________________
534
ततो दीक्षादिनादर्वाग्, वर्षे शेषे जिनेश्वराः । दानस्य धर्मेष्वग्नत्वाद्दानं ददति वार्षिकम् ॥ २७५ ॥ कोटिमेकां सुवर्णानां, लक्षैरष्टभिरन्विताम् । आप्रातराशसमयान्नित्यं ददति तीर्थपाः ॥ २७६ ॥ पुरे त्रिकचतुष्कादौ, कारयेद्घोषणामिति । ईप्सितं यस्य यद्धस्त्रविभूषावाहनादिकम् ॥ २७७ ॥ तद्यथेच्छमिहागत्य, स गृहणात्वविशडितः । सर्वाशाः पूरयत्येवं, दानैः कीर्त्या च तीर्थकृत् ॥ २७८ ॥ धर्मप्रभावनाबुद्ध्या, लोकानां चानुकम्पया । जिना ददति तद्दानं, न तु कीर्त्यादिकाटिणः ॥ २७९ ॥ दानं यथा यथा दयुः, स्वापतेयं तथा तथा । शक्रवैश्रमणादिष्टा, देवा: पिपर्ति जृम्भकाः ॥ २८० ॥ त्रीणि कोटिशतान्यष्टाशीतिश्योपरि कोटय: । लक्षाण्यशीतिः स्वर्णानां, दयुर्वरेण तीर्थपाः ॥ २८१ ॥ एतावद्वार्षिके दाने, जृम्भकामरढौकितम् । जिनेश्वराणां सर्वेषां, नियतं परिकीर्तितम् ॥ २८२ ॥ तच्चैवं-दातुं यदाऽऽब्दिकं दानमध्यवस्यन्ति तीर्थपाः । तदाऽऽसनप्रकम्पेन, जानात्यवधिना हरिः ॥ २८३ ॥ जीतमेवेदमस्माकं, त्रिकालोद्भववज्रिणाम् । यदार्षिकाय दानाय, प्रव्रज्यावसरेऽर्हताम् ॥ २८४ ॥ ढौकनीयं स्वापतेयं, स्वर्णकोटिशतास्त्रयः । अष्टाशीतिःकोटयश्चाशीतिलक्षसमन्विताः ॥ २८५ ॥ एवं निश्चित्य धनदमाज्ञापयति वज्रभृत् । स जृम्भकामरांस्ते स्वं, निक्षिपन्ति गृहेऽर्हताम् ॥ २८६ ॥ अन्यदप्यश्वहस्त्यादिभूषावस्त्रादि मन्दिरात् । यच्छन्त्यभीष्टं लोकानां, दानवीरा जिनेश्वराः ॥ २८७ ॥ महानसान्यनेकानि, कारयित्वा स्वसेवकैः । दापयन्त्यन्नपानादि, दीनादीनामनर्गलम् ॥ २८८ ॥ ____तथोक्तं षष्ठाङ्गे 'तए णं कुंभए मिहिलाए रायहाणीए तत्थ तत्थ तहिं तहिं देसे बहुईओ
महाणससालाओ कारेड्' इत्यादि मल्ल्यध्ययने । पित्रादेः स्वजनस्याथ, प्राप्यानुज्ञां कथञ्चन । यस्मिन् दिने यतन्ते ते, चारित्राय महाशयाः ॥ २८९ ॥ तस्मिन् दिने तन्नगरं, ध्वजश्रेण्याद्यलङ्कतम् । स्वजना: कारयन्त्येषां, विष्वक् पूर्वोक्तया दिशा ॥ २९० ॥ तस्मिन्नवसरे प्राग्कचतुःषष्टिः सुरेश्वराः । आयान्त्यासनकम्पेन, ज्ञात्वा दीक्षाक्षणं प्रभोः ॥ २९१ ॥ देवानां समुदायेनागच्छता त्रिदिवात्तदा । द्यावाभूम्योर्मध्यमुद्यत्कोट्यर्कमिव दीप्यते ॥ २९२ ॥ कलशांस्तेऽष्टजातीयान्, पूजोपकरणानि च । पृथक् सहस्रमष्टानां, कारयन्त्याभियोगिकैः ॥ २९३ ॥ इन्द्रवत्कलशानष्टप्रकारान् स्वजना अपि । शिल्पिभिः कारयन्त्यन्यान्य!पकरणान्यपि ॥ २९४ ॥ कलशास्ते मनुष्याणां, दिव्येषु कलशेष्यथ । अनुप्रविष्टेषु भृशं, शोभन्ते दिव्यशक्तित: ॥ २९५ ॥ ततः सुराहतैस्तीर्थनीरौषधिमृदादिभिः । वासवाः स्वजनाचाप्तमभिषिञ्चन्ति सोत्सवम् ॥ २९६ ॥ तदा दर्पणभृङ्गाराद्यलङ्कतकराः सुराः । इन्द्राद्या: परिषेवन्ते प्रोच्चारितजयारवाः ॥ २९७ ॥ ततश्च गन्धकाषाय्या, रूक्षिताङ्गो जगत्प्रभुः । यथास्थानं परिहितसर्वालङ्कारभासुरः ॥ २९८ ॥ कल्पद्रुमप्रसूनस्रग्विराजिगलकन्दलः । लक्षाघ सदशं श्वेतं, परिधत्तेऽम्बरं वरं ॥ २९९ ॥ स्वजना: कारयन्त्येकां, शिबिकां शिल्पिपुङवैः । विचित्ररचनां भूरिरत्नस्तम्भशताञ्चिताम् ॥ ३०० ॥ तादृश्या स्वर्गिकृतया, मिश्रा शिबिकया च सा । भृशं विभाति मेधेव, संगता शास्त्रसंविदा ॥ ३०१ ॥ षष्ठादिना विशिष्टेन, तपसाऽलङ्कतस्ततः । उत्तरोत्तरमुत्कृष्टवर्द्धमानशुभाशयः ॥ ३०२ ॥