SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ 33 द्वितीये समये तस्य कुर्यात्पूर्वापरायतम् । कपाटं पाटवापेतः, समयेऽथ तृतीयके ॥ २२९ ॥ ततो विस्तार्य प्रदेशानुदीचीदक्षिणायतम् । मन्थानं कुरुते तुर्ये, ततोऽन्तराणि पूरयेत् ॥ २३० ॥ स्वप्रदेशैस्तदा सर्वान्, लोकाकाशप्रदेशकान् । स व्याप्नोति समा ह्येते लोकाकाशैकजीवयोः ॥ २३१ ॥ संहरेत् पञ्चमे चासौ, समयेऽन्तरपूरणम् । षष्ठे संहृत्य मन्थानं, संहरेत्सप्तमेऽररिम् ॥ २३२ ॥ संहरेदष्टमे दण्डं, शरीरस्थस्ततो भवेत् । अन्तर्मुहूर्तं जीवित्वा, योगरोधाच्छिवं व्रजेत् ॥ २३३ ॥ यदाहु :-यस्य पुनः केवलिनः, कर्म भवत्यायुषोऽतिरिक्ततरम् । स समुद्घातं भगवानुपगच्छति तत्समीकर्तुम् ॥ दण्डं प्रथमे समये कपाटमथ चोत्तरे तथा समये । मन्थानमथ तृतीये, विश्वव्यापी चतुर्थे तु ॥ संहरति पञ्चमे त्वन्तराणि मन्थानमथ पुनः षष्ठे । सप्तमके तु कपाटं, संहरति ततोऽष्टमे दण्डम् ॥ औदारिकप्रयोक्ता, प्रथमाष्टमसमयोरसाविष्टः । मिश्रौदारिकयोक्ता, सप्तमषष्टद्वितीयेषु ॥ कार्मणशरीरयोक्ता, चतुर्थके पञ्चमे तृतीये च । समयत्रयेऽपि तस्मिन् भवत्यनाहारको नियमात् ॥ [प्रशमरति श्लोक २७२ थी २७६] किञ्च । समुद्घातान्निवृत्यासौ, त्रिधा योगान् युनक्त्यपि । सत्यासत्यामृषाभिख्यौ, योगौ मानसवाचिकौ ॥ २३४ ॥ पृष्टेषु मनसाऽर्थेषु, तत्रानुत्तरनाकिभिः । दातुं तदुत्तरं चेतोयोगयुग्मं युनक्ति सः ॥ २३५ ॥ तथा मनुष्यादिना च, पृष्टोऽपृष्टोऽपि स प्रभुः । प्रयोजनविशेषेण, युनक्त्येतौ च वाचिकौ ॥ २३६ ॥ काययोगं प्रयुञ्जानो, गमनागमनादिषु । चेष्टते पीठपट्टाद्यमर्पयेत्प्रातिहारिकम् ।। २३७ ॥ एवं च-कैश्चिदित्युच्यते यत्तु, शेषषण्मासजीवितः । जिनः कुर्यात्समुद्घातं, तदसद्यत्तथा सति ॥ २३८ ॥ प्रातिहारिकपीठादेरादानमपि सम्भवेत् । श्रुते तु केवलं प्रोक्तं, तत्प्रत्यर्पणमेव हि ।। २३९ ॥ इत्याद्यधिकं प्रज्ञापनान्तिमपदवृत्तितोऽवसेयम् । ततश्च–पर्याप्तसंज्ञिपञ्चाक्षमनोयोगाज्जघन्यतः । असंख्यगुणहीनं तं निरुन्धानः क्षणे क्षणे ॥ २४० ॥ असंख्येयैः क्षणैरेवं, साकल्येन रुणद्धि तम् । ततः पर्याप्तकद्व्यक्षवचोयोगाज्जघन्यतः ।। २४१ ।। असंख्यगुणहीनं तं, निरुन्धानः क्षणे क्षणे । एवं क्षणैरसंख्येयैः, साकल्येन रुणद्धि सः ।। २४२ ।। ततः पर्याप्तसूक्ष्मस्य, काययोगाज्जघन्यतः । असंख्यगुणहीनं तं निरुन्धान: क्षणे क्षणे ॥ २४३ ॥ असंख्यैः समयैरेवं, साकल्येन रुणद्धि सः । योगान् रुन्धश्च स ध्यायेत्, शुक्लध्यानं तृतीयकम् ॥ २४४ ॥ एतेन स उपायेन सर्वयोगनिरोधत: । अयोगतां समासाद्य, शैलेशीं प्रतिपद्यते ॥ २४५ ॥ पञ्चानां ह्रस्ववर्णानामुच्चारप्रमितां च ताम् । प्राप्तः शैलेशनिष्कम्पः, स्वीकृतोत्कृष्टसंवरः ॥ २४६ ॥ शुक्लध्यानं चतुर्थं च, ध्यायन् युगपदञ्जसा । वेद्यायुर्नामगोत्राणि, क्षपयित्वा स सिद्ध्यति ।। २४७ ।। अगत्वापि समुद्घातमनन्ता निर्वृता जिना: । अवाप्यापि समुद्घातमनन्ता निर्वृता जिना: ॥ २४८ ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy