________________
541
तथाहुः-“देविंदचक्कवट्टित्तणाई गुणरिद्धिपत्थणामइयं । अहम नियाणचिंत्तण
मन्नाणाणुगयमच्चत्तं” ति ॥ [ध्यानशतक श्लो. १] क्रन्दनं शोचनं चाश्रुमोचनं परिदेवनम् । आर्तध्यानस्य चत्वारि, लक्षणान्याहुरार्हताः ॥ ४३५ ॥ तत्र-क्रन्दनं स्यादिवरणं, शोचनं दीनता मता । स्पष्टं तृतीयं तक्लिष्टवाक्याढ्यं परिदेवनम् ॥ ४३६ ॥
आत्मवर्तित्वादलक्ष्यमप्येभिर्लक्षणैरदः । लक्ष्यते इत्यमून्याहुर्लक्षणान्यस्य धीधनाः ॥ ४३७ ॥ हिंसामृषायतिक्रूराध्यवसायात्मकं भवेत् । परप्रदेषजं रौद्रध्यानं तच्च चतुर्विधम् ॥ ४३८॥ हिंसा १ मृषा २ स्तैन्य ३ संरक्षणा ४ नुबंधिभेदतः । तत्राद्यं प्राणीनां दाहवधबन्धादिचिन्तनम् ॥ ४३९ ॥ पैशून्यासभ्यवितथवचसा परिचिन्तनम् । अन्येषां द्रोहबुद्ध्या यन्मृषावादानुबन्धि तत् ॥ ४४० ॥ तथाहुः- “पिसुणासभासब्भूअभूयघायाइवयणपणिहाणं । मायाविणोऽभिसंधणपरस्स
पच्छन्नपावस्स” ॥ [ध्यानशतक श्लो. २०] परद्रव्यापहरणचिन्तनं तीव्ररोषतः । तन्नायकोपघातायैर्भवेत्स्तैन्यानुबन्धि तत् ॥ ४४१ ॥ स्वीयस्वरक्षणार्थं यच्छङ्कमानस्य सर्वतः । परोपघाताभिप्रायः, संरक्षणानुबन्धि तत् ॥ ४४२ ॥ तथोक्तं- “सद्दाइविसयसाहणधणसंरक्खणपरायणमणिहूँ। सव्वाभिसंकणपरोव__घायकलुसाउलं चित्तं” ॥ [ध्यानशतक श्लो. २२] हिंसादिषु चतुर्वेषु, यदेकासेवनं मुहुः । रौद्रध्यानस्य तद् ज्ञेयं, प्रथमं लक्षणं बुधैः ॥ ४४३ ॥ चतुर्वेषु प्रवृत्तिस्तु, द्वितीयं तस्य लक्षणम् । तथा कुशास्त्रसंस्कारात्मकादज्ञानदोषतः ॥ ४४४ ॥ हिंसादिकेष्वधर्मेषु, धर्मबुद्ध्या प्रवर्तनम् । तृतीयं लक्षणं ज्ञेयं, चतुर्थं तु भवेदिदम् ॥ ४४५ ॥ मरणांतेऽपि संप्राप्ते, हिंसादेरनिवर्तनम् । महासंक्लिष्टमनसः, कालशौकरिकादिवत् ॥ ४४६॥ श्रुतचारित्रधर्माभ्यामनपेतं तु यद्भवेत् । तद्धर्म्य ध्यानमुक्तं तच्चतुर्भेदं जिनोत्तमैः ॥४४७ ॥ आज्ञाविचयसंज्ञं स्यात्, श्रुतार्थचिन्तनात्मकम् । अपायविचयं त्वाश्रवादिभ्योऽपायचिन्तनम् ॥ ४४८ ॥ पुण्यपापफलचिन्ताविपाकविचयाभिधम् । संस्थानविचयं तु स्याल्लोकाकृत्यादिचिन्तनम् ॥ ४४९ ॥
__ तथाहुः-“आप्तवचनं हि प्रवचनमाज्ञाविचयस्तदर्थनिर्णयनम् । आश्रवविकथागौरवपरीषहाचैरपायस्तु ॥ अशुभशुभकर्मविपाकानुचिन्तनार्थो विपाकविचयः स्यात् । द्रव्यक्षेत्राकृत्यनुगमनं
संस्थानविचयस्तु ॥ [प्रशमरति श्लोक २४७, २४८] रुची आज्ञानिसर्गाभ्यां, सूत्रविस्तारयो रुची । चतुर्दा रुचयो धर्मध्यानचिह्नचतुष्टयम् ॥ ४५० ॥ सूत्रव्याख्यानमाज्ञा स्यान्निर्युक्त्यादीह तत्र या । रुचिः श्रद्धानमेषाऽऽज्ञारुचिरुक्ता महर्षिभिः ॥ ४५१ ॥ विनोपदेशं या तत्त्वश्रद्धा सा स्यान्निसर्गजा । सूत्रे श्रद्धा सूत्ररुचिस्तद्विस्तारेऽन्तिमा रुचिः ॥ ४५२ ॥