________________
571
ततः पौषधशालायां, सोत्तीर्य जयकुञ्जरात् । प्रविश्य स्रस्तरे दार्भे, निषीदति कृताष्टमः ॥ ४१ ॥ ब्रह्मचारी विमुक्तान्यव्यापारस्त्यक्तभूषणः । मागधेशं स्मरत्येकचित्तोऽस्मिन् पौषधत्रये ॥ ४२ ॥ यस्तु चक्री जिनस्तस्य, नाष्टमेन प्रयोजनम् । स्मृतिमात्रादसौ कम्प्रासनस्तमुपतिष्ठते ॥ ४३ ॥ यदाहुः श्रीहेमसूरयः श्रीशान्तिचरित्रे - “ ततो मागधतीर्थाभिमुखं सिंहासनोत्तमे । जिगीषुरप्यनाबद्धविकारो न्यषदत्प्रभुः ॥ ततो द्वादशयोजन्या, तस्थुषो मागधेशितुः । सिंहासनं तदा सद्यः, खञ्जपादमिवाचलत् ॥ " इत्यादि. [ त्रिषष्ठिशलाका. पर्व. ५, सर्ग. ५. श्लो. १३३, १३४ ] अथ प्रकृतं—ततश्चतुर्विधाहारे, संपूर्ण पौषधत्रये । प्रातस्ततः परिहितचारुनेपथ्यभूषणः ॥ ४४ ॥ रथं सांग्रामिकं सज्जायुधमध्यास्य चक्रभृत् । दीप्रोऽग्रे चक्ररत्नेन, चमूचक्रैश्च पृष्ठतः ॥ ४५ ॥ शब्दाद्वैतं जगत्कुर्वन्, प्रवाह इव वारिधेः । तीर्थेन मागधेनान्तः पयोधि प्रविशत्यथ ॥ ४६ ॥ रथाङ्गनाभिद्वयसे, गत्वा जलनिधेर्जले । रथं संस्थाप्य कोदण्डमादत्तेऽरिमदापहम् ॥ ४७ ॥ सटङ्काखमारोप्य, प्रत्यञ्चां तत्र योजयेत् । निजनामाङ्कितं बाणं, रिपुघ्नं देवताश्रितम् ॥ ४८ ॥ वैशाखमाश्रयेत्स्थानं, वेध्यवेधनकोविदः । स्थानानामिह पञ्चानामिदमेव यदर्हति ॥ ४९ ॥ पञ्चस्थानानि चैवं - स्थानान्यालीढ १ वैशाख २ - प्रत्यालीढानि ३ मण्डलं ४ । समपादं ५ चेति. वैशाखस्थानलक्षणं चैवमाहुः — “पादौ कार्यो सविस्तारौ, समहस्तप्रमाणतः । वैशाखस्थानके वत्स !, कूटलक्ष्यस्य वेधने” ॥
अन्तस्थांश्च बहिःस्थांश्च, बाणाधिष्ठायकान् सुरान् । प्रणमाम्यद्य ते सन्तु सहाया मे द्विषज्जये ॥ ५० ॥ बाणाधिष्ठातृदेवानां, वश्यानामपि या नतिः । उचिता साऽधुना शस्त्रभृतां शस्त्रार्चनादिवत् ॥ ५१ ॥ इत्युक्त्वाऽऽकर्णमाकृष्य, मुक्तस्तेन शरो द्रुतम् । शक्रमुक्तः पविवि, याति द्वादशयोजनीम् ॥ ५२ ॥ तत्र मागधदेवस्य गत्वा पतति पर्षदि । भुञ्जानस्य सुखं स्वैरं दिव्यनाट्यानि पश्यतः ॥ ५३ ॥ सौत्पातिकं तमालोक्य, धूमकेतुमिवोदितम् । भ्रकुटीभीषणो वक्ति, क्रोधाहंकारदुर्द्धरः ॥ ५४॥ मुमूर्षुरेष को मूर्खो, यमातिथ्यमपेक्षते । भुजङ्गास्ये करमिव, यश्चिक्षेप शरं मयि ? ॥ ५५ ॥ आसनाद्द्द्रुतमुत्थाय, रोषावेशवशंवदः । यावद्बाणं तमादाय, पश्यति क्रूरया दृशा ।। ५६ ।। तावच्चक्रभृतो नामवर्णार्ली तस्य पश्यतः । शाम्यति क्रुध् विषमहेः, शृण्वतो जाङ्गुलीमिव ॥ ५७ ॥ विमृशत्येवमुत्पन्नः, क्षेत्रेऽस्मिंश्चक्रवर्त्यसौ । तज्जीतमेतदस्माभिर्मान्यमस्यानुशासनम् ॥ ५८ ॥ अविमृश्योनपुण्येन, कोपोऽकारि वृथा मया । इदं नियतमेवामी, स्वामिनः सेवका वयम् ॥ ५९ ॥ विलम्ब्य तदलं स्वामी, पूज्योऽयमतिथिर्मम । निश्चित्येत्युपदां हारकोटीरकटकादिकाम् ॥ ६०॥ चिरसंचितरत्नादि, सद्वस्तून्यपराण्यपि । उपादाय शरं तं च, तीर्थस्यास्य च मृज्जले ॥ ६१ ॥