SearchBrowseAboutContactDonate
Page Preview
Page 574
Loading...
Download File
Download File
Page Text
________________ 557 अयं भाव:भङ्गो यथोक्त एवाये, कोष्ठे नानान्यसंभवः । द्वितीये तु मनोवाचौ, मनोऽङ्गे वाक्तनू त्रयम् ॥ ७३९ ॥ भङ्गानामिति शेषः, मनोवाक्तनुभिर्व्यस्तैः, स्यात्तृतीयेऽपि तत्त्रयम् । करणेन कारणेन, तुर्य कोष्ठे च भिवयम् ॥ ७४० ॥ त्रयो द्वितीयकोष्ठोक्ता, योगभङ्गा विशेषिताः । करणेन कारणेन, षड्भङ्ग इति पञ्चमे ॥ ७४१ ॥ व्यस्ता मनोवच:कायाः, षड्विधाः स्युर्विशेषिताः । करणेन कारणेन, षष्ठे षड् भङ्गका इति ॥ ७४२ ॥ आवश्यकाभिप्रायोऽयं, प्रज्ञप्त्यादौ तु कीर्तितः । त्रिविधं त्रिविधेनेति, भेदोऽपि गृहमेधिनाम् ॥ ७४३ ॥ तथाहि स्वयंभूस्मणाम्भोधिमत्स्यमांसाशनादिकम् । त्रिविधं त्रिविधेनापि, प्रत्याख्यात्येव कोऽपि यत् ॥ ७४४ ॥ अस्याल्पविषयत्वेन, कादाचित्कतयाऽपि च । नैवावश्यकनियुक्तौ, भङ्गकोऽयं विवक्षितः ॥ ७४५ ॥ षोढा पूर्वोक्तषड्भङ्ग्या, स्यादेकैकमणुव्रतम् । त्रिंशद्भिदोऽथ द्वात्रिंशत्ससम्यक्त्वोत्तरवताः ॥ ७४६ ॥ तथा-त्रिका द्धिका एकका ये, प्रत्येकं ते त्रयस्त्रयः । स्थाप्यन्ते किल पङ्क्त्योर्ध्व करणादित्रयाङ्ककाः॥ ७४७ ॥ एषां नवानामानामधः पङ्क्त्या क्रमाल्लिखेत् । मनोवाक्कायसूचार्य, त्रिशस्त्रिकद्धिकैककान् ॥७४८ ॥ आयो भङ्गोऽत्र सावद्यं, न कुर्वे कारयामि न । नानुजानामि मनसा, वचसा वपुषापि च ॥७४९ ॥ एवमन्येऽपि भङ्गका भाव्याः, प्रज्ञप्त्याधुदिता मूलभङ्गा नव भवन्त्यमी । एषामेकोनपञ्चाशद्भवन्त्युत्तरभङ्गकाः ॥७५० ॥ तथाहित्रिभिर्मनोवचः २ कायैस्त्रयो भेदा भवन्त्यथ । मनोवाग्भ्यां भवेत्तुर्यो, मनोङ्गाभ्यां च पञ्चमः ॥७५१ ॥ वाक्कायाभ्यां भवेत् षष्ठस्त्रिभिरेभिश्च सप्तमः ७ । एते सप्तापि योज्यन्ते, सप्तभिः करणादिभिः ॥ ७५२ ॥ ते चैवं-करणं १ कारणं २ चानुमति ३ श्चेति भिदां त्रयम् । भेदश्चतुर्थ: करणकारणाभ्यां प्रकीर्तितः ॥ ७५३ ॥ करणानुमतिभ्यां च, भेदो भवति पञ्चमः । कारणानुमतिभ्यां च, षष्ठस्तैः सप्तमस्त्रिभिः ॥७५४ ॥ प्रत्येकमेषु भङ्गेषु, पूर्वोक्तसप्तकान्वयात् । उक्ता एकोनपञ्चाशद्वतोच्चारणभङ्गकाः ॥७५५ ॥ प्रत्येकं भड़केष्वेषु, कालत्रितययोजनात् । सप्तचत्वारिंशदाढ्यं, जायन्ते भङ्गकाः शतम् ॥७५६ ॥ त्रिकालविषयत्वं च, स्यादतीतस्य निन्दया । संवरेणाधुनिकस्य, प्रत्याख्यानाद्भविष्यतः ॥७५७ ॥ तथाहु-अईयं निंदामि, पडुप्पन्नं संवरेमि, अणागयं पच्चरक्खामि, [पक्खिसूत्र तथा चमण १ वयण २ काय ३ मणवय ४ मणतणु ५ वयतणु ६ तिजोगि ७ सगसत्त । कर १ कार ___ २ णुमइ ३ दुतिजुइ तिकालि सीआलभङ्गसयम् ॥ [पच्चकखाणभाष्य गा. ४३] सम्यग् य एतान् जानाति, प्रत्याख्यानस्य भङ्गकान् । स एव कथितःशास्त्रे, प्रत्याख्यानविचक्षणः ॥७५८ ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy