________________
558
अणुव्रतैः पञ्चभिश्च, गुणिता भङ्गका अमी । पञ्चत्रिंशा: शता: सप्त, तेषु केवलदर्शनैः ॥७५९ ॥ युक्तेषु चोत्तरगुणाढ्यैस्ते स्युः श्रावका इह । सप्तत्रिंशाः सप्तशता, व्रतानां मूलभेदतः ॥ ७६० ॥ व्रतानां दयादिसंयोगोद्भवा भेदा भवन्ति ये । षड्भङ्ग्यादिव्रतोच्चारप्रकाराणां च या भिदः ॥७६१ ॥ परस्परं तद्गुणने, व्रतानां भूरयो भिदः । भवन्ति ताभिस्तावन्तः, श्रावका इह तद्यथा ॥७६२ ॥ अणुव्रतानां पञ्चानां, भङ्गाः पञ्चैकयोगजाः । दश च स्युर्खियोगोत्थास्त्रियोगोत्था दशैव च ॥७६३ ॥ तुर्ययोगोद्भवाः पञ्च, स्यादेकः पञ्चयोगजः । अथैतद्भङ्गकोत्पत्तौ, करणं प्रतिपाद्यते ॥ ७६४ ॥ क्रमोत्क्रमाभ्यां दे पङ्क्त्यौ , संस्थाप्येते उपर्यधः । विवक्षितव्रताङ्कानामथाध:पङ्क्तिवर्तिना ॥ ७६५ ॥ उपान्त्यालेनोग्रपङ्क्तिगतोऽन्त्योऽङ्को विभज्यते । लब्धेन तस्योपान्त्यस्यो-परिस्थोऽङ्को निहन्यते ॥ ७६६ ॥ यज्जातं ते दिसंयोगा, भङ्गकास्ते च पूर्ववत् । उपान्त्यपाश्चात्यारेन, भज्यन्ते लभ्यते च यत् ॥७६७ ॥ तेन तस्योपरितनो, गुण्यतेऽङ्को भवेच्च यत् । ते त्रिसंयोगजा भङ्गाः, स्याच्छेषेष्वप्ययं विधिः ॥ ७६८ ॥ भङ्गेषु नैकयोगेषु, करणस्य प्रयोजनम् । विवक्षितव्रतमिता, भङ्गका हकयोगजाः ॥ ७६९ ॥ अत्रोदाहरणंक्रमोत्क्रमाभ्यां पञ्चान्ता, लिख्यन्तेऽवा दिकेन च । भक्तेऽध:पकृत्युपान्त्येनोपरिस्थे पञ्चकेऽन्तिमे ॥ ७७० ॥ लब्धौ धौ सार्द्धको ताभ्यामुपान्त्यस्योपरि स्थितः । चतुष्को गुण्यते जाता, दश तेऽत्र द्वियोगजाः ॥ ७७१ ॥ त्रिकोऽथोपान्त्यपाश्चात्यो, भज्यन्ते तेन ते दश । लब्धास्त्रयः सत्रिभागाः, सांशैस्तैश्च निहन्यते ॥७७२ ॥ त्रिकस्तस्योपरिगतो, दश स्युस्ते त्रियोगजा: । तत्पाश्चात्यचतुष्केण, तेषु भक्तेषु लभ्यते ॥७७३ ॥ सार्द्ध द्वयं तेन तस्योपरिस्थो गुण्यते दिकः । जाता: पञ्च चतुर्योगा, भज्यन्ते पञ्चकेन ते ॥७७४ ॥ आयेनाध:पङ्क्तिगेन, प्राप्त एकोऽथ गुण्यते । अनेनैकस्तदूर्ध्वस्थ, इत्येकः पञ्चयोगजः ॥७७५॥ यदा-जिज्ञासिताः स्युः संयोगा, यावतां तावतोऽड्कान् । एकाद्यकोत्तरानूर्ध्वंदमश्रेण्या क्रमान्यसेत् ॥ ७७६ ॥ यथास्वमन्त्यं मुक्त्वा तानुपर्युपरि निक्षिपेत् । एवमेकादियोगोत्थभङ्गसंख्यामितिर्भवेत् ॥७७७ ॥ तत्र च-सर्वोपरितनाडेन, लभ्यन्त एकयोगजाः । शेषैरधोऽधःस्थैरङ्गैर्लभ्यन्ते दयादियोगजाः ॥७७८ ॥ अत्रैकको द्रिके क्षिप्तो, द्विकस्थाने त्रिकोऽभवत् । त्रिकः स चोपरितनत्रिके षट्कं भवेत्तदा ॥ ७७९ ॥ षट्केऽस्मिंश्योपरितने, चतुष्के योजिते दश । पुनरेकस्त्रिके क्षिप्तश्चतुष्क: स्यात्स चोर्ध्वगे ॥ ७८० ॥ षट्के क्षिप्तो दशाभूवन्, पुनरेकश्चतुष्कके । क्षिप्त: पञ्चाभवन्नेकस्ततोऽध: स्यात्तथा स्थितः ॥ ७८१ ॥ अथवा-लभ्यन्ते दयादिसंयोगा, अचारणया मिथः । चार्यते पूर्वपूर्वोऽङ्कोऽनुक्रमादुत्तरोत्तरैः ॥ ७८२ ॥
सा चैवं-१-२ । १-३ । १-४ । १-५ एवं चत्वार एकचारणया. २-३ । २-४ । २-५ । एवं त्रयो द्वितीयचारणया. ३-४ । ३-५ एवं दौ तृतीयचारणया. ४-५ एकश्चतुर्थचारणया. एवं