________________
551
तत्रान्यच्छिन्नकाष्टानां, शिलोञ्छं छेदनाक्षमा । संगृह्य श्रेष्ठिनीतुष्ट्यै, सामर्थ्याधिकवीवधम् ॥ ६१८ ॥ कृत्वा शिरसि तृट्तापक्षुत्नेदस्वेदविह्वला । पुरस्तस्या ढौकयित्वा, दैन्यादन्नं ययाच ताम् ॥ ६१९ ॥ निस्त्रिंशा निस्त्रपा सैवं, तामभाषिष्ट दुष्टधीः । अल्पीयांसि किमेधांसि, रे रे रण्डे त्वमाहर: ? ॥ ६२० ॥ काष्टैः प्रज्वाल्यते क्षुद्रैनैतावद्भिर्भवत्यपि । गृहं मे भक्षितं सर्वं, रेऽकिञ्चित्करया त्वया ॥ ६२१ ॥ जरत्युवाच हे मातीनायां मयि मा कुपः । भक्ष्यमुद्धरितं किञ्चिद्यच्छ क्षुत्पीडिताऽस्म्यहम् ॥ ६२२ ॥ पुनरप्याहरिष्यामि, स्वस्थीभूय क्षणान्तरे । शरणं निःशरण्यायास्त्वमेवासि ममाम्बिके ! ॥ ६२३ ॥ सा प्रोचे जनकास्थीनि, खाद प्रश्रवणं पिब । मृत्वा स्वस्था भवाद्यापि, म्रियसे किं न दुभरे ? ॥ ६२४ ॥ आनीतेभ्यश्चतुर्नेषु, पुनरप्याहतेषु रे । काष्ठेषु तुभ्यं दास्यामि, भक्ष्यं तद्गच्छ सत्वरम् ॥ ६२५ ॥ तथैव गत्वा साऽरण्ये, काष्ठभारं चतुर्गुणम् । कष्टेन महतोच्चित्य, निदधौ मूर्ध्नि दुर्वहम् ॥ ६२६ ॥ प्रस्फुटद्धृदया श्वासैरारोहंतीव भूधरम् । उत्फुल्लगल्लप्रसरत्फूत्कारा भुजगीव च ॥ ६२७ ॥ स्नातेव क्लिन्नसर्वाङ्गचीवरा स्वेदनिझरैः । पीतमद्येव निश्चेष्टा, प्रपतन्ती पदे पदे ॥ ६२८ ॥ पतन्तमप्यादधती, भारं मूर्जि पुनः पुनः । रुष्टाऽभीष्टमिवानिष्टमपि वेश्येव गलना ॥ ६२९ ॥ प्राप्तपाताऽप्यवष्टब्धा, यष्ट्या जीर्णकुटीव सा । प्रकम्पमानसर्वाङ्गोत्पन्नशीतज्वरेव च ॥ ६३० ॥ विविक्षुरिव भूम्यन्तर्यग्भूता भूरिभारतः । मृत्युं संभाषमाणेव, हृदि न्यस्तकरा मुहुः ॥ ६३१ ॥ क्षुत्क्षीणजठरस्थित्वशेषाऽशेषाऽसुखाश्रिता । समन्ताद्भिश्लथा शुष्कशमीवाऽऽततकोटरा ॥ ६३२ ॥ असकृद्रसनालीढसक्का शुष्कगलाधरा । दन्तशून्याऽऽस्यविगलल्लालाक्षिक्षरदश्रुका ॥ ६३३ ॥ क्षणे क्षणे स्मरन्ती तं, वणिकपल्या: पराभवम् । भक्ष्यं दास्यति सा नो वेत्येवं चिन्ताऽग्निचुम्बिता ॥ ६३४ ॥ अनन्यगतिकत्वेनागच्छन्ती मन्दिरं प्रति । यावत्साऽऽयाति समवसरणस्यान्तिके प्रभोः ॥ ६३५ ॥ तावत्कण्टकमुद्धा सोच्चिक्षेप निजं क्रमम् । न्यास्थत् पाणिं च तत्र स्वं, तदा तत्कर्णकोटरे ॥ ६३६ ॥ प्रविवेशार्हतां वाणी, पीयूषद्रवपेशला । शुश्राव सैकचित्ता तां, विस्मृताखिलवेदना ॥ ६३७ ॥ दिशत्यब्दसहस्राणि, भगवान् देशनां यदि । तस्याश्च तावदायुश्चेत्तर्हि साऽवस्थिता तथा ॥ ६३८ ॥ श्रृणोत्येवोदूढभारा, पादं न्यस्यति न क्षितौ । न स्मरेत्क्षुत्तृडायति नाप्युद्धरति कण्टकम् ॥ ६३९ ॥ ईदृग्रसाया भगवदाण्या: स्वाभाविकानिह । पञ्चत्रिंशतमित्याहुर्गुणान् श्रीहेमसूरयः ॥ ६४०॥
"संस्काखत्त्व १ मौदात्त्व २ मुपचारपरीतता ३ । मेघगम्भीरघोषत्वं ४ प्रतिनादविधायिता ५ ॥ दक्षिणत्व ६ मुपनीतरागत्वं च ७ महार्थता । अव्याहतत्वं ९ शिष्टत्वं १० संशयानामसंभव: ११॥
निराकृतान्योत्तरत्वं १२ हृदयङ्गमताऽपि च १३ । मिथ: साकाडूता १४ प्रस्तावौचित्यं १५ तत्त्वनिष्ठता १६ ॥ अप्रकीर्णप्रसतत्व १७ मस्वश्लाघान्यनिन्दिता १८ । आभिजात्य १९