________________
566
हिंसाऽलीकमदत्तं च, क्रीडा हास्यारती रतिः । शोको भयं क्रोध मान, माया लोभास्तथा मदः ॥ ९२१ ॥ स्युः प्रेम मत्सरा ज्ञान, निद्रा अष्टादशेत्यमी । वेधापि सप्ततिशतस्थानके प्रतिपादिताः ॥ ९२२ ॥ जिनाश्च विहरन्त्येते, भूमौ विश्वोपकारिणः । भाविभद्रेषु देशेषु, भाग्यवल्लोकशालिषु ॥ ९२३ ॥ श्राद्धाश्च चक्रवर्त्याचास्तेषां विहरतां सुखम् । उदन्तशंसिनां नृणां, वृत्तिं यच्छन्ति वार्षिकीम् ॥ ९२४ ॥ अर्हत्सुखविहारादि, प्रत्यहं ते परापराः । आचक्षते स्वनाथेभ्योऽधिकृतास्तत्र कर्मणि ॥ ९२५ ॥ लक्षाणि स्वर्णटानामद्ध्यर्द्धानि त्रयोदश । वृतिदानं नियुक्तानां, ददते चक्रवर्तिनः ॥ ९२६ ॥ वासुदेवास्तु रौप्याणां, लक्षाः सा स्त्रयोदश । दद्युर्माण्डलिका: सामा॑स्त्रयोदश सहस्रकान् ॥ ९२७ ॥ अर्हदागमनोदन्तं, यदा य: कोऽपि शंसति । प्रीतिदानं तदा तस्मै, ददते चक्रवर्तिनः ॥ ९२८ ॥ कोटीस्त्रयोदशाद्ध्यर्द्धाः, सौवर्णानां प्रमोदतः । वासुदेवास्तु रौप्याणां, कोटी: सामा॑स्त्रयोदश ॥ ९२९ ॥ दद्युर्माण्डलिका रौप्यलक्षाः सार्धास्त्रयोदश । परेऽपि ददते लोकाः, शक्तिभक्त्युनुसारतः ॥ ९३० ॥ एवं विहृत्य भूपीठं, भव्यजीवान् विबोध्य च । निजायुः प्रान्तसमयेऽनशनं कुर्वते जिनाः ॥ ९३१ ॥ तदा केचिद्गणधराः, केचनान्येऽपि साधवः । कुर्वन्त्यनशनं सार्द्ध, स्युः प्राप्तावसरा यदि ॥ ९३२ ॥ ततोऽधिरुह्य शैलेशी, सर्वकर्मक्षयक्षणे । संप्राप्य शाश्वतं स्थानं, निर्बाधाः सुखमासते ॥ ९३३ ॥ क्षणं तदान्धकारः स्याद्यतो लोके भवेत्तमः । विच्छेदे जिनतद्धर्मपूर्वश्रुतहविर्भुजाम् ॥ ९३४ ॥ तत्रैव समये सर्वे, देवेन्द्राश्चलितासनाः । ज्ञात्वाऽर्हनिर्वृतिं ज्ञानाददन्त्येवं विषादिनः ॥ ९३५ ॥ हा ! निर्वृता जगन्नाथा, जगद्दीपनभास्कराः । तदस्माभिर्दुतं कार्यस्तन्निर्वाणमहोत्सवः ॥ ९३६ ॥ इत्युक्त्वा पादुके त्यक्त्वा, पूर्ववद्विधिपूर्वकम् । तत्रस्था एव वन्दन्ते, भावतो जिनभूघनान् ॥ ९३७ ॥ निर्जीवान्यपि वन्दन्ते, वपूंषीन्द्रा यदर्हताम् । तदर्हद्दव्यनिक्षेपो, वन्द्यः सम्यग्दृशामिति ॥ ९३८ ॥ सामानिकादिनिःशेष, परिच्छदसमन्विताः । ततस्ते दिव्यया गत्या, निर्वाणस्थानमर्हताम् ॥ ९३९ ॥ उपेत्याश्रुविमिश्राक्षा, विषादविधुराननाः । निरानन्दा निरुत्साहाः, शोचन्तश्च मुहुर्मुहुः ॥ ९४० ॥ तिनः प्रदक्षिणाः कृत्वा, नत्वा च भगवत्तनूः । नात्यासन्ना नातिदूरदेशस्था: पर्युपासते ॥ ९४१ ॥ धर्मभृत्यान् कुतो नास्मानीक्षसे नाथ ! पूर्ववत् । अकाण्डेऽयं किमारब्धस्त्यागोऽस्माकं निरागसाम् ? ॥ ९४२ ॥ किमात्मंभरिता युक्ता, विश्वेशानां भवादृशाम् ? अनन्तसुखसाम्राज्यं, भुज्यतेऽस्मान् विहाय यत् ॥ ९४३ ॥ वयं क्वयाम: ? किं कुर्मो ? व्याकुलाश्चिन्तयाऽनया । त्यजतैकपदे स्वामिन् !, निरालम्बा: कृतास्त्वया ॥ ९४४ ॥ अद्यारम्यमिदं नाथ !, जातं क्षेत्रं त्वया विना । निश्यस्तदीपगृहवद्, गतादित्यान्तरिक्षवत् ॥ ९४५ ॥ स्वामिन् ! भवन्तं समवसरणस्थं महाश्रियम् । स्मारं स्मारं मुहुर्वक्षो, दीर्यते शतधाऽद्य नः ॥ ९४६ ॥ भवान् यद्यपि हे स्वामिन्ननन्तसुखभागभूत् । विशोचामस्तथाप्येवं, वयं स्वार्थाय केवलम् ॥ ९४७ ॥