SearchBrowseAboutContactDonate
Page Preview
Page 569
Loading...
Download File
Download File
Page Text
________________ 552 मतिस्निग्धमधुरत्वं २० प्रशस्यता २१ ॥ अमर्मवेधितौ २२ दार्य २३ धर्मार्थप्रतिबद्धता २४ । कारकायविपर्यासो २५ विभ्रमादिवियुक्तता ॥ २६ ॥ चित्रकृत्त्व २७ मद्भुतत्वं २८ तथानतिविलम्बिता २९ । अनेकजातिवैचित्र्य ३० मारोपितविशेषता ३१ ॥ सत्वप्रधानता ३२ वर्णपदवाक्यविविक्तता ३३ । अव्युच्छित्ति ३४ रख्नेदित्वं ३५ पञ्चत्रिंशच्च वाग्गुणाः ॥ [अभिधान चिन्तामणिः श्लोक ६५ थी ७१] अथार्हन्नीदृशा वाण्या, धर्मं पञ्चमहाव्रतम् । साधूनां श्रावकाणां च, दिशति द्वादशव्रतम् ॥ ६४१ ॥ अहिंसासुनृतास्तेयब्रहाचर्यापरिग्रहाः । महाव्रतानि पञ्चेति, निग्रन्थानां महात्मनाम् ॥ ६४२ ॥ केचित्कालविशेषेण, चत्वार्यवादिशन्ति च । महाव्रतानि स्त्रीत्यागसंग्रहो ह्यपरिग्रहे ॥ ६४३ ॥ अणुव्रतानि पञ्चादौ, त्रीणि गुणव्रतानि च । शिक्षाव्रतानि चत्वारि, व्रतानि गृहिणामिति ॥ ६४४॥ संकल्प्य त्रसजीवानां, निरपेक्षान्निरागसाम् । प्राणघातान्निवृत्तिर्या, प्रथमं तदणुव्रतम् ॥ ६४५ ॥ कन्यागोभूम्यलीकेभ्यो, न्यासापहरणाच्च या । निवृत्तिः कूटसाक्ष्याच्च, द्वितीयं तदणुव्रतम् ॥ ६४६ ॥ सन्धिग्रन्थ्यादिभेदाथै, राजनिग्रहकारि यत् । चौर्यं तस्मान्निवृत्तिर्या, तृतीयं तदणुव्रतम् ॥ ६४७ ॥ स्वदारैरेव संतुष्टिः, स्वीकृतैर्जनसाक्षिकम् । निवृत्तिर्वाऽन्यदारेभ्यश्चतुर्थं तदणुव्रतम् ॥ ६४८ ॥ परिग्रहस्य सत्तेच्छापरिमाणान्नियन्त्रणा । परिग्रहपरिमाणं, पञ्चमं तदणुव्रतम् ॥ ६४९ ॥ सीमा नोल्लङ्ख्यते यत्र, कृता दिक्षु दशस्वपि । ख्यातं दिक्परिमाणाख्यं, प्रथमं तद्गुणव्रतम् ॥ ६५० ॥ भोगोपभोगद्रव्याणां, मानमाजन्म चान्वहम् । क्रियते यत्र तद्भोगोपभोगविरतिव्रतम् ॥ ६५१ ॥ तत्र चसकृदेव भुज्यते यः, स भोगोऽन्ननगादिकः । पुनः पुन: पुनर्भाग्य, उपभोगोऽङ्गनादिकः ॥ [योगशास्त्र प्र. ३. श्लो. ५] द्वाविंशतेरभक्ष्याणामनन्तकायिनामपि । यावज्जीवं परीहारः, कीर्त्यतेऽस्मिन् व्रते जिनैः ॥ ६५२ ॥ तथाहुः-“पचुंबरि चउविगई हिम विस करगा य सबमट्टीय । रयणीभोयणगं चिय बहुबीअं अणंत संघाणं ॥ घोलवडां वायंगण अमुणियनामाणि फुल्लफलयाणि । तुच्छफलं चलिअरसं वज्जेह अभक्न बावीसं” ॥ [प्रवचनसारोद्धार द्वार ४. श्लोक २४५, २४६] उदुम्बरवटप्लक्षकाकोदुम्बरशाख्रिनाम् । पिप्पलस्य चेत्यभक्ष्यमार्याणां फलपञ्चकम् ॥ ६५३ ॥ मद्यं १ मांसं २ नवीनतं क्षौद्रं चेति ४ चतुष्टयम् । विकृतीनामभक्ष्यं स्याच्छ्रद्धालूनां शुभात्मनाम् ॥ ६५४ ॥ द्विदलान्नं पर्युषितं, शाकपूपादिकं च यत् । दध्यहतियातीतं, क्वथितान्नफलादिकम् ॥ ६५५ ॥ वर्षासु पक्षात्परतः, शीततौ मासतः परम् । पक्वान्नं विंशतिदिनातिक्रमे ग्रीष्म एव च ॥ ६५६ ॥ इत्याद्यभक्ष्यं चलितरसमुक्तं जिनेश्वरैः । द्वीन्द्रियत्रसजीवानां, यदुत्पत्तिर्भवेदिह ॥ ६५७ ॥ शेषाण्यभक्ष्याणि प्रतीतानि, अनन्तकायनामानि प्रागुक्तान्येव. पापोपदेशो विविधः १, पापोपकरणार्पणम् २ । आर्त्तरौद्राभिधे ध्याने ३, प्रमादाचरणं ४ तथा ॥ ६५८ ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy