________________
529
पञ्चानीकपरिक्षिप्तमहेन्द्रध्वजभाक् पुरः । उद्दण्डशुण्डदिपवद्, द्विषां चेतांसि कम्पयन् ॥ १५७ ।। दिव्यदुन्दुभिनि:स्वानध्वानव्याप्तनभोऽन्तरः । औत्तराहेण निर्माणमार्गेणोत्तरति द्रुतम् ॥ १५८ ॥ यथा वरयिता लोके, राजमार्गेण गच्छति । स्वसमृद्धिं दर्शयितुं, जनानां स्वं प्रशंसताम् ॥ १५९ ॥ तथेन्द्रोऽपि पथाउनेन, जिनजन्मोत्सवादिषु । निर्याति भूयसां बोधिलब्धये तत्प्रशंसिनाम् ॥ १६० ॥ अथासंख्यदीपवाद्धिमध्येन द्रुतमापतन् । नन्दीश्वरे रतिकरपर्वतेऽग्निविदिग्गते ॥ १६१ ॥ कृत्वा विमानसंक्षेपं, जिनजन्मपवित्रिते । नगरे शीघ्रमागत्य, मन्दिरं जिनजन्मनः ॥ १६२ ।। द्राक् त्रिप्रदक्षिणीकृत्य, विमानेन सुरेश्वरः । विमुञ्चति तदेशान्यां, चतुर्भिरङ्गलैर्भुवः ॥ १६३ ॥ विशेत्ततो गृहं स्वाम्यालोकने घटिताञ्जलिः । पुलकैर्जलदासिक्तकदम्बकुसुमायितः ॥ १६४ ॥ जिनं समातृकं नत्वा, दत्त्वा च त्रि:प्रदक्षिणाम् । सुरेश्वरो वदत्येवं, जगत्पूज्ये ! नमोऽस्तु ते ॥ १६५ ॥ धन्याऽसि कृतपुण्याऽसि, सफलं तव जीवितम् । जगच्चिन्तामणिर्यत्ते, कुक्षौ जातो जिनेश्वरः ॥ १६६ ॥ विभासि मातस्त्वं विश्वचक्षुषा शिशुनाऽमुना । लोकम्पृणेन शुचिना, प्रातःसंध्येव भानुना ॥ १६७ ॥ जनयन्त्या जगन्नाथं, मुक्तिमार्गोपदेशकम् । सर्वेषामप्युपकृतं, जनानां जननि ! त्वया ॥ १६८ ॥ विमोहतिमिरोद्रेकलुप्तविज्ञानचक्षुषाम् । प्रददत्याऽमुमगदं, किं नो नोपकृतं त्वया ? ॥ १६९ ॥ अहं शक्रोऽस्मि देवेन्द्रः, सौधर्मस्वर्गनायकः । त्वन्नन्दनगुणाकृष्ट, इहायातोऽस्मि पावने ! ॥ १७० ॥ मातस्ततोऽनुजानीहि, न भेतव्यं मनागपि । त्वत्सुतस्य करिष्यामो, जन्मकल्याणकोत्सवम् ॥ १७१ ॥ इत्युदित्वा प्रभोर्मातुर्दत्तेऽवस्वापिनी हरिः । पार्श्वे च स्थापयत्यस्याः, कृत्वा प्रतिकृतिं प्रभोः ॥ १७२ ॥ केनचिहुष्टदेवेन, हतनिद्रेह मा स्म भूत् । इयं पुत्रमनालोक्य, पिञ्जलेत्ययमुद्यमः ॥ १७३ ॥ यद्धा परिजनस्तस्या, जातमात्रं तदङ्गजम् । अनालोक्य विषादं मा, यासीदित्ययमुद्यमः ॥ १७४ ॥ ततश्चार्हन्तमादत्ते, पञ्चमूर्तिः सुरेश्वरः । मूत्यै कया धौतपूतधूपिते करसंपुटे ॥ १७५ ॥ एकया छत्रमाधत्ते, धत्ते द्वाभ्यां च चामरौ । पञ्चम्या वज्रमादाय, पुरो गच्छति भृत्यवत् ॥ १७६॥ तत्पालकविमानं च, रिक्तमेवानुगच्छति । स्वामिन: पादचारित्वान्नृपानुगगजादिवत् ॥ १७७ ॥ तुष्टैः परिवृतो देवैः, सानन्दः स पुरन्दरः । ययौ मन्दरमौलिस्थे, कानने पाण्डुकाहये ॥ १७८ ॥ एवं चज्ञाताहज्जन्मनेशानस्वामिना शूलपाणिना । आदिष्टः पूर्ववत्पत्तिप्रष्ठोऽलधुपराक्रमः ॥ १७९ ॥ सोऽपि घण्टां महाघोषां, वादयत्यन्विताहयाम् । उद्घोषणां च कुरुते, जिनजन्मोत्सवोचिताम् ॥ १८० ॥
१ घटनामात्रमेतत, निर्याणमार्गेण देवानां तिच्छालोकागमाय देवलोकात् निर्गमात, हरिणैगमेषिणो गर्भपरावर्तनेऽपि तेनैव पथा निर्गमात् ।