SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ 36 सा च षोढा कृष्णनीलकापोतसंज्ञितास्तथा । तेजोलेश्यापद्मलेश्या, शुक्ललेश्येति नामतः ॥ २८१ ॥ खञ्जनाञ्जनजीमूतभ्रमभ्रमरसन्निभा । कोकिलाकलभीकल्पा, कृष्णलेश्या स्ववर्णतः ॥ २८२ ॥ पिच्छतः शुकचाषाणां, केकिकापोतकंठतः । नीलाजवनतो नीला, नीललेश्या स्ववर्णतः ॥ २८३ ॥ जैत्रा खदिरसाराणामतसीपुष्पसोदरा । कापोतलेश्या वर्णन, वृन्ताककुसुमौघजित् ॥ २८४ ॥ पद्मरागनवादित्यसंध्यागुञ्जार्धतोऽधिका । तेजोलेश्या स्ववर्णेन, विद्रुमाङ्करजित्वरी ॥ २८५ ॥ सुवर्णयूथिकास्वर्णकर्णिकारौधचम्पकान् । पराभवन्ती वर्णन, पद्मलेश्या प्रकीर्तिता ॥ २८६ ॥ गोक्षीरदधिडिण्डीरपिण्डादधिकपाण्डुरा । वर्णत: शरदभ्राणां, शुक्ललेश्याऽभिभाविनी ॥ २८७ ॥ किराततिक्तत्रपुषी, कटुतुम्बीफलानि च । त्वचः फलानि निम्बानां, कृष्णलेश्या रसैर्जयेत् ॥ २८८ ।। पिप्पलीशृंगबेराणि, मरीचानि च राजिकाम् । हस्तिपिप्पलिकां जेतुं, नीललेश्या रसैः प्रभुः ॥ २८९ ॥ आमानि मातुलिङ्गनि, कपित्थबदराणि च । फणसामलकानीष्टे, रसर्जेतुं तृतीयिका ॥ २९० ॥ वर्णगन्धरसापन्नपक्चाम्रादिसमुद्भवान् । रसानधिकमाधुर्या, तुर्याऽधिकुरुते रसैः ॥ २९१ ।। द्राक्षावर्जूरमाध्वीकवारुणीनामनेकधा । चन्द्रप्रभादिसीधूनां, जयिनी पञ्चमी रसैः ॥ २९२ ॥ शर्करागुडमत्स्यन्डीखन्डाखन्डादिकानी च । माधुर्यधुर्यवस्तूनि, शुक्ला विजयते रसैः ॥ २९३ ॥ आद्यास्तिस्रोऽतिदुर्गन्धा, अप्रशस्ता मलीमसाः । स्पर्शतः शीतरुक्षाश्च, संक्लिष्टा दुर्गतिप्रदाः ॥ २९४ ॥ अन्त्यास्तिस्रोऽतिसौगन्ध्याः, प्रशस्ता अतिनिर्मला: । स्निग्धोष्णा: स्पर्शगुणतोऽसंक्लिष्टा: सुगतिप्रदाः ॥ २९५ ॥ परस्परमिमाः प्राप्य, यान्ति तद्रूपतामपि । वैदूर्यरक्तपटयो ये तत्र निदर्शने ॥ २९६ ॥ तत्रापि-देवनारकलेश्यासु, वैदूर्यस्य निदर्शनम् । तिर्यग्मनुजलेश्यासु, रक्तवस्त्रनिदर्शनम् ॥ २९७ ॥ तथाहि । देवनारकयोलेश्या, आभवान्तभवस्थिताः । नानाकृतिं यान्ति किन्तु, द्रव्यान्तरोपधानतः ॥ २९८ ॥ न तु सर्वात्मना स्वीयं, स्वरूपं संत्यजन्ति ताः । सबैडूर्यमणिर्यद्वन्नानासूत्रप्रयोगतः ॥ २९९ ॥ जपापुष्पादिसान्निध्याद्यथा वादर्शमण्डलम् । नानावर्णान् दधदपि, स्वरूपं नोज्झति स्वकम् ॥ ३०० ॥ अत एव भावपरावृत्त्या नारकनाकिनोः । भवन्ति लेश्याः षडपि, तदुक्तं पूर्वसूरिभिः ॥ ३०१ ॥ बृहत्संग्रहणी-सुरनारयाण ताओ, दबलेसा अवट्ठिया भणिया । भावपरावत्तीए पुण एसा हुन्ति छल्लेसा ॥ [श्लोक २५७] दुष्टलेश्यावतां नारकाणामप्यत एव च । सम्यक्त्वलाभो घटते, तेजोलेश्यादिसम्भवी ॥ ३०२ ॥ यदाहुः सम्मत्तस्स य तिसु उवरिमासु पडिवज्जमाणओ होइ । पुब्बपडिवन्नओ पुण, अन्नयरीए उ लेसाए ॥ तथैव तेजोलेश्याढ्ये, घटते संगमामरे । वीरोपसर्गकर्तृत्वं, कृष्णलेश्यादिसम्भवि ॥ ३०३ ॥ स्वरूपत्यागत: सर्वात्मना तिर्यग्मनुष्ययोः । लेश्यास्तद्रुपतां यान्ति, रागक्षिप्तपटादिवत् ॥ ३०४ ॥ अत एवोत्कर्षतोऽप्यन्तर्मुहूत्तमवस्थिताः । तिर्यग्नृणां परावर्तं, यान्ति लेश्यास्ततः परम् ॥ ३०५ ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy