________________
538
एवंविधो व्यतिकरो, न भवेद्धा तपस्विनाम् । तस्माच्छीतोष्णयोनैककाले संभव इष्यते ॥ ३७३ ॥ ननु शय्या च चर्या च, न स्यातां युगपत्ततः । एकोनविंशतेरेव कथं नोक्तः सहोद्भवः ॥ ३७४ ॥ अत्रोच्यते-कञ्चिद्ग्रामं समुद्दिश्य गच्छन्नुत्सुकमानस: । मार्गे यदीत्वरां शय्यां, तादृशी प्रतिपद्यते ॥ ३७५ ॥ गमनेच्छानिवृत्तत्वात्तदा चर्यापरीषहः । कञ्चित्कालं च शय्यापि, यौगपद्यं द्वयोरिति ॥ ३७६ ॥ मोहायुर्वर्जषट्कर्मबन्धिनां तु चतुर्दश । छद्मस्थानां स्युरष्टाभिर्वर्जिता मोहनीयजैः ॥३७७ ॥ चर्याशय्ये वोष्णशीते, स्यातामेषां समं न यत् । द्वादशानुभवन्त्येते, सूक्ष्ममोहास्तत: समम् ॥ ३७८ ॥ ननु पूर्वोक्तया युक्त्या, न शय्याचर्ययोः कथम् । सहोद्भवो भवत्येषामिति चेत् श्रूयतामिह ॥ ३७९ ॥ तद्धेतुमोहानुदयान्नैषामौत्सुक्यसंभवः । ततो नेत्वरशय्यायामेषां चर्यापरीषहः ॥ ३८० ॥ छद्मस्थवीतरागाणामथैकं कर्म बजताम् । सयोगानां केवलिनां, भवस्थायोगिनामपि ॥ ३८१ ॥ एकादशोपसर्गाः स्युर्वेदयन्ति समं नव । न चर्याशय्ययोः शीतोष्णयोर्यत्सममुद्भवः ॥ ३८२ ॥ मोहकर्मोदयाभावादेषामौत्सुक्यसंभवः । न जातु स्यात्ततश्चर्याशय्ययोर्न सहोद्भवः ॥ ३८३ ॥ अमी च सम्यक् सह्यन्ते, दक्षमोक्षाभिकाङ्गिभिः । रागद्वेषाकरणतस्तस्मादुक्ता: परिषहाः ॥ ३८४ ॥ प्रज्ञाप्रकर्षे नोत्कर्ष, न चाल्पज्ञपराभवम् । विदधीतेति सोढव्यो, बुधैः प्रज्ञापरिषहः ॥ ३८५ ॥ सत्कारेऽपि कृते भक्तै ज्यवस्त्रोत्सवादिभिः । न माद्यतीति सोढः स्यात्सत्काराख्यः परीषहः ॥ ३८६ ॥ अभ्यासेऽपिश्रुतानाप्तौ, ज्ञानद्रिष्टो विषण्णधी: । न स्यात्सोढव्य इत्येवमज्ञानाख्यः परीषहः ॥ ३८७ ॥ तपश्चारित्रकष्टानां, सोढनामिह जन्मनि । फलासंदेहत: सह्यः, सम्यक्त्वाख्यः परीषहः ॥ ३८८ ॥ शीतोष्णप्रभृतीनां तु, वपुश्चेतस्तुदां स्वयम् । परीषहत्वं विज्ञेयं, स्पष्टत्वान्नेह वर्णितम् ॥ ३८९ ॥ स्त्रीप्रज्ञालोकसत्कारा, अनुकूला अमी त्रयः । प्रतिकूलाश्च विज्ञेयाः, शेषा एकोनविंशतिः ॥ ३९० ॥ अत्रानुकूलशीतलयोर्विशेषोऽन्वेषणीय इति । परीषहौ स्त्रीसत्कारौ, दौ स्यातां भावशीतलौ । उष्णाश्च भावतः शेषा, विंशतिः स्युः परीषहाः ॥ ३९१ ॥
तथाहुः–'इत्थीसक्कारपरीसहो य दो भावसीअला एए' (आच०-२०२ नि०) इत्यादि.
अत्रानुकूलशीतलयोर्विशेषोबहुश्रुतेभ्योऽन्वेषणीय इति परीषहाः । उपसृज्यत एभिर्यत्, धर्मात्प्रच्याव्यतेऽसुमान् । बाधाविशेषास्ते प्रोक्ता, उपसर्गा इति श्रुते ॥ ३९२ ॥ दिव्य १ मानुष २ तैस्चाः ३, स्वसंवेद्या ४ स्तथैव च । एकैकश्च चतुर्भेद, इति ते षोडश स्मृताः ॥ ३९३ ॥
१ यद्यपि वेदनापेक्षया समाधातुं शक्यमेव, परं तथा समादाने विंशतेरपि युगपद्मावो दुश्शकः, तत्त्वतस्तु अग्निसेवामानाभिलाषजनकयोः शीतोष्णयोः स्वीकारे परीषहत्वेन नैककालभावितोभययोः । २ शय्याप्रतिबन्धेनाविहारे विहारभीत्या शय्याप्रतिबन्धे च सति द्वयोर्भावो यद्धा मार्गारतेः शय्यो गस्य चापि युगपद्भावात् ।