SearchBrowseAboutContactDonate
Page Preview
Page 572
Loading...
Download File
Download File
Page Text
________________ 555 तानि चैवमाहुः- “जे नो करिति मणसा निज्जिअआहारसन्नसोइंदी । पुढविक्कायारंभं खंतिजुआ ते मुणी वंदे” ॥ पृथ्यम्बुवह्निमरुतामारम्भाः स्युर्वनस्पतेः । द्वित्रिचतुःपञ्चखानामजीवस्येत्यमी दश ॥ ६९६ ॥ क्षमाऽऽर्जवं मार्दवं च, मुक्तिस्तपश्च संयमः । साधोर्धर्मा दश ब्रह्मसत्यशौचापरिग्रहाः ॥ ६९७ ॥ भवन्ति दश शीलाङ्गान्यधःस्थैर्दशभिः पदैः । क्षमादिभिः साधुधर्मवाचिभिः परिवर्तितैः ॥ ६९८ ॥ शतं दशभिरारम्भपदैः स्युः परिवर्तितैः । प्रत्येकमारम्भपदे, पूर्वोक्तदशकान्वयात् ॥ ६९९ ॥ शतं शतानि पञ्च स्युः पदैरिन्द्रियवाचिभिः । सहसद्वितीय तेषां, चतुःसंज्ञापदान्वयात् ॥७०० ॥ मनोवाक्कायगोगेन, षट् सहस्रा भवन्ति ते । अष्टादश सहस्रश्च, करणादित्रयान्विताः ॥७०१॥ नष्टोद्दिष्टविधिं चात्र, वक्ष्ये येनाप्यते द्रुतम् । अाद्विवक्षितं रूपं, रूपाच्चांको विवक्षितः ॥ ७०२ ॥ त्रिकं त्रिकं चतुष्कं च, पञ्चकं द्विर्दश न्यसेत् । भाजकानां ध्रुवाकानामियं भवति पद्धतिः ॥ ७०३ ॥ अडराशिं परिपृष्टं, प्रथमं दशभिर्भजेत् । लब्धं भूयोऽपि दशभिर्लब्धं तत्रापि पञ्चभिः ॥ ७०४ ॥ चतुस्त्रित्रिभिरेवं च, लब्धं लब्धं विभज्यते । सर्वत्र भागशेष स्वभाजकस्य लिखेदधः ॥ ७०५ ॥ भाजकेन हृते राशौ, यदि किञ्चिन्न शिष्यते । तदा तद्भाजकस्याधः, शून्यं स्थाप्यमिति स्थितिः ॥ ७०६ ॥ किंच-यदा राशौ भज्यमाने, किञ्चिदप्यवशिष्यते । सैकं कार्यं तदा लब्धं, निःशेषे तु न तत्तथा ॥ ७०७ ॥ यथा-मितं चतुर्भिर्नवकै, रूपं भवति कीदृशम् । शीलाङ्गानां ? तत्र राशिं, यथोक्तं दशभिर्भजेत् ॥ ७०८ ॥ लब्धा नवनवत्याढ्याः, शता नव नवोपरि । शिष्यन्ते ते च सर्वान्त्यदशकस्य लिखेदधः ॥७०९ ॥ भागशेषतया राशेर्लब्धं सैकं विधीयते । सहसं जायते तच्च, दशभिः प्रविभज्यते ॥१०॥ लब्धं शतं भागशेषाभावाच्छून्यं निवेश्यते । उपान्त्यदशकस्याधः, सर्वत्रैवं विधीयताम् ॥ ७११ ॥ शते च पञ्चभिर्भक्ते, विंशतिः प्राप्यतेऽथ सा । चतुर्भिर्भज्यते लब्धाः, पञ्च तांश्च त्रिभिर्भजेत् ॥ ७१२ ॥ लब्ध एको दयं शिष्टं, लिख्यतेऽधस्त्रिकस्य तत् । लब्ध एकोऽपि सैकस्तल्लेख्य आद्यत्रिकादधः ॥ ७१३ ॥ ३/२ ३/२ ४/० ५/० १०/० १०/१ आदौ दिकद्धयं शून्यत्रयं नवक एव च । शीलाङ्गपमित्यूां, चतुर्भिर्नवकैर्मितम् ॥ ७१४ ॥ पदसंख्योह्यतामङ्गैर्यथास्थानं पदानि च । स्वस्वपङ्क्तेः पदं सर्वांन्तिमं शून्यैश्च भाव्यताम् ॥ ७१५ ॥ तद्रूपं चैवं- “जे कारिंति न वयसा निज्जिअपरिग्गहसन्नसोइंदी । अजिआणं आरंभं अकिंचणा ते मुणी वंदे" ॥ अथ दिकद्वयं शून्यत्रयं नवक एव च । कथितं रूपमित्येवं, पृष्टे विधिरिहोच्यते ॥७१६ ॥ पूर्वोक्तभाजकाङ्कानामध:पृष्टापङ्क्तिका । क्रमेण लिख्यते सा च, स्थापना प्राक् प्रदर्शिता ॥ ७१७ ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy