SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ इत्यागतिस्वरूपम् ॥ १४ ॥ विवक्षितभवान्मृत्वोत्पद्य चानन्तरे भवे । यत्सम्यक्त्वाद्यश्रुतेङ्गी, सानन्तराप्तिरुच्यते ॥ २६५ ॥ इत्यन्तराप्तिस्वरूपम् ॥ १५ ॥ लब्ध्वा नृत्वादिसामग्री, यावन्तोऽधिकृताङ्गीनः । सिद्ध्यन्त्येकक्षणे सैकसमये सिद्धिरुच्यते ॥ २६६ ॥ इत्येकसमयसिद्धिस्वरूपम् ॥ १६ ॥ कृष्णादिद्रव्यसाचिव्यात्परिणामो य आत्मनः । स्फटिकस्येव तत्रायं, लेश्याशब्दः प्रवर्त्तते ॥ २६७ ॥ द्रव्याण्येतानि योगान्तर्गतानीति विचिन्त्यताम् ॥ सयोगत्वेन लेश्यानामन्वयव्यतिरेकतः ॥ २६८ ॥ यावत्कषायसद्भावस्तावत्तेषामपि स्फुटम् । अमून्युपबृंहकाणि, स्युः साहायककृत्तया ॥ २६९ ॥ दृष्टं योगान्तर्गतेषु, द्रव्येषु च परेष्वपि । उपबृंहणसामर्थ्य, कषायोदयगोचरम् ॥ २७०॥ यथा योगान्तर्गतस्य, पित्तद्रव्यस्य लक्ष्यते । क्रोधोदयोद्दीपकत्वं, स्याद्यच्चण्डोऽतिपित्तकः ॥ २७१ ॥ द्रव्येषु बाहोष्वप्येवं, कर्मणामुदयादिषु । सामर्थ्यं दृश्यते तत्किं, न योगान्तर्गतेषु तत् ॥ २७२ ॥ सुरादध्यादिकं ज्ञानदर्शनावरणोदये । तत्क्षयोपशमे हेतुर्भवेद्बाहीवचादिकम् ॥ २७३॥ एवं च । कषायोद्दीपकत्वेऽपि, लेश्यानां न तदात्मता । तथात्वे हाकषायाणां, लेश्याभाव: प्रसज्यते ॥ २७४ ॥ लेश्याः स्युः कर्मनिस्यन्द, इति यत्कैश्चिदुच्यते । तदप्यसारं निस्यन्दो, यदि तत्कस्य कर्मणः ॥ २७५ ॥ चेयथायोगमष्टानामप्यसौ कर्मणामिति । तच्चतुःकर्मणामेताः, प्रसज्यन्तेऽप्ययोगिनाम् ॥ २७६ ॥ न यद्ययोगिनामेता, घातिकर्मक्षयान्मताः । तत एव तदा न स्युर्योगिकेवलिनामपि ॥ २७७ ॥ ननु च । योगस्य परिणामत्वे, लेश्यानां हेतुता भवेत् । प्रदेशबन्धं प्रत्येव, न पुनः कर्मणां स्थितौ ॥ २७८ ॥ ___ “जोगा पयडिपएसं ठिइअणुभागं कसायओ कुणइ” इति वचनात् [पञ्चमकर्मग्रन्थ गाथा ९६] । अत्रोच्यते । न कर्मस्थितिहेतुत्वं, लेश्यानां कोऽपि मन्यते । कषाया एव निर्दिष्टा, यत्कर्मस्थितिहेतवः ॥ २७९ ॥ लेश्याः पुनः कषायान्तर्गतास्तत्पुष्टिकृत्तया । तत्स्वरूपा एव सत्योऽनुभागं प्रति हेतवः ॥ २८० ॥ एतेन । यत्क्वचिल्लेश्यानामनुभागहेतुत्वमुच्यते, शिवशर्माचार्यकृतशतकग्रन्थे च कषायाणामनुभागहेतुत्वमुक्तं तदुभयमप्युपपन्नम् । __ कषायोदयोपबृंहिकाणां लेश्यानामप्युपचारनयेन कषायस्वरूपत्वादित्याद्यधिक प्रज्ञापनालेश्यापदवृत्तितोऽवसेयम ॥ . १. तत्र प्रदेशबन्धो योगात्तदनुभवनं कषायवशात् । स्थितिपाकविशेषस्तस्य भवति लेश्याविशेषेण [इति प्रशमरतौ श्लोक ३७]
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy