SearchBrowseAboutContactDonate
Page Preview
Page 535
Loading...
Download File
Download File
Page Text
________________ 518 संख्येयाब्दसहस्राणि, जघन्यं चायुरङ्गिनाम् । उत्कृष्टमत्रासंख्याब्दसहस्रप्रमितं मतम् ॥ २९३ ॥ आयुर्दहोच्छ्रयाहारान्तरस्य प्राग् यथाऽभवत् । नियता हानिरत्रांशे, त्वेषा न नियता तथा ॥ २९४ ॥ यथावारकयोरायद्वितीययोः क्रमात् हसेत् । क्रोशो दिनं च पल्यं चोच्छ्याहारान्तरायुषाम् ॥ २९५ ॥ दयोस्त्रिभागयोस्तबद्धीयते तच्छनैः शनैः । तृतीये तु त्रिभागेऽस्मिन्न नैयत्येन हीयते ॥२९६ ॥ इदमेवारकस्यास्य, त्र्यंशक्लृप्तौ प्रयोजनम् । पूर्वैः संभावितं भागश्चायमस्य पृथक् ततः ॥ २९७ ॥ कल्पवृक्षा अपि तदा, स्युः क्रमाद् दृढमुष्टयः । लोभात इव मूर्खाणां, वातैव विरसा क्षितिः ॥ २९८ ॥ ततस्ते सततं वृक्षफलौषध्यादिभोजिनः । तत्संग्रहममत्वाभिनिविष्टा विविदन्त्यपि ॥ २९९ ॥ पल्याष्टमांशे शेषे स्युरस्मिन् कुलकरा वराः । प्रकाशांशा इवासन्नोदयाद्यजिनभास्वत: ॥ ३०० ॥ रागद्वेषाभिवृद्ध्यात्र, नीतिमार्गातिपातिनाम् । शिक्षणाय कुलकरकृताः स्युदण्डनीतयः ॥ ३०१॥ सैकोननवतिपक्षे, शेषेऽस्य त्रुटिताङ्गके । उदेत्यादिमतीर्थशो, जगच्चक्षुरिवोत्तमः ॥ ३०२ ॥ लोकानामुपकाराय, व्यवहारं दिशत्यसौ । अज्ञानतिमिरच्छेदी, सदसन्मार्गदर्शकः ॥ ३०३ ॥ क्रमाच्च मध्यमरसत्वेन कालस्य भूरुहां । मिथ: संघर्षणादग्निः, प्रादुर्भवति भूतले ॥३०४ ॥ तदा मन्दोदराग्नीनां, नैरस्याद्भूरिभोजिनाम् । रुजत्यजीणे जठरमामौषध्यादिभोजने ॥ ३०५ ॥ तेषामनुग्रहायार्हन्, मृदमत्राणि शिक्षयेत् । अन्नपाकजलाधानाधुचितानि यथायथम् ॥ ३०६ ॥ शिक्षितं प्रथमं येषां, शिल्पमेतद्युगादिना । तेषां वंश: कुम्भकार, इति नाम्ना प्रवर्त्तते ॥ ३०७ ॥ एवं वक्ष्यमाणशिल्पकर्मणामनुसारतः । ते ते वंशाः प्रवर्त्तरंश्चित्रकृन्नापितादयः ॥ ३०८ ॥ अधुनापि वदन्त्येवं, कुम्भकारादयो जनाः । वयमस्मिन्नियुक्ताः स्मो, जगदीशेन कर्मणि ॥ ३०९ ॥ लोहशिल्पं विना वेश्मवाहनास्त्राद्यसंभवः । ततः प्रभुर्लाहकारशिल्पं लोके प्रवर्तयेत् ॥ ३१० ॥ विना चित्रं न शोभेत, वेश्मशय्यासनादिकम् । ततः प्रभुश्चित्रकारशिल्पं लोके प्रदर्शयेत् ॥ ३११ ॥ कल्पद्रुदत्तवस्राणामभावेन गताम्बराः । जनाः स्युर्दुःखिनस्तन्तुवायशिल्पं ततो दिशेत् ॥ ३१२ ॥ असंस्कृतश्मश्रुनखाः, स्युीष्माकृतयो जनाः । ततो नापितशिल्पं तत्कृपया दर्शयेत्प्रभुः ॥ ३१३ ॥ पञ्चैवं मूलशिल्पानि, शंसति त्रिजगत्प्रभुः । एकैकस्य ततो भेदाः, प्रवर्तन्ते च विंशतिः ॥ ३१४ ॥ एवं प्रवर्त्तते शिल्पशतं गुरुपदेशजम् । कर्माणि तु प्रवर्तन्ते, कृष्यादीनि स्वयं ततः ॥ ३१५ ॥ एवं चदासप्ततिं कला: पुंसां, चतुष्पष्टिं च योषिताम् । तथा शिल्पशतं लोकहितायार्हन् समादिशेत् ॥ ३१६ ॥ शस्त्रे शास्त्रे वणिज्यायां, जनानां भोजनादिषु । चातुर्यं दर्शयत्येष, पितेव तनुजन्मनाम् ॥ ३१७ ॥ तादृक्कालानुभावाच्च, क्रमेण त्वधिकाधिकम् । कलाशिल्पेषु लोकानां, चातुर्यं परिवर्द्धते ॥ ३१८ ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy