SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ भावनात्वेवम्सर्वाधस्तादधोलोकनिष्कूटस्याग्निकोणके । स्थितो भवेद्यदैकाक्षस्तदाऽसौ त्रिदिगुद्भवः ॥ ३६९ ॥ पूर्वस्यां च दक्षिणस्यामधस्तादिति दिक्त्रये । संस्थितत्वादलोकस्य, ततो नाहारसम्भवः ॥ ३७० ॥ अपरस्या उत्तरस्या, ऊर्ध्वतश्चेति दिक्त्रयात् । पुद्गलानाहरत्येवं, सूक्ष्मा: पञ्चानिलोऽनणुः ॥ ३७१ ॥ तथोक्तम्-इह लोकचरमान्ते बादरपृथिवीकायिकाप्कायिकतेजोवनस्पतयो न सन्ति । सूक्ष्मास्तु पञ्चापि सन्ति, बादरा वायुकायिकाश्चेति पर्याप्तापर्याप्तकभेदेन द्वादशस्थानान्यनुसतव्यानीति” भगवतीसूत्र शतक ३४ उद्देश १ वृत्तौ । दयोर्दिशोस्तथैकस्या, अलोकव्याहतौ बुधैः । चतुः पञ्चदिगुत्पन्नोऽप्येषामेव विभाव्यताम् ॥ ३७२ ॥ तथाहिसर्वाधस्तादधोलोक, एव चेत्पश्चिमां दिशम् । स्थितोऽनुसृत्यैकाक्षः स्यात् प्राच्यां न व्याहतिस्तदा ॥ ३७३॥ अधस्तनी दक्षिणा च, द्वे एवं व्याहते इति । दिग्भ्योऽन्याभ्यश्चतसृभ्यः पुद्गलानाहरत्यसौ ॥ ३७४ ॥ द्वितीयादिप्रतरेषु, यदोर्ध्वं पश्चिमां दिशम् । स्थितोऽनृसृत्यैकाक्षः, स्यान्न व्याहतिरधोऽपि तत् ॥ ३७५ ॥ व्याहता दक्षिणैवैका, ततः पञ्च दिगागतान् । पुद्गलानाहरत्येष, एवं सर्वत्र भावना ॥ ३७६ ॥ द्रव्यतश्च स आहारः, स्यादनन्तप्रदेशकः । संख्यासंख्यप्रदेशौ हि, नात्मग्रहणगोचरः ॥ ३७७ ॥ असंख्याभ्रप्रदेशानां, क्षेत्रत: सोऽवगाहकः । जघन्यमध्यमोत्कृष्टस्थितिक: कालत: पुन: ॥ ३७८ ॥ भावतः पञ्चधा वर्णरसैर्गन्धैर्दिघाऽष्टधा । स्पर्शेरेकगुणत्वादिभेदैः पुनरनेकधा ॥ ३७९ ॥ किञ्च–अन्तरावगाढानि, स्वगोचरगतानि च । द्रव्याण्यभ्यवहार्याण्यणूनि वा बादराणि च ॥ ३८० ॥ आहरन्ति वर्णगन्धरसस्पर्शान्पुरातनान् । विनाश्यान्यांस्तथोत्पाद्यापूर्वान् जीवाः स्वभावतः ॥ ३८१ ॥ इत्याहारदिक्प्रसंगात् किञ्चिदाहारस्वरूपं च ॥ १८ ॥ अस्थिसम्बन्धरूपाणि, तत्र संहननानि तु । षोढा खलु विभिद्यन्ते, दाादितारतम्यतः ॥ ३८२ ॥ तथाहुः-“वज्जरिसहनारायं, पढमं बीयं च रिसहनारायं । नारायमद्धनारायं कीलिया तहय छेवटुं" ॥ [बृहत्संग्रहणी गाथा १५९] कीलिका वज्रमृषभः, पट्टोऽस्थिद्धयवेष्टकः । अस्नोमर्कटबन्धो यः, स नाराच इति स्मृतः ॥ ३८३ ॥ ततश्च–बद्धे मर्कटबन्धेन सन्धौ सन्धौ यदस्थिनी । अस्मा च पट्टाकृतिना, भवत: परिवेष्टिते ॥ ३८४ ॥ तदस्थित्रयमाविद्ध्य, स्थितेनास्ना दृढीकृतम् । कीलिकाकृतिना वज्रर्षभनाराचकं स्मृतम् ॥ ३८५ ॥ अन्यदृषभनाराचं, कीलिकारहितं हि तत् । केचित्तु वज्रनाराचं, पट्टोज्झितमिदं जगुः ॥ ३८६ ॥ अस्नोर्मर्कटबन्धेन, केवलेन दृढीकृतम् । आहुः संहननं पूज्या, नाराचाख्यं तृतीयकम् ॥ ३८७ ॥ बद्धं मर्कटबन्धेन, यद्भवेदेकपार्श्वतः । अन्यत: कीलिकानद्धमर्धनाराचकं हि तत् ॥ ३८८ ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy