________________
568
एवं चतुर्विधा देवा, निर्वाणस्य महोत्सवम् । यथोचितं विदधते, भक्तिनिर्भरचेतसः ॥ ९७३ ॥ ततो नन्दीश्वरे गत्वा, विधायाष्टाहिकोत्सवम् । यान्ति स्वस्वविमानेषु, यथास्वं भवनेषु च ॥ ९७४ ॥ सुधर्माख्यसभावर्तिचैत्यस्तम्भावलम्बिषु । समुद्गकेषु यान्यासन्नस्थीनि प्राक्तनार्हताम् ॥ ९७५ ॥ तान्यर्चयन्ति संस्थाप्य, सिंहासने समुद्गकान् । समुद्गकेषु तेष्वेव, सद्यस्कानि क्षिपन्ति च ॥ ९७६ ॥ ततोऽभ्यर्च्य पुनः स्तम्भे, लम्बयन्ति समुद्गकान् । चैत्यदैवतवत्तानि, नित्यमाराधयन्ति च ॥ ९७७ ॥ इदमर्थतः षष्ठाङ्गसूत्रवृत्तौ मल्लिनिर्वाणाधिकारे. सभायां च सुधर्मायां, तेषामाशातनाभिया । कामक्रीडां न कुर्वन्ति, जिनभक्ताः सुराधिपाः ॥ ९७८ ॥ कालेन कियता चैते, गतशोकाः सुरेश्वराः । गीतानाट्यादिसौख्यानि, भुञ्जानाः सुखमासते ॥ ९७९ ॥
इत्यनन्तगुणरत्नशालिनामर्हतामुदितमागमोदधेः।
___ वर्णनं तदुरुवर्णवर्णिकाकर्णिकारविपिनप्रसूनवत् ॥ ९८० ॥ विश्वाचर्यदकीर्तिकीर्तिविजयश्रीवाचकेन्द्रान्तिषद्राजश्रीतनयोऽतनिष्ट विनयः श्रीतेजपालात्मजः । काव्यं यत्किल तत्र वर्णितजगत्तत्त्वेऽद्भुतास्त्रिंशता, संख्यात: परिपूर्णभावमभजत्सर्गो निसर्गाज्ज्वलः॥ ९८१ ॥
॥ इति श्रीलोकप्रकाशे त्रिंशत्तमः सर्गः समाप्तः ॥
॥ अथैकविंशत्तमः सर्गः ॥ स्वरूपमर्हतामेवमुक्तं शास्त्रानुसारतः । अथोच्यते यथाशास्त्रं, स्वरूपं चक्रवर्तिनाम् ॥ १॥ शृङ्गग्राहिकया कर्म, चक्रवर्तित्वसाधनम् । पृथग् यद्यपि न प्रोक्तं, तीर्थकृन्नामकर्मवत् ॥२॥ तथापि तीव्रानुभागं यत्सातवेदनीयं घनाणुकम् । उच्चैर्गोत्रं तथोत्कृष्टं, नामकर्मापि तादृशम् ॥३॥ लाभभोगादिविजानां, क्षयोपशमपाटवम् । इत्यादिभिस्समुदितैर्जायते चक्रवर्तिता ॥४॥ पूर्वोक्तविंशतिस्थानान्तर्गतैरेव कैश्चन । साधुवैयावृत्यदानसत्तपःसंयमादिभिः ॥५॥ विशिष्टाध्यवसायेन, सातवेद्यादिकर्मणाम् । तादृशः स्यात्परीणामः, प्राग्जन्मन्यार्षभरिव ॥६॥
तथोक्तमावश्यकनिर्युक्तौ “बिइओ वेयावच्चं किइकम्मं तइयओ कासि । भोगफलं
बाहुबलं" ॥ इति. तीर्थकृन्नामहेतूनां, स्थानानां ननु विंशतेः । कथं चक्रित्वहेतुत्वं, पटहेतुत्ववन्मृदः ? ॥७॥ अत्रोच्यतेयथैकस्माद्रसादिक्षो नाखण्डगुडादयः । स्युः सामग्रीभिदाऽवापि, तथा सम्यग्विभाव्यताम् ॥ ८॥