________________
540
नन्वङ्गमनसोः स्थैर्यापादनात्संभवेद् द्विधा । ध्यानं कथं तृतीयं तु, वाचिकं संभवेदिह ? ॥। ४१३ ॥ अत्रोच्यते
यथा मानसिकं ध्यानमेकाग्रं निश्चलं मनः । यथा च कायिकं ध्यानं, स्थिरः कायो निरेजनः ॥ ४१४ ॥ तथा यतनया भाषां, भाषमाणस्य शोभनाम् । दुष्टां वर्जयतो ध्यानं, वाचिकं कथितं जिनैः ॥ ४१५ ॥ तथाहु:- “ एवंविहा गिरा मे वत्तव्या एरिसा न वत्तव्वा । इय वेयालिअवक्कस भासओ वाइगं झाणं” ॥
४२१ ॥
मनोवच:काययोगान्नयन्नेकाग्रतां मुनिः । वर्त्तते त्रिविधे ध्याने, गणयन् भङ्गिकश्रुतम् ॥ ४१६ ॥ त्रैधेष्वपीति योगेषु, ध्यानत्वे किल निश्चिते । मुख्येनैकतमेनैव, व्यपदेशः स्फुटो भवेत् ॥ ४१७ ॥ यथा सत्स्वपि दोषेषु, वातपित्तकफात्मसु । यदा भवेदुत्कटो यः, कुपितः स तदोच्यते ॥ ४१८ ॥ यथा गच्छन् राजमार्गे, नृपतिस्सपरिच्छदः । गच्छत्ययं नृप इति, मुख्यत्वाद्व्यपदिश्यते ॥ ४१९ ॥ तथा चित्तस्य मुख्यत्वाद्भयानं चित्तोत्थमुच्यते । वाक्काययोस्त्वमुख्यत्वात्तद्धयानं नोच्यते पृथक् ॥ ४२० ॥ ज्ञातविश्वस्वभावस्य, निस्सङ्गस्य महात्मनः । निर्ममस्य विरक्तस्य, भवेद्ध्याने स्थिरं मनः ॥ नित्यं यतीनां युवतीपशुक्लीबादिवर्जितं । विजनं शस्यते स्थानं, ध्यानकाले विशेषतः ॥ ४२२ ॥ महात्मनां हि शमिनां, ध्याननिश्चलचेतसाम् । न विशेषो जनाकीर्णे, पुरे वा निर्जने वने ॥ ४२३ ॥ ततो वाक्कायमनसां समाधिर्यत्र जायते । भूतोपघातहीनोऽसौ, देशः स्याद् ध्यायतो मुनेः ॥ ४२४ ॥ यत्र योगसमाधानमुत्तमं लभते मुनिः । स ध्यानकालो दिवसनिशादिनियमस्तु न ॥ ४२५ ॥ ध्यानस्थैर्यं प्रजायेतासनाद्यवस्थया यया । स्थितो निषण्णः सुप्तो वा, ध्यायेत्तस्यामवस्थितः || ४२६ ॥ यद्देशकालचेष्टास्ववस्थासु निखिलासु च । मुनीश्वराः शिवं प्राप्ताः, क्षपिताशेषकल्मषाः ॥ ४२७ ॥ तद्देशकालचेष्टानां, ध्याने कोऽपि न निश्चयः । यथा योगसमाधिः स्याद्यतितव्यं तथा बुधैः ॥ ४२८ ॥ अत्रार्त्तरौद्रे दुर्ध्याने, स्मृते दुर्गतिदायिनी । शुभध्याने पुनर्धर्म्यशुक्ले स्व: शिवदायिनी ॥ ४२९ ॥ एषां स्वरूपं यथा
तत्रार्त्तस्य पीडितस्य, रोगाकिञ्चनतादिभि: । लोभादिभिर्वा यद्ध्यानं, तदार्त्तं स्याच्चतुर्विधम् ॥ ४३० ॥ शब्दादीनामनिष्टानां संबन्धे सति देहिनः । ध्यानं यत्तद्वियोगस्य, तदार्त्तं प्रथमं भवेत् ॥ ४३१ ॥ अभीष्टानां च लब्धानां, शब्दादीनां निरन्तरम् । अविच्छेदस्य या चिन्ता, तद् द्वितीयं प्रकीर्त्तितम् ॥ ४३२ ॥ आतङ्के सति तस्योपशान्तेश्चिन्तातृतीयकम् । भुक्तानां कामभोगानां, स्मरणे स्यात्तुरीयकम् ॥ ४३३ ॥ अन्ये त्वाहुश्चक्रिविष्णुसुरशक्रादिसंपदाम् । आशंसया निदानस्य, चिन्तने तत्तुरीयकम् ॥ ४३४ ॥ १ ठाणेणं मोणेणं झाणेणमित्यत्र वाक्कायव्यापारनिषेधाय पदद्वयं पृथगुक्त्वा केवलमनोव्यापाराय ध्यानशब्दस्य प्रयोगात्. २ भुक्तान् स्मृत्वा तल्लाभमिच्छुः भवान्तरेऽपि तत्राशां बध्नीयादिति ।