________________
525
सोपेत्य कान्तं विनयात्प्रबोध्यैतान्निवेदयेत् । सोऽपि स्वप्नफलं ब्रूते, विश्वोत्कृष्टाङ्गजोद्भवम् ॥ ५७ ॥ आकार्य स्वप्नशास्त्रज्ञान् प्रातरन्तः सभं ततः । नृपः स्वप्नफलं पृच्छेत्तेऽपि शास्त्रानुसारतः ॥ ५८ ॥ वदन्त्येवं महाराज ! सुतो भावी भवत्कुले । तीर्थंकरो वा चक्री वा, महास्वप्नानुभावतः ॥ ५९ ॥ स्वप्नशास्त्रे यतः प्रोक्ताः, सर्वे स्वप्ना द्विसप्ततिः । तत्र त्रिंशन्महास्वप्नास्तेषु चैते चतुर्दश ॥ ६० ॥ इत्याकर्ण्य प्रमुदिता, पुत्रजन्ममनोरथान् । दधाना विविधान् राज्ञी, सा कुर्याद्रर्भपोषणम् ॥ ६१ ॥ गर्भानुभावोत्पन्नानां, दोहदानां शुभात्मनाम् । सा सेवनात्प्रपूर्णेच्छा, सश्रीका शोभतेऽधिकम् ।। ६२ ।। अथानुकूले मरुति, प्रसर्पति सुखावहे । भूमौ निष्पन्नशस्यायां, फलपूर्णेषु च द्रुषु ॥ ६३ ॥ ग्रहेषु सर्वेषूच्चेषु, निमित्तेषु शुभेषु च । छत्रादिजन्मयोगेषु, शुभे लग्ननवांशके ॥ ६४ ॥ जने प्रमुदिते श्रेष्ठे, निमित्ते शकुनादिके । अर्द्धरात्रे प्रसूते सा, जिनं निधिमिव क्षितिः ॥ ६५ ॥ उच्चग्रहास्त्वेवं
1
अर्काद्युच्चान्यजवृषमृगकन्याकर्कमीनवणिजोंशैः । दिग्दहनाष्टाविंशतितिथीषु नक्षत्रविंशतिभिः ॥६६॥
छत्रादियोगास्त्वेवं
द्वितीये द्वादशे मूर्ती, सप्तमे भवने ग्रहाः । छत्रयोगस्तदा ज्ञेयः, पुत्रो जातो नृपो भवेत् ॥ ६७ ॥ धने व्यये रिपुस्थाने, मृत्युस्थाने यदा ग्रहः । योगः सिंहासनो नाम, देवानामपि दुर्लभः ॥ ६८ ॥ तृतीये पञ्चमे स्थाने, नवमैकादशे ग्रहाः । बलयोगस्तदा ख्यातः, सर्वसौख्यकरस्सदा ॥ ६९ ॥ चंद्रात्सप्तमगो जीवोऽथवा स्याच्चन्द्रसंयुतः । जीवयोगं तमित्याहुश्चिरायुः सुखावान् भवेत् ॥ ७० ॥ केन्द्रस्थानेषु सर्वेषु, यदि सौम्यग्रहस्तदा । चतुः सागरयोगोऽयं, देवानामपि दुर्लभः ॥ ७१ ॥।” इत्यादि । तदा दिशः प्रसीदन्ति, सर्वाः प्रमुदिता इव । भवेन्नित्यान्धकारेषु, प्रकाशो नरकेष्वपि ॥ ७२ ॥ तथोक्तं स्थानाङ्गेऽर्थतः—
चतुर्भिः स्थानकैरेभिर्लोकोद्योतः प्रसर्पति । अर्हज्जन्मज्ञानदीक्षास्तेषां मोक्षोत्सवेऽपि च ॥ ७३ ॥ तत्रायान्ति तदा द्राक् षट्पञ्चाशद्दिक्कुमारिका: । कम्पासनाः प्रभोर्जन्म, विज्ञायावधिचक्षुषा ॥ ७४ ॥ तथाहि - भोगङ्करा १ भोगवती २ सुभोगा ३ भोगमालिनी ४ । तोयधारा ५ विचित्रा च ६ पुष्पमाला ७ त्वनन्दिता ।। ७५ ।। अष्टाधोलोकवासिन्यः, किलैता दिक्कुमारिकाः । वदन्त्यन्योऽन्यमाकार्य, जातो भो जगदीश्वरः ॥ ७६ ॥ तं नो दिक्कुमारीणामित्यधोलोकवेश्मनाम् । त्रैकालिकीनां यज्जन्मोत्सव : कार्यो जिनेशितुः ॥ ७७ ॥ यामस्ततो वयमपि कृत्वा श्रीजगदीशितुः । सूतिकर्मादिकां सेवां, कुर्महे सफलं जनुः ॥ ७८ ॥ निश्चित्यान्योऽन्यमित्येताः, प्रत्येकं स्वाभियोगिकान् । आज्ञापयन्ति निर्मातुं, विमानं गमनोत्सुकाः ॥ ७९ ॥