________________
544
यदाहुः- “चालिज्जइ बीहेइ व धीरो न परीसहोवसग्गेहिं । सुहुमेसु न संमुज्ाइ भावेसु न देवमायासु ॥ देहविवित्तं पिच्छइ अप्पाणं तह य सब्बसंजोगा । देहोवहिवुस्सग्गं निस्संगो
सबहा कुणइ” ॥ [ध्यानशतक श्लोक. ९१, ९२] चत्वार्यालम्बनानि स्युः, शुक्लध्यानस्य च क्रमात् । कषायाणां क्षयात् क्षान्तिमावार्जवमुक्तयः ॥ ४८८ ॥ आत्मनोऽनन्तवर्तित्वानुप्रेक्षा प्रथमा भवेत् । तथा विपरिणामानुप्रेक्षा प्रोक्ता द्वितीयिका ॥४८९ ॥ अनुप्रेक्षाऽशुभत्वस्यापायानां चेति नामतः । शुक्लध्याने चतस्रोऽनुप्रेक्षा: प्रेक्षाश्रयैः स्मृताः ॥ ४९० ॥ अनंतकालं भ्रमतो, जीवस्य भवसागरे । भावनाऽनन्तवर्तित्वानुप्रेक्षा परिकीर्तिता ॥ ४९१ ॥
सा - “एसो अणाइनिहणे संसारे सागरुब कुतारे । नास्यतिस्अिनरामरभक्सु परिहिंडए जीवो” ॥ विविधा ये परिणामा, वस्तूनां तद्धिभावना । भवेदिपरिणामानुप्रेक्षा प्रेक्षावतां प्रिया ॥ ४९२ ॥
तथाहि- “सव्वट्ठाणाइं असासयाइं इह चेव देवलोगे य । सुरअसुरनराईणं रिद्धिविसेसा
सुहाइं च ॥ क्षणभङ्गसंपत्तेर्विरूपस्य भवस्य यत् । विभावनाऽशुभत्वानुप्रेक्षा सा परिकीर्तिता ॥ ४९३ ॥
तथाहि- “धि द्धी संसारो जंमि जुआणो परमरुवगब्बियओ । मरिऊण जायइ किमी तत्थेव
कलेवरे नियए”॥ कषायेभ्योऽथाश्रवेभ्यः, प्रमादविषयादितः । अपायभावनाऽपायानुप्रेक्षा सा प्रकीर्तिता ॥ ४९४ ॥
यथा-"कोहो य माणो य अणिग्गहीया माया य लोहो य पवड्ढमाणा । चत्तारि एए कसिणा कसाया, सिंचंति मूलाई पुणब्भवस्स” ॥ इत्यादि, इदं चार्थतः प्रायस्तृतीयाङ्गगतं ।
[दशवै. अ. ८ गा. ४०] आयेऽथ शुक्लध्यानस्य, ध्याते भेददयेऽर्हताम् । घातिकर्मक्षयादाविर्भवेत्केवलमुज्ज्वलम् ॥ ४९५ ॥ ततो जानन्त्यनन्तानि, द्रव्याणि विविधानि ते । त्रैकालिकांश्च पर्यायान्, प्रतिद्रव्यमनन्तकान् ॥ ४९६ ॥ सर्वेषामपि जानन्ति, जीवानामागतिं गतिम् । स्थितिं चेतश्चिन्तितं च, कृतं भुक्तं निषेवितम् ॥ ४९७ ॥ न जानन्ति न पश्यन्ति, यत्तन्नास्ति जगत्त्रये । भवन्त्यतस्तेऽरहसोऽर्हन्तश्च जगदर्चिताः ॥ ४९८ ॥ यत्तृतीयभवे बद्धं, तीर्थकृन्नामकर्म तत् । प्राप्तोदयं विपाकेन, जिनानां जायते तदा ॥ ४९९ ॥ तस्मिन्नेव क्षणे देवेश्वरा आसनकम्पतः । केवलज्ञानमुत्पन्नं, सर्वे जानीयुरर्हताम् ॥ ५०० ॥ ततः पूर्वोक्तया रीत्या, चतुष्षष्टिः सुरेश्वराः । आगच्छन्ति प्रमुदिता, ज्ञानोत्पादास्पदेऽर्हताम् ॥ ५०१ ॥ तत्र वायुकुमारा द्राग्, योजनप्रमितां महीम् । शोधयेयुः कचवरतृणाद्युत्सृज्य दूरतः ॥ ५०२ ॥ ततो मेघकुमारास्तां, सिञ्चन्त्यद्भिः सुगन्धिभिः । पञ्चवर्णैः पूजयन्ति, पुष्पैर्ऋत्वधिदेवताः ॥ ५०३ ॥ रचयन्ति ततः पीठं, व्यन्तरास्तत्र भूतले । भूमेः सपादक्रोशोच्चं, स्वर्णरत्नमणीमयम् ॥ ५०४ ॥ तत्र रूप्यमयं वप्रं, कुर्वते भवनाधिपाः । सहस्रैर्दशभिः प्राप्यं, सोपानानां भुवस्तलात् ॥ ५०५ ॥