SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ 38 ३२५ ॥ ३२६ ॥ इत्थं नारकलेश्यानां, स्थितिः प्रकटिता मया । अथ निर्जरलेश्यानां, स्थितिं वक्ष्ये यथाश्रुतम् ॥ दशवर्षसहस्राणि, कृष्णाया: स्याल्लघुः स्थिति: । एतस्याः पुनरुत्कृष्टा, पल्यासंख्यांशसंमिता ॥ इवमेवैकसमयाधिका नीलास्थितिर्लघुः । पल्यासंख्येयभागश्च नीलोत्कृष्टस्थितिर्भवेत् ॥ ३२७ ॥ पल्यासंख्येयभागोऽयं, पूर्वोक्तासंख्यभागतः । बृहत्तरो भवेदेवं ज्ञेयमग्रेऽपि धीधनैः ॥ ३२८ ॥ या नीलायाः स्थितिर्ज्येष्ठा, समयाभ्यधिका च सा । कापोत्या लघुरस्याः स्यात्पल्यासंख्यलबो गुरुः ॥ ३२९ ॥ लेश्यानां तिसृणामासां, स्थितिर्याऽदर्शि सा भवेत् । भवनेशव्यन्तरेषु, नान्येषु तदसम्भवात् ॥ ३३० ।। एवं वक्ष्यमाणतेजोलेश्याया अप्यसौ स्थितिः । भवनव्यन्तरज्योतिराद्यकल्पद्धयावधिः ॥ ३३१ ॥ पद्मायाश्च स्थितिर्ब्रह्मावधीशानादनन्तरम् । लान्तकात्परतः शुक्ललेश्याया भाव्यतामिति ॥ ३३२ ॥ अथ प्रकृतम् । दशवर्षसहस्राणि, तेजोलेश्यालघुस्थितिः । भवनेशव्यन्तराणां, प्रज्ञप्ता ज्ञानभानुभिः ॥ ३३३ ॥ उत्कृष्टा भवनेशानां, साधिकं सागरोपमम् । व्यन्तराणां समुत्कृष्टा, पल्योपममुदीरिता ॥ ३३४ ॥ स्यात्पल्यस्याष्टमो भागो, ज्योतिषां सा लघीयसी । उत्कृष्टा वर्षलक्षेणाधिकं पल्योपमं भवेत् ॥ ३३५ ॥ सा लघुर्वैमानिकानामेकं पल्योपमं मता । उत्कृष्टा द्वौ पयोराशी, पल्यासंख्यलवाधिक ॥ ३३६ ॥ समयाभ्यधिकैषैव, पद्माया: स्याल्लघुः स्थितिः । उत्कृष्टा पुनरेतस्या, स्थितिर्दशपयोधयः ।। ३३७ ।। इयमेव च शुक्लायाः, स्थितिर्लघ्वी क्षणाधिका । उत्कृष्टा पुनरेतस्यास्त्रायस्त्रिंशत्पयोधयः ॥ ३३८ ॥ इत्थं नारकदेवानां, लेश्यास्थितिरुदीरिता । अथ तिर्यग्मनुष्याणां लेश्यास्थितिरुदीर्यते ॥ ३३९ ॥ या या लेश्या येषु येषु नृषु तिर्यक्षु वक्ष्यते । आन्तर्मुहूर्तिकी सा सा, शुक्ललेश्यां विना नृषु ॥ ३४० ॥ शुक्ललेश्यास्थितिर्नृणां जघन्याऽऽन्तर्मुहूर्तिकी । उत्कृष्टा नववर्षोना, पूर्वकोटी प्रकीर्त्तिता ॥ ३४१ ॥ यद्यप्यष्टवर्षवयाः, कश्चिद्दीक्षामवाप्नुयात् । तथापि तादृग्वयसः, पर्यायं वार्षिकं विना ॥ ३४२ ॥ नोदेति केवलज्ञानमतो युक्तमुदीरिता । पूर्वकोटी नवाब्दोना, शुक्ललेश्यागुरुस्थितिः ॥ ३४३ ॥ इति उत्तराध्ययनसूत्रवृत्तिप्रज्ञापनावृत्त्यभिप्रायः ।। तथैव संग्रहण्यामप्युक्तम् — 'चरमा नराण पुण नववासूणा पुव्यकोडीवि' [ गाथा. ३११ ] इति । संग्रहणीवृत्तौ प्रवचनसारोद्धारवृत्तौ च नराणां पुनश्चरमा शुक्ललेश्या उत्कर्षतः किञ्चिन्यूनववर्षोन-पूर्वकोटिप्रमाणापि, इयं च पूर्वकोटेरूर्ध्वं संयमावाप्तेरभावात्पूर्वकोट्यायुषः किञ्चित्समधिकवर्षाष्ट-कादूर्ध्वमुत्पादितकेवलज्ञानस्य केवलिनोऽवसेया इत्युक्तम् ॥ अत्र च पूर्वकोट्या नववर्षोनत्वं किञ्चिन्यूननववर्षोनत्वं किंचित्समधिकाषष्टवर्षोनत्वं इति त्रयं मिथ यथा न विरुध्यते तथा बहुश्रुतेभ्यो भावनीयम् ॥ १. आद्यः परमशुक्ललेश्यां केवलित्वभावनीमाश्रित्य इतरौ तु केवलकारणभूतशुक्ललेश्यामाश्रित्य नवरमन्त्ये विशेषेणाप्रमत्तताया आश्रयणम् ।
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy