________________
548
मध्यदेशेऽस्य पीठस्य, स्यादशोकस्तरूत्तमः । विस्तीर्णशाखो नीरन्ध्रच्छायो योजनविस्तृतः ॥ ५७४ ॥ तत्तज्जिनवपुर्मानात्, स द्वादशगुणोन्नतः । शश्वत्पुष्पच्छत्रकेतुपताकातोरणादियुक् ॥ ५७५ ॥
अत्र समवसरणस्तोत्रावचूर्णि:- [श्लो. १०] “अस्य च जिनतनुदादशगुणोच्चस्य वप्रभित्तितो बहिर्निर्गमाभावेन योजनपृथुत्वं दुर्घटं, परमेतदुपस्स्थिायितुगतरसालवृक्षेण कृत्वाऽस्य योजनपृथुत्वं संभाव्यते ।
उक्तं च समवाया३-"चउवीसाए तित्थयराणं चउवीसं चेइयरुक्खा होत्था, तं जहा-निग्गोह १ सत्तवण्णे २ साले ३ पिअए ४ पिअंगु ५ छत्ताहे ६ । सरिसे ७ अ नागरुक्खे ८ माली य ९ पिलक्खुरुक्खे १० य ॥ तिंदुग ११ पाडल १२ जंबू १३ आसोत्थे १४ खलु तहेव दहिवन्ने १५ । नंदीरुक्खे १६ तिलए य १७ अंबरूक्ने १८ असोगे १९ य ॥ चंपय २० बउले य २१ तहा वेडसरुक्ने २२ तहेव धवरुक्ने २३ । साले य २४ वद्धमाणस्स चेइयरुक्खा जिणवराणं ॥
बत्तीसं धणुयाई चेइयरुक्खो य वद्धमाणस्स । निच्चोउगो असोओ उच्छन्नो सालरुक्नेण ॥ तिन्नेव गाउआई चेइयरुक्खो जिणस्स उसभस्स । सेसाण जिणाणं पुण सरीरओ बास्सगुणोउ ॥ सच्छता सपडागा सवेइया तोरणेहिं उववेया । असुस्सुरगरुलमहिया चेइयरुक्खा जिणवराणं ॥
'चेइअरुक्रवत्ति' चैत्यवृक्षा ज्ञानोत्पत्तिवृक्षाः, चतुर्थगाथायां 'बत्तीसं धणुआइति' असोगवरपायवं जिणउच्चत्ताओ बारसगुणं विउब्बइ' इत्यावश्यकचूर्णिवचनात्सप्तहस्तमानादीरस्वामिदेहाद् द्वादशगुणीकृतः सन् २१ धनूंषि भवत्यशोकः, तदुपरि ११ धनुर्मानः सालवृक्षश्च स्यात्, उभयोर्मीलने ३२ धनूंषि चैत्यद्रुमो वीरस्येति संप्रदायः, तथा 'निच्चोउगो' नित्यं ऋतुरेव पुष्पादिकालोऽस्येति नित्यर्तुक इति समवसरणस्तवावचूणौ ।
अत्र श्रीवीरचैत्यवृक्षाशोकवृक्षयोः समुदितयोभत्रिंशद्धनुर्मानत्वमुक्तं । शेषाणामप्यर्हतां स्वस्वशरीरमानाद् द्वादशगुणत्वं चैत्यतरूणामूचे । तथापि पूर्वोक्तानुपपत्तिस्तदवस्थैव । पञ्चधनुःशतोच्चाया वप्रभित्तेरुपरि भूत्वा तच्छाखानां बहिः प्रसरणस्य दुरुपपादत्वात् । ___ जिनाङ्गानि हि उत्सेधाङ्गलेन पञ्चधनुःशतादिमानानि स्युः, वप्रभित्तिस्तु वर्तमान जिनात्माङ्गलेन पञ्चधनुःशतमानेत्यादि सम्यक् चिन्तनीयं, तेन यदि दिव्यानुभावाद्धप्रभित्तिमध्यभागेनाशोक
चैत्यवृक्षाणां शाखा: प्रथमवप्राबहिः प्रसपैयुस्तदा किमनुपपन्नं स्यादित्यवधार्य । अन्यथा वा यथाऽऽगमं परिभावनीयमिदमिति, न्यग्रोधाद्या अमी ज्ञानोत्पत्तिवृक्षा यथायथम् । सर्वेषामर्हतां भाव्या, अशोकोपरिवर्तिनः ॥ ५७६ ॥ तस्याशोकस्य मूले च, देवच्छंदोऽर्हतां भवेत् । सिंहासनानि चत्वारि, तत्र च स्युश्चतुर्दिशं ॥ ५७७ ॥
१. शाखानिर्गमो न भवति यावत् तावत एवात्र विवक्षतत्वं, तेन योजनप्रमाणत्वे वप्रभित्तिबर्हिगमने न स्याद् घटना ।