________________
कषायस्य सनुपातश्चतुर्दाऽयं प्रकीर्तितः । क्रोधमानमायालोभैहेतुभिः परमार्थतः ॥ २११ ॥ इति कषायसमुद्घातः । अन्तर्मुहूर्त्तशेषायुर्मरणान्तकरालितः । मुखादिरन्ध्राण्यापूर्य, शरीर स्वप्रदेशकैः ॥ २१२ ॥ स्वाङ्गविष्कम्भबाहल्यं, स्वशरीरातिरेकत: । जघन्यतोऽङ्गलासंख्येयांशमुत्कर्षतः पुनः ॥ २१३ ॥ असंख्ययोजनान्येकदिश्युत्पत्तिस्थलावधि । आयामतोऽभिव्याप्यान्तर्मुहूर्तान्मियते ततः ॥ २१४ ॥ मरणान्तसमुद्घातं, गतो जीवश्च शातयेत् । आयुष: पुद्गलान् भूरीनादत्ते च नवान्न तान् ॥ २१५ ॥
अत्रायं विशेषः, कश्चिज्जीव: एकेनैव मारणान्तिकसमुद्घातेन नरकादिषूत्पद्यते तत्राहारं करोति, शरीरं च बजाति । कश्चित्तु समुद्घातान्निवृत्य स्वशरीरमागत्य पुनः समुद्घातं कृत्वा तत्रोपपद्यते । अयमों भगवतीषष्टशतकषष्ठोद्देशके नरकादिषु अनुत्तरान्तेषु सर्वस्थानेषु
भावितोऽस्तीति ज्ञेयम् ॥ इति मरणान्तिकसमुद्घातः । वैकुर्विकसमुद्घातं, प्राप्तो वैक्रियशक्तिमान् । कर्मावृतानामात्मीयप्रदेशानां तनोर्बहिः ॥ २१६ ॥ निसृज्य दंडं विष्कम्भबाहल्याभ्यां तनुप्रमम् । आयामतस्तु संख्यातयोजनप्रमितं ततः ॥ २१७ ॥ वैक्रियाङ्गाभिधनामकर्मांशान् पूर्वमर्जितान । शातयन वैक्रियाङ्गार्हान् स्कन्धाँल्लात्वा करोति तत् ॥ २१८ ॥ इति वैक्रियसमुद्घातः । समुद्धतस्तैजसेन, तेजोलेश्याख्यशक्तिमान् । कर्मावृतात्मप्रदेशराशे क्रियवद्बहिः ॥ २१९ ॥ देहविस्तारबाहल्यं, संख्येययोजनायतम् । निसृज्य दंडं प्राग्बद्धान्, शातयेत्तैजसाणुकान् ॥ २२० ।। अन्यानादाय तद्योग्यान्, तेजोलेश्यां विमुञ्चति । तैजसोऽयं समुद्घातः, प्रज्ञप्तस्तत्वपारगैः ॥ २२१ ॥ इति तैजससमुद्घातः । चतुर्दशानां पूर्वाणां, धर्ताऽऽहारकलब्धिमान् । जिनद्धिदर्शनादीनां, मध्ये केनापि हेतुना ॥ २२२ ॥ आहारकसमुद्घातं, कुर्वन्नात्मप्रदेशकैः । दण्डं स्वाङ्गपृथुस्थूल, संख्येययोजनायतम् ॥ २२३ ॥ निसृज्यपुद्गलानाहारकनाम्नः पुरातनान् । विकीर्यादाय तद्योग्यान् देहमाहारकं सृजेत् ॥ २२४ ।। इत्याहारकसमुद्घातः । यस्यायुषोऽतिरिक्तानि, कर्माणि सर्ववेदिनः । वेद्याख्यनामगोत्राणि, समुद्घातं करोति सः ॥ २२५ ॥ आन्तर्मुहूर्तिकं पूर्वमावर्जीकरणं सृजेत् । अन्तर्मुहूत्तशेषायुः, समुद्घातं ततो व्रजेत् ॥ २२६ ॥ आवर्जीकरणं शस्तयोगव्यापारणं मतम् । इदं त्ववश्यं कर्तव्यं, सर्वेषां मुक्तिगामिनाम् ॥ २२७ ॥ आत्मप्रदेशैलॊकान्तस्पृशमूर्ध्वमधोऽपि च । कुर्यादायक्षणे दण्ड, स्वदेहस्थूलविस्तृतम् ॥ २२८ ॥