________________
521
षष्टि वर्षायतिक्रान्तो, वयः स्थविर उच्यते । पर्यायस्थविरो जातविंशत्यब्दव्रतस्थितिः ॥५॥ सूत्रार्थज्ञश्चतुर्थाङ्गं, यावद्योऽसौ श्रुतेन च । स्थविरः स्याद्यदुत्सर्गापवादादीनि वेत्त्यसौ ५ ॥६॥ तत्कालापेक्षया भूरिश्रुतोऽत्र स्याबहुश्रुत: ६ । तपस्वी चानशनादिविचित्रोग्रतप: स्थित: ७ ॥७॥ भक्तिरागो यथाभूतगुणप्रख्यापनं जने । यथोचितोपचारश्च, तेषां वात्सल्यमीरितम् ॥८॥ सदा ज्ञानोपयोगश्च, भवति स्थानमष्टमम् ८ । सम्यक्त्वे ९ विनये १० चावश्यके ११ ऽतीचारवर्जनम् ॥९॥ एतानि नवमदशमैकादशानि स्थानानीति शेषः । शीलव्रतेषु निरतीचारत्वं द्वादशं पदम् । व्रतान्यत्रोत्तरगुणाः, शीलं मूलगुणाः स्मृताः १२ ॥ १० ॥ त्रयोदशं क्षणलवाभिधानं स्थानमीरितम् । तच्च प्रतिक्षणलवं, सदा वैराग्यभावनम् १३ ॥ ११ ॥ तपश्चतुर्दशं स्थानं, नानाविधतपःक्रिया १४ । त्यागः पञ्चदशं साध्वाद्यन्निादिसमर्पणम् १५ ॥ १२ ॥ बालादिवैयावृत्यं स्यात्षोडशं स्थानकं च तत् । शुद्धोपध्यन्नादिदानमङ्गसंवाहनादि च ॥ १३ ॥
तथोक्तं प्रश्नव्याकरणा”—“केस्सिए पुण आराहए वयमिणं ? जे से उवहिभत्तपाणसंगहदाणकुसले, अच्चंतबालदुब्बलवुड्ढनवगपवत्तिआयरियउवज्झायसाहम्मियतवस्सीकुलगणसंघचेड्यढे य निज्जरखी क्यावच्चं अणिस्सियं दसविहं बहुविहं कड्.” अत्र श्रीजिनप्रतिमाया अन्नोपधिदानाङ्गसंवाहनाद्यसंभवाच्चैत्यस्य किं वैयावृत्त्यमिति यत्कश्चिच्चैत्यापलापी गुरुकर्मा शङ्कते तत्र जक्खा हु वेयावडियं करेंति, तम्हा उ एए निहया कुमारा' इत्युत्तराध्ययनोक्तहरिकेशिमहर्षिवचनात् अवज्ञानिवारणादेरपि
वैयावृत्त्यत्वमित्यादि युक्त्या समाधेयं १६ ॥ समाधि: स्यात्सप्तदशं, स्थानं दुानवर्जनम् । चित्तस्वास्थ्योत्पादनं वा, गुर्वादेविनयादिभिः ॥ १४ ॥ अत्राय: पक्ष आवश्यकवृत्तौ, द्वितीयस्तु ज्ञाताधर्मकथाङ्गमल्ल्यध्ययनवृत्तौ १७. अष्टादशमपूर्वस्य, ज्ञानस्य ग्रहणादर: १८ । एकोनविंशतितमं, श्रुतस्य बहुमाननम् १९ ॥ १५ ॥ स्थानमन्त्यं प्रवचनप्रभावनमिहोदितम् । तत्कुर्यात् श्रुतवान् धर्मकथादिगुणवांस्तथा २० ॥ १६ ॥
तथाहुः-“सम्मइंसणजुत्तो सह सामत्थे पभावगो होइ । सो पुण इत्थ विसिठ्ठो निद्दिठो अट्टहा सुत्ते ॥ पावयणी १ धम्मकही २ वाई ३ नेमित्तिओ ४ तवस्सी य ५ । विज्जा ६ सिद्धो
७ य कई ८ अद्वैव पभावगा भणिया ॥ एषु द्विवादिभिः स्थानैः, सर्वैर्वा सेवितै शम् । जिननामार्जयेन्मर्त्यः, पुमान् स्त्री वा नपुंसकम् ॥ १७ ॥
तथाहुः श्रीभद्रवाहुस्वामिपादा:-“नियमा मणुयगईए इत्थीपुरिसेयरो व सुहलेसो । आसेवियबहुलेहिं वीसाए अन्नयरएहिम्” ॥ _ नियमान्मनुष्यगतौ बद्ध्यते, कस्तस्यां बजातीत्याशङ्क्याह-स्त्री पुरुष इतरो वेति- नपुंसकम् इत्यावश्यकहारिभग्रां.