस्वानध्वानध्वस्तेतरध्वनिः । अनूदितजयाराव:, क्षुण्णैर्द्विविधभूधरैः ॥ १०० ॥ जयकुञ्जरमारूढः, सच्छत्रश्चलचामरः । कवचच्छन्नसर्वाङ्गो, मेघैर्वृत इवोडुपः ॥ १०१ ॥ चर्मरत्नेन सद्यानपात्रीभूतेन तेन सः । सिन्धुमुत्तीर्य शैलोच्चवीचीवलयदुस्तराम् ॥ १०२ ॥ तत्रत्यानां प्रतीपानां चिकित्सक इवाद्भुतः । विरेकरुधिरश्राववह्निकर्मादिकोविदः ॥ १०३ ॥ दशाङ्गुल्यौषधीवर्गरसपानोपदेशकः । हरत्यस्त्रैः प्रतापोष्णैरौद्धत्यं सान्निपातिकम् ॥ १०४ ॥ एवं च - सिंहले यवनद्वीपे, नानाम्लेच्छाश्रयेष्विति । रोमाखालसण्डादिदेशेषु विविधेषु सः ॥ १०५ ॥ म्लेच्छाननेकजातीयान्, विजित्य रणकर्मठः । आज्ञामखण्डां सर्वत्र, प्रवर्त्तयति चक्रिणः ॥ १०६ ॥ चक्रवर्त्यचितान्येषां प्राभृतानि सहस्रशः । जितकाशी समादाय, सिन्धुमुत्तीर्य पूर्ववत् ॥ १०७ ॥ भूरिभिः किङ्करीभृतैः, सेवितो म्लेच्छपार्थिवैः । वाचालजयवादित्रः स्तूयमानोऽसकृज्जनैः ॥ १०८ ॥ उपेत्य चक्रिणं नत्वा, ढौकयित्वोपदाश्च ताः । विज्ञो विज्ञपयत्वेवं, विनयेन कृताञ्जलिः ॥ १०९ ॥ स्वामिन् ! भवत्प्रसादेन, सिन्धुखण्डो जितो मया । भूपाः सर्वेऽपि तत्रत्या मया त्वत्किङ्करीकृताः ॥ ११० ॥ 1
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy