________________
520
केचित्प्रपन्नसम्यक्त्वा, देशचारित्रिणः परे । केचिच्चारित्रिणो यान्ति, पञ्चस्वपि गतिष्चमी ॥ ३४३ ॥ मेघाश्चतुर्विधास्ते च, पुष्करावर्त्तसंज्ञकाः । तथा प्रद्युम्नजीमूतौ, झिमिकाख्यस्तुरीयकः ॥ ३४४ ॥ तत्राद्यस्यैकया वृष्ट्या, सुस्निग्धा रसभाविता । भवत्यब्दायुतं भूमिर्धान्याद्युत्पादनक्षमा ॥ ३४५ ॥ द्वितीयस्यैकदृष्ट्या भूर्भाव्यतेऽब्दसहस्रकम् । वृष्टेः स्नेहस्तृतीयस्य, दशाब्दानि भवेद्भुवि ॥ ३४६ ॥ निरन्तरं प्रवृत्ताभिस्तुरीयस्य च वृष्टिभिः । भूयसीभिर्वर्षमेकं, स्नेहस्तिष्ठति वा न वा ॥ ३४७ ॥ तत्र तुर्यारकेऽम्भोदा, उत्तमाः कालवर्षिणः । स्युः स्निग्धा सरसा भूमिस्ततो भूरिफलप्रदा ॥ ३४८ ॥ प्रायो विड्वरदुर्भिक्षेतयो न न च तस्कराः । रोगशोकवियोगाधिदुःखदौ:स्थ्यादि चाल्पकम् ॥ ३४९ ॥ न्यायाऽनुल्लनिनो लोकाः, पुरुषायुषजीविनः । राजानः श्रावकाः प्रायो, धार्मिका न्यायतत्पराः ॥ ३५० ॥ तस्मिन् कालेऽनुक्रमेण, स्युस्त्रयोविंशतिर्जिनाः । एकादश चक्रभृतः, शाङ्गिण: सीरिणो नव ॥ ३५१ ॥ एवं चएकस्यामवसर्पिण्यां, स्युचतुर्विंशतिर्जिनाः । चक्रभृतो (चक्रिणो) द्वादश नव, केशवा नव सीरिणः॥ ३५२ ॥ चतुष्पञ्चाशदित्येवं, भवन्ति पुरुषोत्तमाः । स्युस्त्रिषष्टिरमी युक्ता, नवभिः प्रतिविष्णुभिः ॥ ३५३ ॥ नवभिर्नारदैर्युक्तास्ते, भवन्ति द्विसप्ततिः । तथैकादशरुद्राढ्याः, स्युस्त्र्यशीतिः समुच्चिताः ॥ ३५४ ॥
चतुर्धति वा पञ्चधा वाऽथ षोढाऽथवा सप्तधा विश्रुताः स्युः पुमांसः ।
जिनाश्चक्रिण: केशवा: सीरिणस्तद्विपक्षास्तथा नारदा: किंच रुद्राः ॥ ३५५ ॥ विश्वाश्चर्यदकीर्तिकीर्तिविजयश्रीवाचकेन्द्रान्तिषद्राजश्रीतनयोऽतनिष्ट विनय: श्रीतेजपालात्मजः । काव्यं यत्किल तत्र निश्चितजगत्तत्वाद्भुते त्रिंशतैकोनेन प्रमित: समाप्तिमगमत्सर्गो निसर्गोज्ज्वल: ॥ ३५६ ॥
॥ इति श्रीलोकप्रकाशे एकोनत्रिंशत्तमः सर्गः समाप्तः ॥
॥अथ त्रिंशत्तमः सर्गः ॥ तत्र तीर्थंकरास्तु स्युरितस्तृतीयजन्मनि । विंशत्या सेवितैः स्थानैस्तीर्थकृन्नामहेतुभिः ॥१॥ तानि चैवं-अर्हत् १ सिद्ध २ प्रवचन ३ गुरवः ४ स्थविरा ५ स्तथा । बहुश्रुत ६ स्तपस्वी ७ च
वात्सल्यान्येषु सप्तसु ॥२॥ अहँश्चतुर्धा नामादि: १, सिद्धाः कर्ममलोज्झिता: २ । श्रुतं प्रवचनं सङ्घस्तदाधारतयाऽथवा ३ ॥३॥ गुरुर्धर्मस्योपदेष्टा ४, स्थविरो वृद्ध उच्यते । वयश्चारित्रपर्यायश्रुतैरेष त्रिधा भवेत् ॥४॥