________________
539
हास्यात्प्रद्वेषतो वापि, तृतीयः स्यात्परीक्षणात् । तुर्यः पृथग्विमात्राख्यो, हास्यद्वेषादिसंकरात् ॥ ३९४ ॥ स च हास्यात्समारब्धो, द्वेषे यद्वा परीक्षणे । निष्ठां यायात्क्रुधारब्धोऽप्येवं हास्यपरिक्षयोः ॥ ३९५ ॥ यद्वारब्धः परीक्षायै, निष्ठां हास्यक्रुधोर्व्रजेत् । एतेषां त्रिकसंयोगोऽप्येवं भाव्यो मनीषिभिः ।। ३९६ ॥ मानुषा अप्येत एव, भवन्त्याद्यास्त्रयस्ततः । कुशीलप्रतिसेवाख्यस्तुर्यो भोगार्थनादिजः ॥ ३९७ ॥ भयाद् द्वेषाद्भक्ष्यहेतोरपत्यपालनाय च । इति तिर्यक्कृता ज्ञेया, उपसर्गाश्चतुर्विधाः || ३९८ ॥ प्रद्वेषात्क्रुद्धसर्पाद्यास्तुदन्ति श्वादयो भयात् । आहारहेतोर्व्याघ्राद्या, धेन्वाद्यास्त्रातुमात्मजान् ॥ ३९९ ॥ घट्टनाच्च प्रपतनात्, स्तम्भनात् श्लेषणादिति । आत्मसंवेदनीयाः स्युरूपसर्गाश्चतुर्विधाः ॥ ४०० ॥ यथाऽङ्क्षिण पतिते रेणौ, तस्मिन् हस्तेन मर्द्दिते । मांसाङ्कुरैर्वा कण्ठादौ, कष्टं स्याद्धट्टनोद्भवम् ॥ ४०१ ॥ गमनादावयत्नेन, दुःखं स्यात्पतनोद्भवम् । सुप्तस्य चोपविष्टस्य पादादौ प्रसृते चिरम् ॥ ४०२ ॥ स्थिते स्तब्धे स्तम्भनोत्थमेवं संकुचिते चिरम् । स्थिते तस्मिन् विलग्ने च, दुःखं स्यात् श्लेषणोद्भवम् ॥ ४०३ ॥ इदमर्थतः स्थानाङ्गसूत्रवृत्त्यादौ ।
एतांश्च सहमानानां क्षीयते कर्मसंततिः । तेषामनुत्तरज्ञानतपः क्षान्त्यादिशालिनाम् ॥ ४०४॥ त्यक्तार्त्तरौद्रध्यानास्ते, धर्मध्यानसमाहिताः । ध्यानं ध्यातुं प्रवर्त्तन्ते, शुक्लं कर्मेन्धनानलम् ॥ ४०५ ॥ ध्यानं नाम मनः स्थैर्यं, यावदन्तर्मुहूर्त्तकम् । आर्त्तं रौद्रं तथा धर्म्यं, शुक्लं चेति चतुर्विधम् ॥ ४०६ ॥ तथोक्तं स्थानाङ्गवृत्तौ — “अंतोमुहुत्तमेत्तं चित्तावत्थाणमेगवत्थुमि । छउमत्थाणं झाणं जोगनिरोहो जिणाणं तु” ॥ [ ध्यानशतक श्लोक ३]
योगास्तत्रौदारिकादिदेहसंयोगसंभवाः । आत्मवीर्यपरीणामविशेषाः कथितास्त्रिधा ॥ ४०७ ॥
इत्यावश्यकहारिभग्रां ध्यानशतकवृत्ती,
मुहूर्त्ताद्यत्परं चित्तावस्थानमेकवस्तुनि । सा चिन्तेत्युच्यते प्राज्ञैर्यद्वा ध्यानान्तरं भवेत् ॥ ४०८ ॥ तथोक्तं- अंतोमुहुत्तपरओ चिंता झाणंतरं व होज्जाहि । सुचिरंपि होज्ज बहुवत्थुसंक त्राणताणो ॥ [ ध्यानशतक श्लो. ४]
तत्रेह न ध्यानादन्यद्ध्यानान्तरं गृह्यते, किं तर्हि ? भावानुप्रेक्षात्मकं चेत इति । बहूनि च तानि वस्तूनि च बहुवस्तूनि आत्मगतपरगतानि मनः प्रभृतीनि तेषु संक्रमः संचरणमिति हारिभद्यां । [ श्लो. ४ टीका ]
गाढमालम्बने लग्नं, चित्तं ध्यानं निरेजनम् । यत्तु चित्तं चलं मूढमव्यक्तं तन्मनो मतम् ॥ ४०९ ॥ अव्यक्तानां मूर्छितानां, मत्तानां स्वापमीयुषाम् । सद्योजातार्भकाणां चाऽव्यक्तं मूढं भवेन्मनः ॥ ४१० ॥ एवं ध्यानं ध्रुवं चित्तं, चित्तं ध्यानं न निश्चयात् । खदिरो वृक्ष एव स्यात्, स चान्यो वा तरुः पुनः ॥ यन्मानसः परिणामः, केवलो ध्यानमिष्यते । तन्मिथ्या यज्जिनैस्त्रैधेष्वपि योगेषु तत्स्मृतम् ॥
४११ ॥
४१२ ॥