________________
549
तानि स्वर्णमयान्युद्यद्रत्नालीखचितानि च । जिनं द्रष्टुं क्लृप्तलक्षाक्षाणीवानेकहीरकैः ॥५७८ ॥ पुरश्चैकैकमुद्योतिरत्नज्योतिर्भरैर्लसत् । पादपीठं धृतोल्लासमिवाहत्पदसंगमे ॥५७९ ॥ प्रतिसिंहासनं प्रौढच्छत्राणां स्यात्त्रयं त्रयम् । उपर्युपरिसंस्थायिमौक्तिकश्रेण्यलङ्कतम् ॥ ५८० ॥
तथाहुः-"तवोर्ध्वमूर्ध्वं पुण्यद्धिक्रमसब्रह्मचारिणी । छत्रत्रयी त्रिभुवनप्रभुत्वप्रौढिशंसिनी ॥
[वीतरागस्तोत्र प्र. ५. श्लो. ८] प्रतिसिंहासनं चन्द्रचारुचामरधारिणौ । सुरौ द्वौ बावुभयतः, सर्वालङ्कारभासुरौ ॥ ५८१ ॥ सिंहासनस्य पुरतः, सुवर्णकमलस्थितम् । चतुर्दिशं धर्मचक्रमेकैकं भानुजित्वरम् ॥ ५८२ ॥ तच्चाहतां त्रिभुवनधर्मचक्रित्वसूचकम् । स्फुरज्ज्योतिः स्मृतमपि, प्रतिपक्षमदापहम् ॥ ५८३ ॥ सिंहासनं धर्मचक्रं, ध्वजश्छत्रं च चामराः । चरन्त्याकाशमार्गेण, क्षितौ विहरति प्रभौ ॥ ५८४ ॥
तथाहुः-“आगासगएणं चक्केणं, आगासगएणं छत्तेणं, आगासगएणं सपायपीढेणं सिंहासणेणं
आगासगयाहिं सेअवरचामराहिं” इत्यादि । चतुर्दिशं च चत्वारः, सहस्रयोजनोच्छ्रिता: । घण्टालघुपताकादिमण्डिताः स्युर्महाध्वजाः ॥ ५८५ ॥ तत्र धर्मध्वजः प्राच्या, याम्यां मानध्वजो भवेत् । गजध्वजः पश्चिमायामुदक् सिंहध्वजो महान् ॥ ५८६ ॥ यदत्र चापक्रोशादि, मानमुक्तं यथाऽऽस्पदम् । भवेत्तदत्राधिकृतजिनात्माङ्गलमानतः ॥ ५८७ ॥
तदुक्तं-'सव्वं माणमिणं नियनियकरेणेति' । [समवसरण स्तव. श्लो. १३] पीठं च चैत्यवृक्षं चासनं च छत्रचामरान् । सद्देवच्छन्दकादीनि, कुर्वन्ति व्यन्तरामराः ॥ ५८८ ॥ साधारणेऽयं समवसरणे कथितो विधिः । सर्वमेकोऽप्यदः कुर्यात्कश्चिद्भक्त्या सुरो महान् ॥ ५८९ ॥ हर्षात्कर्षात्सिंहनादं, तत्र कुर्वन्ति नाकिनः । समापतन्तः स्वगेभ्यो, वादयन्ति च दुन्दुभिम् ॥ ५९० ॥ तत्र सूर्योदये स्वामी, द्वयोः कनकपद्मयोः । क्रमेण स्थापयन्पादौ, सुरसंचार्यमाणयोः ॥ ५९१ ॥ अन्वीयमानः शेषैच, सप्तभिः स्वर्णपङ्कजैः । एवं निजपदन्यासकृतार्थितनवाम्बुजः ॥ ५९२ ॥ पूर्वद्वारेण समवसरणे प्रविशत्यथ । प्रदक्षिणीकृत्य पूर्वसिंहासने निषीदति ॥ ५९३ ॥ पादपीठन्यस्तपादः, कृततीर्थनमस्कृतिः । विधत्ते देशनां स्वामी, गम्भीरमधुरध्वनिः ॥ ५९४ ॥ तीर्थं नाम श्रुतज्ञानं, यदा सङ्कचतुर्विधः । आयो वा गणभृत्तेन, तीर्यते यद्भवाम्बुधिः ॥ ५९५ ॥
तथोक्तं-"तित्थं भंते ! तित्थं तित्थयरे, तित्थं ? गो० ! अरहा ताव नियमा तित्थयरे, तित्थं पुण चाउवण्णो संघो पढमगणहरो वेति” भगवतीसूत्रे । अर्हत्तैतत्पूर्विका यत्तथा पूजितपूजकः । लोकोऽप्यर्हत्पूजितत्वात्पूजयेत्तीर्थमादरात् ॥ ५९६ ॥ ततस्तीर्थं नमत्यर्हन, कृतकृत्योऽपि वा यथा । धर्मं कथयति स्वामी, तथा तीर्थं नमस्यति ॥ ५९७ ॥