________________
554
देवर्षिनरेन्द्रभ्यः पूज्येभ्योऽप्यन्यसत्वानाम् ॥ [तत्त्वार्थभाष्यगतकारिका. श्लो. ४, ५, ६, ७] कदापि
निष्फला नैषां, देशना जायतेऽर्हताम् । लाभाभावेऽमूढलक्ष्याः प्रवर्तरन्न ते यतः” ॥ सामायिकं स्यात्सम्यक्त्वं, श्रुतसामायिकं तथा । सामायिके द्वे विरती, देशत: सर्वतोऽपि ये ॥ ६७५ ॥
सामायिक स्वरूपं चैवमाहुः- “सावज्जजोगविरओ, तिगुत्तो छसु संजओ । उवउत्तो जयमाणो, आया सामाइयं होइ ॥ तथा जो समो सबभूएसु, तसेसु थावरेसु य । तस्स सामाइयं होइ,
इह केवलिभासिअं” ॥ [आवश्यकनियुक्ति श्लो. ७९० नी टीकान्तर्गत श्लो. (मू.भा. १४९)] सामायिकानि चत्वारि, त्रीणि द्वे एवमेव वा । निश्चयात्प्रतिपद्यन्ते, नरतिर्यक्सुधाशिषु ॥ ६७६ ॥ चत्वारि प्रतिपद्यन्ते, नरा एवादितस्त्रयम् । तिर्यञ्चस्त्वमराश्च दे, अन्तिमासम्भवात्क्रमात् ॥ ६७७ ॥ पूर्वं प्रपन्नसम्यक्त्वो, देशतः सर्वतोऽथवा । विरतिं चेल्लभेत स्यात्तदा ह्येकाप्तिसंभवः ॥ ६७८ ॥ सामायिकस्य कस्यापि, प्रतिपत्ता भवेन्न चेत् । नृषु तिर्यक्षु वा कश्चित्तदाऽवश्यं सुधाशिषु ॥ ६७९ ॥ कश्चित्प्रक्षीणमिथ्यात्वः, सम्यक्त्वं प्रतिपद्यते । अर्हगिरामन्वध्यत्वादसंख्यत्वाच्च नाकिनाम् ॥ ६८० ॥ तत्र ये सर्वविरतिं, प्रपद्यन्ते नराः स्त्रियः । प्रव्राजयति तान्नाथः, शिक्षयन् सकलां विधिम् ॥ ६८१ ॥ गन्तव्यमेवं स्थातव्यं, भोक्तव्यं विधिनाऽमुना । वक्तव्यं भाषयैवं च, यथा धर्मो न सीदति ॥ ६८२ ॥ याश्च चारित्रपुत्रस्य, मातरोऽष्टौ भवन्त्यमूः । सम्यगाराधनीयास्ता, मोक्षाकानिमुमुक्षुभिः ॥ ६८३ ॥ युगमात्रावलोकिन्या, दृष्ट्या सूर्यांशुभासितम् । विलोक्य मार्ग गन्तव्यमितीर्यासमितिर्भवेत् ॥ ६८४ ॥ हितं यत्सर्वजीवानां, निरवा मितं वचः । तद्धर्महेतोर्वक्तव्यं, भाषासमितिरित्यसौ ॥ ६८५ ॥
तदुक्तं-“सत्यं ब्रूयात्प्रियं ब्रूयान्न ब्रूयात्सत्यमप्रियम् । प्रियं च नानृतं ब्रूयादेष धर्म: सनातनः ॥ सप्तचत्वारिंशता यद्दोषैरशनमुज्झितम् । भोक्तव्यं धर्मयात्रायै, सैषणासमितिर्भवेत् ॥ ६८६ ॥ ग्राह्यं मोच्यं च धर्मोपकरणं प्रत्युपेक्ष्य यत् । प्रमार्य चेयमादाननिक्षेपसमितिः स्मृता ॥ ६८७ ॥ निर्जीवेऽशुषिरे देशे, प्रत्युप्रेक्ष्य प्रमाय॑ च । यत्त्यागो मलमूत्रादेः, सोत्सर्गसमितिः स्मृता ॥ ६८८ ॥ कल्पनाजालनिर्मुक्तं, समभावेन पावनम् । मुनीनां यन्मनःस्थैर्य, मनोगुप्तिर्भवत्यसौ ॥ ६८९ ॥ मौनावलम्बनं साधोः, संज्ञादिपरिहारतः । वाग्वृत्तेर्वा निरोधो यः, सा वाग्गुप्तिरिहोदिता ॥ ६९० ॥ स्थितस्य कायोत्सर्गादावुपसर्गजुषोऽपि यत् । स्थैर्य धैर्येण कायस्य, कायगुप्तिरियं मता ॥ ६९१ ॥ शय्यासनो स्थानादौ, कायचेष्टा नियम्यते । साधुभिर्धर्मबुद्ध्या यत्कायगुप्तिस्तु साऽपरा ॥ ६९२ ॥ एता एव द्वादशाङ्ग्याः , सारो धर्मस्य साधनम् । ततो युष्माभिरेतासु, यत्नः कार्यो मुहुर्मुहुः ॥ ६९३ ॥
आदिश्यैवं साधुसाध्वीश्रावकश्राविका इति । प्रभुश्चतुर्विधं सङ्घ, स्थापयेत्तीर्थमद्भुतम् ॥ ६९४ ॥ तत्र च-साधवः स्युः पात्रगुच्छरजोहरणधारिणः । येऽष्टादशसहस्राणि, शीलाङ्गानां च बिभ्रते ॥ ६९५ ॥