SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ 37 बहुधाऽऽसां परीणामस्त्रिधा वा नवधा भवेत् । सप्तविंशतिधा चैकाशीतिधा त्रिगुणस्तथा ॥ ३०६ ॥ जघन्यमध्यमोत्कृष्टभेदतस्त्रिविधो भवेत् । प्रत्येकमेषां स्वस्थानतारतम्यविचिन्तया ॥ ३०७ ॥ भवेन्नवविधस्तेषामपि भेदविवक्षया । सप्तविंशतिधामुख्योऽप्येवं भेदैस्त्रिभिस्त्रिभिः ॥३०८॥ तथाहुः प्रज्ञापनायाम्-कण्हलेसाणं भंते कतिविहं परिणामं परिणमति । गोयमा ! तिविहं वा णवविहं वा, सत्ताविसतिविहं वा एक्कासीतिविहं वा, तेआलदुसयविहं, वा बहुं वा बहुविहं वा परिणामं परिणमति ॥ लेश्यापरिणामस्याऽऽदिमान्त्ययो जिनां मृतिः क्षणयोः । अन्तमुहूर्तकेऽन्त्ये शेषे वाऽऽये गते सा स्यात् ॥ ३०९॥ तत्राप्यन्तर्मुहूत्तेऽन्त्ये, शेषे नारकनाकिन: । नियन्ते नरतिर्यश्चश्वायेऽतीत इति स्थितिः ॥ ३१०॥ कृष्णायाः स्थितिरुत्कृष्टा, त्रयस्त्रिंशत्पयोधयः । प्राच्याग्ग्रभवसम्बन्ध्यन्तर्मुहूर्त्तद्धयाधिका ॥ ३११ ॥ पल्यासंख्येयभागाढ्या, नीलायाः सा दशाब्धयः । पल्यासंख्यांशसंयुक्ताः, कापोत्यास्तु त्रयोऽब्धयः ॥ ३१२ ॥ प्राच्याग्ग्रभवसत्कान्तर्मुहूर्त्तद्वयमेतयोः । पल्यासंख्यांश एवान्तर्भूतं नेत्युच्यते पृथक् ॥ ३१३ ॥ एवं तैजस्यामपि भाव्यम् । तैजस्या द्वौ पयोराशी, पल्यासंख्यलवाधिकौ । ट्यन्तर्मुहूर्त्ताभ्यधिकाः, पद्माया दश वार्धयः ॥ ३१४ ॥ यन्तर्मुहूर्ताः शुक्लायास्त्रयस्त्रिंशत्पयोधयः । अन्तर्मुहूर्तं सर्वासां, जघन्यतः स्थितिर्भवेत् ॥ ३१५ ॥ आयात्र सप्तममहीगरिष्ठस्थित्यपेक्षया । धूमप्रभाधप्रतरोत्कृष्टायुश्चिन्तया परा ॥ ३१६ ॥ शैलाद्यप्रतरे ज्येष्ठमपेक्ष्यायुस्तृतीयिका । तुर्या चैशानदेवानामुत्कृष्टस्थित्यपेक्षया ॥ ३१७ ॥ पञ्चमी ब्रहालोकस्थगरिष्ठायुरपेक्षया । षष्ठी चानुत्तरसुरपरमायुरपेक्षया ॥३१८ ॥ अत्र यद्यपि पङ्कप्रभाशैलाद्यप्रस्तट्योः पूर्वोक्तादधिकापि स्थितिरस्ति परं प्रस्तुतलेश्यावतामियमेवोत्कृष्टा स्थितिरिति ज्ञेयम् । यत्तु प्रज्ञापनोत्तराध्ययनसूत्रादौ कृष्णादीनामन्तर्मुहूर्ताभ्यधिकत्वमुच्यते तत् प्राच्याग्यभवसत्कान्तर्मुहूर्तयोरेकस्मिन्नन्तर्मुहूत्तै समावेशात् । इत्थञ्चैऽत दन्तर्मुहूर्तस्यासंख्यातभेदत्वादुपपद्यते, इत्यादिप्रज्ञापनावृत्तौ ॥ इति सामान्यतः लेश्यास्थितिः ॥ स्थितिं वक्ष्येऽथ लेश्यानां, नारकस्वर्गिणोर्नृणाम् । तिरथां च जघन्येनोत्कर्षेण च यथागमम् ॥ ३१९ ॥ दशवर्षसहस्राणि, कापोत्या: स्याल्लघुः स्थितिः । उत्कृष्टा त्रीण्यतराणि, पल्यासंख्यलवस्तथा ॥ ३२० ॥ जघन्या तत्र धर्माद्यप्रस्तटापेक्षयाभवेत् । उत्कृष्टा च तृतीयाद्यप्रस्तटापेक्षयोदिता ॥ ३२१ ॥ नीलाया लघुरेषैवोत्कृष्टा च दश वार्धयः । पल्यासंख्येयभागाढ्या:, कृष्णायाः स्यादसौ लघुः ॥ ३२२ ॥ स्थितिर्जघन्या नीलायाः, शैलाद्यप्रस्तटे भवेत् । रिष्टाद्यप्रस्तटे त्वस्या ज्येष्ठा कृष्णास्थितिलघुः ॥ ३२३ ॥ कृष्णायाः पुनरुत्कृष्टा, त्रयस्त्रिंशत्पयोधयः । इयं माघवतीवर्तिज्येष्ठायुष्कव्यपेक्षया ॥ ३२४ ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy