________________
34
अत्रायं विशेषः । यः षण्मासाधिकायुष्को, लभते केवलोद्गमम् । करोत्यसौ समुद्घातमन्ये कुर्वन्ति वा न वा ॥ इति गुणस्थानक्रमारोहे ॥ [श्लोक - ९४] छम्मासाऊसेसे उप्पणं जेसिं केवलं नाणम् । ते नियमा समुघाइय सेसा समुघाय भइयत्वा ॥ इत्यस्य वृत्तौ ॥ इति केवलिसमुद्घातः ॥ आयाः पञ्च समुद्घाताः, सर्वेषामपि देहिनाम् । अनुभूता अनन्ताः स्युर्यथास्वं सर्वजातिषु ॥ २४९ ॥ भाविनस्तु न सन्त्येव, केषाञ्चिल्लघुकर्मणाम् । केषाञ्चित्त्वङ्गिनामेकट्यादय: स्युरनेकशः ॥ २५० ॥ यावद् गण्या अगण्या वा, स्युः केषाञ्चिदनन्तकाः । यथास्वं सर्वजातित्वे, विज्ञेया बहुकर्मणाम् ॥ २५१ ॥ नवरम्-सूक्ष्मादिनिगोदैस्तु, निगोदे त्रय एव ते । अनुभूता अनन्ताः स्युर्भाविनस्ते तु सर्ववत् ॥ २५२ ॥ आहारका नरान्येषां, केषाञ्चिन्नूभवे त्रयः । अतीताः स्युर्भाविनस्तु, ते चत्वारो न चाधिकाः ॥ २५३ ॥ सम्भवेयुश्च चत्वारोऽनुभूता नृभवे नृणाम् । भविष्यन्तोऽपि विज्ञेयास्तावन्ता नृभवे नृणाम् ॥ २५४ ॥ चत्वारोऽपि व्यतीतास्तु, नान्येषां नृन् विना यतः । आहारकं तुर्यवारं, कृत्वा सिध्यति तद्भवे ॥ २५५ ॥ तथोक्तं प्रज्ञापनावृत्तौइह यश्चतुर्थवेलमाहारकं करोति स नियमात्तद्भव एव मुक्तिमासादयति, न गत्यन्तरमिति । सप्तमस्तु न कस्यापि, स्यादतीतो नरं विना । भाव्यप्येकोऽन्यजन्तूनां, केषाञ्चिनृत्व एव सः ॥ २५६ ॥ समुद्घातोत्तीर्णजिनं, प्रतीत्यैको निषेवितः । मनुष्यस्य मनुष्यत्वेऽनागतोऽप्येक एव सः ॥ २५७ ॥ असद्धेद्याश्रितश्चायो, मोहनीयाश्रितः परः । अन्तर्मुहूर्त्तशेषायुःसंश्रितः स्यात्तृतीयकः ॥२५८ ॥ तुर्यपञ्चमषष्टाश्च, नामकर्मसमाश्रिताः । नामगोत्रवेद्यकर्मसंश्रितः सप्तमो भवेत् ॥ २५९ ॥ इति जीवसमुद्घाताः ॥ योऽप्यचित्तमहास्कन्धः, समुद्घातोऽस्त्यजीवजः । अष्टसामयिकः सोऽपि, ज्ञेयः सप्तमवत्सदा ॥ २६० ॥ पुद्गलानां परीणामादिश्रसोत्थात्स जायते । अष्टभिः समयैर्जातसमाप्तो जिनसत्कवत् ॥ २६१ ॥ इति समुद्घाताः ॥ १२ ॥ विवक्षितभवादन्यभवे गमनयोग्यता । या भवेद्देहिनां साऽत्र, गतिर्गतं च कथ्यते ॥ २६२ ॥ इति गतिस्वरूपम् ॥ १३ ॥ विवक्षिते भवेऽन्येभ्यो, भवेभ्यो या च देहिनाम् । उत्पत्तौ योग्यता सात्रागतिरित्युपदर्शिता ॥ २६३ ॥ एकसामयिकी संख्या, मृत्यूत्पत्त्योस्तथाऽन्तरम् । द्वारेऽस्मिन्नेव वक्ष्यन्ते, तद्वाराणि पृथग् न तत् ॥ २६४ ॥
१. आहारकसमुद्धाता: २. नरान्विहाय परेषाम् ३. सिध्यन्तीति पा०