________________
547
अत्र पूर्वोक्तसोपानरुद्धक्षेत्रे पृथक्कृते । धनुः शतद्वयी सार्द्धा, शेषा प्रतर उह्यते ।। ५५६ ।। एवं च
स्यात्सार्द्धक्रोशविस्तारान्तरो वप्रोऽत्र राजतः । विस्तारमीलने प्राग्वदुभयोरपि पार्श्वयोः ॥ ५५७ ।। स्वर्णवप्रान्तरव्यास, एकक्रोशमितो मतः । यतः क्रोशार्द्धमेकैकपार्श्वे व्यासो भवेदिह ।। ५५८ ।। यदुक्तं समवसरणस्तोत्रे - “ चउरंसे इगधणुसयपिहु वप्पा सड्ढकोसअंतरया । पढमबिया बिअतइआ कोसंतरपुब्वमिव सेसं" ।। ५८९ ॥ [ श्लोक. ६ ]
यद्यप्यस्यावचूर्णावित्युक्तं दृश्यते-अत्र चान्तरं पूर्ववत्प्रतरसोपानापेक्षया न गण्यते, किंतु आद्याद् द्वितीयस्यैकतः १५०० धनूंषि, परतोऽप्येवं, द्वितीयात्तृतीयस्यैकतः १००० धनूंषि, द्वितीयपार्श्वेऽप्येवं सन्तीत्येवमेव ज्ञेयं, एवमेव पूर्वाचार्याम्नायादिति ।
तथाप्यत्र सुवर्णवप्रे एकस्मिन् पार्श्वे एकधनुः सहस्रान्तरे सार्द्धद्वादशधनुः शतक्षेत्र संमातव्यानि एकैकहस्तपृथुलानां सोपानानां पञ्चसहस्राणि कथं संमान्तीति बहुश्रुतेभ्यो भावनीयमिति । रत्नप्राकारविस्तारो, भवत्यत्रापि पूर्ववत् । क्रोशेनैकेन धनुषां शतैः षड्भिश्च संमितः ॥ ५५९ ॥ वप्रत्रयान्तख्यासे, पूर्वोक्त इति मीलिते । सार्द्धं क्रोशत्रयं स्यात् षट्शती च धनुषामिह ॥ ५६० ॥ सुवर्णरत्नप्राकारभित्तीनां च चतसृणाम् । चतुर्धनुः शतव्यासयोगे भवति योजनम् ॥ ५६१ ।। रूप्यवप्रस्य भित्तेस्तु, विस्तृतिर्या धनुःशतम् । सा न गण्या योजनेऽस्मिन्, बाह्यसोपानकान्यपि ॥ ५६२ ॥ त्रयाणामपि वप्राणां, परिधिस्तु स्वयं बुधैः । चतुरस्रतया भाव्यो, व्यासमानाच्चतुर्गुणः ॥ ५६३ ॥ कोणे कोणे च भवतो, द्वे द्वे वाप्याविहोत्तमे । उक्तं च वक्ष्यमाणं च, शेषमत्रापि वृत्तवत् ॥ ५६४ ॥ अथ तृतीयवप्रे यत्, प्रागुक्तं समभूतलम् । तस्य मध्ये पीठमेकं मणिरत्नमयं भवेत् ॥ ५६५ ।। तत्स्याज्जिनतनूच्छ्रायपरिमाणसमोच्छ्रयम् । चतुर्द्धारं त्रिसोपानरमणीयं चतुर्दिशम् ॥ ५६६ ।। विष्कम्भायामतस्तच्च, कोदण्डानां शतद्वयम् । क्रोशद्वयेन सार्द्धन, भवत्युच्चैर्महीतलात् ॥ ५६७ ॥ यदेकहस्तोतुङ्गानां, सोपानानां सहस्रकैः । विंशत्या क्रोशयोर्युग्मं, सार्द्धमेवोच्छ्रयो भवेत् ॥ ५६८ ॥ तच्च सिंहासनाध: स्थधरायाः पीठिकावधि । उच्छ्रयस्य भवेन्मानं, समश्रेणिविवक्षया ॥ ५६९ ।। कर्णभूमि भगवत्सिंहासनस्य मूलतः । बाह्यसोपानमूलान्तं, रज्जुर्विस्तार्यते यदि ।। ५७० ।। अष्टौ चापसहस्राणि, द्विशताभ्यधिकानि तत् । भवन्त्येकस्तथा हस्तोऽङ्गुलानि च दशोपरि ॥ ५७१ ॥ जिनासनाद्वाह्यवप्रशीर्षावधि तु कर्णभूः । धनुषां षट् सहस्राणि त्र्यधिका च चतुःशती ॥ ५७२ ॥ एकादशाङ्गुलान्येवं, सर्वतोऽपि विभाव्यताम् । लीलावत्युक्तरीत्या च, कार्या गणितभावना ॥ ५७३ ।।
I
१ सोपानानामुद्ध्वा पट्टिका स्यात् चेत् न विरोधः, यद्धोपर्यारुह्य किंचिदुत्तरणीयं स्यात् ।