________________
543
उक्तं च- “ उप्पायठिइभंगाई पज्जयाणं जमेगदव्वंमि । नाणानयाणुसरणं पुब्वगयसुयाणुसारेण ॥ सवियारमत्थवंजणजोगंतरओ तयं पढमसुकं । होइ पुहत्तवियङ्कं सवियारमरागभावस्स” ॥ [ ध्यानशतक श्लोक ७७, ७८ ]
अनेकेषां पर्यवाणामेकद्रव्यावलम्बिनाम् । एकस्यैव वितर्को यः, पूर्वगतश्रुताश्रयः ॥ ४७१ ॥ स च व्यञ्जनरूपोऽर्थरूपो वैकतमो भवेत् । यत्रैकत्ववितर्काख्यं तद्ध्यानमिह वर्णितम् ॥ ४७२ ॥ न च स्याद्व्यञ्जनादर्थे, तथाऽर्थाद्व्यञ्जनेऽपि च । विचारोऽत्र तदेकत्ववितर्कमविचारि च ॥ ४७३ ॥ मनःप्रभृतियोगानामप्येकस्मात्परत्र नो । विचारोऽत्र तदेकत्ववितर्कमविचारि च ॥ ४७४ ॥ इदं ह्येकत्र पर्याये, योगचाञ्चल्यवर्जितम् । चिरमुज्जम्भते दीप्रं, निर्वातगृहदीपवत् ॥ ४७५ ।। तथाहु:-“जं पुण सुनिप्पकंपं निवायसरणप्पईवमिव चित्तं । उप्पायठिईभंगाइयाणमेगंमि पज्जाए || अवियारमत्थवंजणजोगंतरओ तयं बिइयसुकं । पुब्वगयसुयालंबणमेगत्तवियारमवियङ्कं” ॥ [ ध्यानशतक श्लोक ७९, ८०] क्रियोच्छ्वासादिका सूक्ष्मा, ध्याने यत्रास्ति कायिकी । निवर्त्तते न यत्सूक्ष्मक्रियं चैवानिवर्त्ति तत् ॥ ४७६ ॥ स्याद्धर्द्धमान एवात्र, परिणामः क्षणे क्षणे । न हीयमानस्तदिदमनिवर्त्ति प्रकीर्त्तितम् ॥ ४७७ ॥ तच्च निर्वाणगमनकाले केवलिनो भवेत् । रुद्धवाक्चित्तयोगस्य वपुर्योगार्द्धरोधिनः ॥ ४७८ ॥ उक्तं च- “निव्वाणगमणकाले केवलिणोदरनिरुद्धजोगस्स । सुहुमकिरियाऽनियट्टी इयं तणुकायकिरियरस” ॥ [ ध्यानशतक श्लोक. ८१]
समुच्छिन्ना: क्रिया: कायिक्याद्या योगनिरोधत: । यस्मिन् यच्चाप्रतिपाति, तच्छुक्लध्यानमन्तिमम् ॥ ४७९ ।। इदं त्ववस्थां शैलेश, प्राप्तस्याखिलवेदिनः । निरुद्धाशेषयोगस्य, शुक्लं' परममीरितम् ॥ ४८० ॥ सिद्धत्वेऽपि हि संप्राप्ते, भवत्येतदवस्थितम् । न तु न्यूनाधिकं तेनाप्रतिपातीदमुच्यते ॥ ४८१ ॥ इयं हि परमा कोटिः, शुक्लध्यानस्य निश्चिता । अतः परं तन्नास्तीति, परमं शुक्लमुच्यते ॥ ४८२ ॥ तथोक्तं- “ तस्सेव य सेलेस गयस्स सेलव्व निप्पकंपस्स । वोच्छिन्नकिरियमप्पडिवाड़ झाणं परमसुकं” ॥ योगनिरोधपद्धतिस्तु द्रव्यलोकतो ज्ञेयेति । [ ध्यानशतक श्लो. ८२]
अव्यथं चाप्यसंमोहो, विवेकः स्यात्तथा परः । व्युत्सर्गश्च भवेच्छुक्लध्यानचिह्नचतुष्टयम् ॥ ४८३ ॥ यद्देवाद्युपसर्गेभ्यो, भयं तत्कथ्यते व्यथा । - तदभावोऽव्यथं शुक्लध्यानलक्षणमादिमम् ॥ ४८४ ॥ देवादिमायाक्लृप्तस्य, सूक्ष्मार्थजनितस्य वा । संमोहस्येह मौढ्यस्याऽभावोऽसंमोह इष्यते ॥ ४८५ ॥ जीवस्य देहात्सर्वेभ्यः, संयोगेभ्यश्च शुद्ध्या । भिन्नत्वभावनं बुद्ध्या, स विवेको विवेचनात् ॥ ४८६ ॥ यन्निःसङ्गतयाऽङ्गस्य, परित्यागस्तथोपधेः । स व्युत्सर्गश्चतुर्थं स्याच्छुक्लध्यानस्य लक्षणम् ॥ ४८७ ॥ १ आभवक्षयान्न प्रतिपततीत्येवार्थ: अप्रतिपातिनः न च सिद्धत्वे ध्यानं, कर्मक्षयाकरणात् चारित्राभावात् अयोगित्वान्ते श्रेण्यन्ताच्च ।