________________
563
इत्येताः पर्षदस्तिस्रो, निषीदन्त्यग्निकोणके । प्रविश्य पूर्वद्वारेण, कृत्वा चाहत्प्रदक्षिणाम् ॥ ८५८ ॥ देव्योऽथ भवनज्योतिय॑न्तराणामिति त्रयम् । याम्यद्धारा प्रविश्याऽऽस्ते, नैर्ऋत्यां दिशि पर्षदाम् ॥ ८५९ ॥ सुरास्त्रयोऽमी पूर्वोक्ताः, पुनस्तिष्ठन्त्यनुक्रमात् । प्रविश्या पश्चिमद्धारा, वायव्यां विनयानताः ॥ ८६०॥ वैमानिकाः सुरास्सेन्द्रा, मनुजा मनुजस्त्रियः । प्रविशन्त्युत्तरद्वारा, तिष्ठन्त्यैशानकोणके ॥ ८६१ ॥ पर्षदो द्वादशाप्येवं, निषीदन्त्युक्तदिक्ष्विमाः । प्रदक्षिणीकृत्य नत्वाऽर्हतो गण्यादिकांस्तथा ॥ ८६२ ॥ आयाति यो यज्जातीयः, स तत्पर्षदि तिष्ठति । न तत्र मानो द्वेषो वा, न भयं न नियन्त्रणा ॥ ८६३ ॥ महर्टिकं समायान्तं नमन्त्यल्पट्टिकाः स्थिताः । व्रजन्तोऽपि नमन्तोऽमी, यान्ति प्रौढद्धिकं स्थितम् ॥ ८६४ ॥ यो यो यस्य परीवारो, यो वा यन्निश्रयाऽऽगतः । त्रिदशो वा मनुष्यो वा, स तत्पाचे निषीदति ॥ ८६५ ॥ देव्यचतुर्द्धा साध्यश, शृण्वन्त्यूचंदमाः क्षणं । देवाः सर्वे नरा नार्यो, निविष्टाः श्रमणास्तथा ॥ ८६६ ॥ वृत्तावावश्यकस्येदं, चूणौ चोत्कटिकासनाः । शृण्वन्ति साधवोऽथोर्ध्वाः, साध्यो वैमानिकाङ्गनाः ॥ ८६७ ॥ उपविश्यैव शृण्वन्ति, देशनामाप्तभास्वताम् । पर्षदोऽन्या न वेत्युक्तं, वेत्ति तत्त्वं तु तत्त्ववित् ॥ ८६८ ॥ अपूर्वं यत्र समवसरणं नेक्षितं च यैः । अपि द्वादशयोजन्यास्ते तत्रायान्ति साधवः ॥ ८६९ ॥ अथ चेत्साधवस्तत्र, ते नायांति श्लथादरा: । तत्प्रायश्चित्तमर्हन्ति चतुर्गुरुकसंज्ञकम् ॥ ८७० ॥ आगच्छतां च बालानां, ग्लानानां जरतामपि । न कोऽप्युपद्रवो नातिर्न त्रास स्यान्न वा श्रमः ॥ ८७१ ॥ तावदुत्तुङ्गसोपानसहस्रारोहणे भवेत् । न कस्यापि श्रमश्वासव्यथाः शम्भुप्रभावतः ॥ ८७२ ॥ स्त्रीक्षेत्रवित्ताद्युत्थानि, पितृघातोदितान्यपि । तत्रागतानां शाम्यन्ति, द्रुतं वैराणि पापवत् ॥ ८७३ ॥ युद्ध्यमाना मिथः क्रूराः, क्रोधरक्तेक्षणाननाः । कम्पमाना उदस्तास्त्रा, उच्छुण्डाः कुञ्जरा इव ॥ ८७४ ॥ भवन्ति ये तेऽपि तत्रागता विस्मृतविग्रहाः । प्रशान्तचित्ताः शृण्वन्ति, धर्म स्वामिप्रभावतः ॥ ८७५ ॥ न कोऽपि विकथां कुर्याद्ध्याक्षेपं कोऽपि नापरम् । तदेकचित्ताः शृण्वन्ति, जिनानां देशनां जनाः ॥ ८७६ ॥ शृण्वन्ति येऽपि तिर्यञ्चः, स्थिता वप्रे द्वितीयके । तेऽपि विस्मृतजात्यादिवैराः स्युस्तत्प्रभावत: ॥ ८७७ ॥ पार्श्वस्थं सिंहमातङ्ग, शार्दूलहरिणं तथा । श्येनपारापतं व्याघ्रच्छागं मार्जारमूषकम् ॥ ८७८ ॥ महिषाश्वं च नकुलसर्प शूकरकुर्कुरम् । एकाग्रचित्ताः शृण्वन्ति, प्रभोरत्यमृतं क्षणम् ॥ ८७९ ॥ बिभेति तत्र नो बाध्यो, बाधकस्तं न बाधते । स्युः सातिशयाच्छान्तरसतृप्ता: समेऽपि ते ॥ ८८० ॥ प्रथमां पौरुषी यावद्धर्ममाख्यान्ति पारगाः । अत्रान्तरे च यस्तत्र, चक्रवर्त्यादिको नृपः ॥ ८८१ ॥
१. ध्यानकोष्ठोपगतत्वावस्थायामुत्काटिकासनं साधूनां, तत्र श्रीजिनदेशनाश्रवणार्थ च स्थानं यदा औपग्रहिकमासनमिति तद्धावाभावकृतो भेदः, भवनपत्यादिदेवीनां श्राविकाणां च तथा सामान्येन ठंतिशब्देन कथनेऽपि यथायोगमेव स्यादिति न विरुद्धता ।