________________
565
मालवकैशिकीमुख्यग्रामरागाञ्चितोऽर्हताम् । आयोजनं ध्वनिर्दिव्यध्वनिमिश्रः प्रसर्पति ॥ ९०६ ॥ चामराश्चंद्ररुचिरा नमनोन्नमनैर्मुहुः । उच्चैः प्रभुनमस्काराच्छंसंतीव गतिं सताम् ॥ ९०७ ॥ स्वर्णसिंहासनं पादपीठयुग्मणिमण्डितम् । अध्यासते जिनास्तच्च, मार्गे व्योम्नि पुरश्चरेत् ॥ ९०८ ॥ छत्रत्रयं तथैवाब्भ्रे, चरत्युज्ज्वलमौक्तिकम् । जगद्वन्द्योपरिस्थित्या, मुदेवोद्धुरकन्धरम् ॥ ९०९ ॥ भामण्डलं सार्वपृष्ठे, भात्यर्कस्येव मण्डलम् । प्रपन्नं शरणायेव, नियतास्तकदर्थितम् ॥ ९१० ॥ सति प्रभौ कुतः कर्मकृत्छ्रं सासह्यतेऽङ्गिभिः । वक्तीतीवाङ्गिनां मर्जंस्तत्पुरो देवदुन्दुभिः ॥ ९११ ॥ एवं च
अशोकद्रुः पुष्पराशिः, सध्वनिश्चामरासने । छत्रं भामण्डलं भेरी, प्रातिहार्याष्टकं ह्यदः ।। ९१२ ।। तथा चतुस्त्रिंशता तेऽतिशयैः सहिता जगत् । दीपयन्ति प्रकृत्योपकारिणो भास्करादिवत् ॥ ९१३ ॥ अतिशयांश्चैवमाहुः—“तेषां च देहोऽद्भुतरूपगन्धो, निरामयः स्वेदमलोज्झितश्च १ । श्वासोऽब्जगन्धो २ रुधिरामिषं च, गोक्षीरधाराधवलं ह्यविस्रम् ३ ॥ आहारनीहारविधिस्त्वदृश्य ४श्चत्वारएतेऽतिशयाः सहोत्था: । क्षेत्रे स्थितिर्योजनमात्रकेऽपि, नृदेवतिर्योग्जनकोटिकोटे : १ ॥ वाणी नृतिर्यक्सुरलोकभाषासंवादिनी योजनगामिनी च २ । भामण्डलं चारु च मौलिपृष्ठे, विडम्बिताहर्पतिमण्डलश्रि ३ ॥ साग्रे च गव्यूतिशतद्वये रुजा ४, वैरे ५ तयो ६ मार्य ७ तिवृष्ट्य ८ वृष्ट्यः ९ । दुर्भिक्ष १० मन्यस्वकचक्रतो भयं ११ स्युर्नैत एकादश कर्मघातजाः ॥ खे धर्मचक्रं १ चमराः २ सपादपीठं मृगेन्द्रासन ३ मुज्ज्वलं च । छत्रत्रयं ४ रत्नमयध्वजोङ् ५ ह्रिन्यासे च चामीकरपङ्कजानि ६ ॥ वप्रत्रयं ७ चारुचतुर्मुखाङ्गता ८, चैत्यद्रुमो ९ धोवदनाश्च कण्टकाः १० । द्रुमानति ११ दुन्दुभिनाद १२ उच्चकैर्वातोऽनुकूलः १३ शकुनाः प्रदक्षिणा: १४ ॥ गन्धाम्बुवर्षं १५ बहुवर्णपुष्पवृष्टिः १६ कचश्मश्रुनखाप्रवृद्धिः १७ । चतुर्विधामर्त्यनिकायकोटिर्जघन्यभावादपि पार्श्वदेशे १८ || [ अभिधान चिन्तामणिः श्लो. ५७ थी ६३ ] ऋतूनामिन्द्रियार्थानामनुकूलत्व १९ मित्यमी । एकोनविंशतिर्देव्याश्चतुस्त्रिंशच्च मीलिताः ॥ ९१४ ॥ यत्तु श्रीसमवायाङ्गसूत्रे एतेषु केचिदतिशया अन्यथा दृश्यन्ते तन्मतान्तरं बोद्धव्यं । चत्वारोऽतिशयाश्चान्ये, तेषां विश्वोपकारिणाम् । पूजा ज्ञान वचोऽपायापगमाख्या महाद्भुताः ।। ९९५ ।। अष्टकं प्रातिहार्याणां, चत्वारोऽतिशया इमे । इत्येवं द्वादश गुणा, अर्हतां परिकीर्त्तिताः ॥ ९१६ ॥ गुणैस्ते सकलैः पूर्णा, निर्विपक्षस्थितेखि । नानास्थानाप्तिगर्वेण, त्यक्ता दोषैश्च दूरतः ॥ ९१७ ॥ तथाहुः - “ को विस्मयोऽत्र यदि नाम गुणैरशेषैस्त्वं संश्रितो निखकाशतया ? मुनीश ! । दोषैरुपात्तविविधाश्रयजातगर्वैः, स्वप्नान्तरेऽपि न कदाचिदपीक्षितोऽसि ॥ [ भक्तामर गा. २७ ]
दोषास्तीर्थकृतां यद्यप्यनन्ता विलयं गताः । तथाप्यग्रेसरास्तेषाममी ह्यष्टादशोदिताः ।। ९१८ ।। अंतराया दान लाभवीर्य भोगोपभोगगाः । हासो रत्यरती भीतिर्जुगुप्सा शोक एव च ।। ९१९ ।। कामो मिथ्यात्वमज्ञानं, निद्रा चाविरति स्तथा । रागो द्वेषश्च नो दोषास्तेषामष्टादशाप्यमी ।। ९२० ।।