________________
570 अवार्यवीर्यो ३० गाम्भीर्यो ३१–दार्य ३२ चातुर्य ३३ भूषितः । प्रणामावधिकक्रोधः ३४, तात्त्विक: ३५ सात्त्विको ३६ नृपः॥ तथा च सूत्र-छत्तीसाहि च पत्थिवगुणेहिं संजुत्ते' इति. एवं गच्छति कालेऽस्य, प्रादुर्भवति कर्हिचित् । चक्रमायुधशालायां, प्राच्यं पुण्यमिवाङ्गभृत् ॥ २१ ॥ इदं प्रायोऽस्त्रशालायां, स्यादन्यत्रापि कस्यचित् । यथाऽभवत्सुभूमस्य, स्थालमेव तदात्मकम् ॥ २२ ॥ ततश्चायुधशालाया, अध्यक्षो मुदिताशयः । चक्ररत्नं नमस्कृत्य, निवेदयति भूपतेः ॥२३॥ तदाकर्ण्य प्रमुदितस्तदाशाऽभिमुखं नृपः । पदान्युपेत्य सप्ताष्टौ, चक्ररत्नं नमस्यति ॥ २४ ॥ प्रीतिदाने मौलिवर्ज, दत्ते सर्वाङ्गभूषणम् । वित्तं चास्मै जीविकाह, सत्काराहाँशुकादि च ॥२५॥ तत: स्नात्वाऽऽत्तसर्वाार्हद्रव्यः सपरिच्छदः । उपेत्यायुधशालायां, विधिना चक्रमञ्चति ॥ २६ ॥ ततः सोऽष्टादश श्रेणीराहूयेत्यादिशेत्पुरे । महिम्ने चक्ररत्नस्य, कुरुताष्टाहिकोत्सवम् ॥ २७ ॥ अर्हत्पितृकृतो योऽर्हज्जन्मन्युक्तो महोत्सवः । यथार्ह सोऽनुसंधेय, इहाप्यष्टाहिकोत्सवे ॥ २८ ॥ अष्टादश श्रेणीश्चैवमाहुःकुंभार १ पट्टइल्ला २ सुवण्णकारा य ३ सूवकारा य ४ । गन्धब्बा ५ कासवगा ६ मालाकारा य ७ कच्छकरा ॥ तंबोलिया य ९ एए नवप्पयारा य नारुआ भणिया । अह णं णवप्पयारे कारुअवण्णे पवक्खामि ॥ चम्मयर १ जंतपीलगा २ गंच्छिय ३ छिपयग ४ कंसकारा य । सीवग ६ गुआर ७ भिल्ला ८ धीवर ९ वण्णाइं अट्ठदस ॥ चित्रकारादयस्त्वेष्वेवान्तर्भवन्ति. मुदा पौरजनैः क्लुप्ते, समाप्तेऽष्टाहिकोत्सवे । निर्गत्यायुधशालायाश्चकरत्नं महोज्ज्वलम् ॥ २९ ॥ व्योम्ना संचरते दिव्यवाद्यवाचालिताम्बरम् । अधिष्ठितं सहस्रेण, यक्षाणां वीक्षितं जनैः ॥ ३० ॥ नगर्यास्तच्च निर्गत्य, प्रतिपक्षभयङ्करम् । प्रतिष्ठते मागधाख्यतीर्थाभिमुखमुद्धतम् ॥ ३१ ॥ ततश्चयपि सन्नह्य, चतुरङ्गचमूवृतः । अनुगच्छति तच्चक्रं, भेरिमुखरिताम्बरः ॥ ३२ ॥ प्रमाणाङ्गलजातैकयोजनप्रमितां भुवम् । अतिक्रम्य स्थितं तच्च, प्रयाणस्यादिमेऽहनि ॥ ३३ ॥ क्षेत्रमेतावदेवातिक्रामति प्रतिवासरम् । सुखिनो हि तथैव स्युर्बहुसैन्यचमूचराः ॥ ३४ ॥ चक्रिणां भरतादीनां, महादेहा नरादयः । सुखेन क्षेत्रमेतावन्निर्वहन्ति स्वशक्तितः ॥ ३५ ॥ चक्रिणामितरेषां तु, हीयमानाङ्गशक्तयः । इयत्क्षेत्र निर्वहन्ति, नित्यं दैवतशक्तितः ॥ ३६॥ अनुगङ्गासरित्कूलं, गच्छन् दक्षिणपार्श्वतः । तत्रत्यान् सेवकीकुर्वन्, देशग्रामपुराधिपान् ॥ ३७ ॥ प्रतीच्छन् प्राभृतान्येषामनुयातश्च तैर्नृपः । आरान्मागधतीर्थस्य, स्कन्धावारं निवेशयेत् ॥ ३८ ॥ नवयोजनविस्तीर्णा, द्वादशयोजनायतः । स्कन्धावारो भवत्यस्य, राजधानीसमस्थितिः ॥ ३९ ॥ अथ वार्द्धकिरत्नं स, समाहूयेति शंसति । कुरु पौषधशालां न, आवासं च महाद्भुतम् ॥ ४०॥