________________
517
पूर्वकालापेक्षयाऽत्र, भूयसाऽनेहसा भवेत् । बालानां व्यक्तता भाव्यमेवमग्रेऽपि धीधनैः ॥ २६७ ॥ पूर्वोक्तषट्प्रकारास्तु भवन्त्यत्र न मानवाः । तादृक्कालानुभावेन, वक्ष्यमाणा भवन्ति च ॥ २६८ ॥ एका: १ प्रचुरजङ्घाश्च २, कुसुमाख्या३स्तदा भुवि । तथा सुशमना४ एव, मनुष्याः स्युश्चतुर्विधाः ॥ २६९ ॥ रूढाः शब्दा अमी प्राग्वत्, जनानां जातिवाचकाः । अन्वर्थजिज्ञासायां तु, सोऽपि भाव्यः क्रमादिति ।। २७० ॥ एका: श्रेष्ठाः पुष्टजङ्घतया प्रचुरजङ्घका: । कुसुमाः पुष्पमृदवः, सम्यक् शान्तियुजोऽन्तिमाः ॥ २७१ ॥ भूमेः स्वरूपं यत्प्रोक्तं, वनवृक्षाद्यलङ्कृतम् । दशानां स्वर्द्रुमाणां च प्रथमं प्रथमारके ॥ २७२ ।। अविच्छिन्नं तदत्रापि, निःशेषमनुवर्त्तते । किंत्वनंतगुणन्यूनं, वर्णगंधादिपर्यवैः ॥ २७३ ॥ अनन्तगुणहानिः स्यादारभ्य प्रथमक्षणात् । वर्णायुरुच्चतादीनां प्राग्वदत्राप्यनुक्षणम् ॥ २७४ ॥ अत्रादौ युग्मिनां देहो, भवेत्क्रोशद्वयोच्छ्रितः । पल्योपमद्वयं चायुः, प्रहीयेते च ते क्रमात् ॥ २७५ ॥ ततोऽन्ते क्रोशमानं स्याद्वपुः पल्यं च जीवितम् । एतावदेव प्रथमं तृतीयेऽप्यरके भवेत् ॥ २७६ ॥ द्वितीयस्यारकस्यादौ बिभ्रते भृशमुच्छ्रिताः । अष्टाविंशतियुक्पृष्ठकरण्डकशतं जनाः ॥ २७७ ॥ देहह्रासक्रमेणैषां, क्रमात् हानिर्भवेत्ततः । स्युर्यावन्त्यरकस्यादौ पर्यन्ते स्यात्तदर्द्धकम् ॥ २७८ ॥ एवं द्वितीयेऽप्यरके, क्रमात्संपूर्णतां गते । अरस्तृतीयः सुषमदुःषमाख्यः प्रवर्त्तते ॥ २७९ ॥ अब्धिकोटाकोटियुग्मं, तस्य मानं यदीरितम् । क्रियन्तेऽङ्कास्त्रयस्तस्य प्रथमो मध्यमोऽन्तिमः ॥ २८० ॥ एकैकस्य विभागस्य, मानमेवं भवेदिह । षट्षष्टिः कोटिलक्षाणि तावत्कोटिसहस्रकाः ॥ २८१ ॥ षट् शतानि च कोटीनां, षट्षष्टिः कोटयोऽपि च । लक्षाः षट्षष्टिरब्धीनां षट्षष्टिश्च सहस्रकाः ॥ २८२ ॥ षट्शती च सषट्षष्टिर्दो तृतीयलवौ तथा । एकस्य वार्द्धरित्येवं, भाव्यं गणितकोविदैः ॥ २८३ ॥ ६६६६६६६६६६६६६६६६ - २ / ३ इत्यङ्कस्थापना. तृतीयभागयोरस्यारकस्याद्यद्वितीययोः । कल्पवृक्षादिकं सर्वं पूर्वोक्तमनुवर्त्तते ॥ २८४ ॥ एकक्रोशोच्छ्रिता आदावेक पल्योपमायुषः । जनाश्चतुःषष्टिपृष्ठकरण्डकयुताङ्गकाः ॥ २८५ ॥ अहोरात्रानिहैकोनाशीतिं रक्षन्ति तेऽङ्गजान् । अवस्थाः प्राग्वदत्रापि, सप्त तन्मानमुच्यते ॥ २८६ ॥ एकादश दिनाः सप्तदश घट्य: पलाष्टकम् । चतुस्त्रिंशदक्षराणि, किंचित्समधिकानि च ॥ २८७ ॥ आद्यसंहननाः प्राग्वदाद्यसंस्थानशालिनः । कासजृंभादिभिर्मृत्वैतेऽपि यान्ति ध्रुवं दिवम् ॥ २८८ ॥ तृतीयेऽस्य त्रिभागे तु समतिक्रामति क्रमात् । षोढा संहननानि स्युः, संस्थानान्यपि देहिनाम् ॥ २८९ ।। धनुःशतानि भूयांसि, प्रथमं तुच्छ्रिताः जनाः । असंख्याब्दसहस्रायुर्भृतः स्वर्गतिगामिनः ॥ २९० ॥ कालक्रमेण पर्यन्ते, हीयमानोच्छ्रयायुषः । अल्पान्तराशनाः प्रेमरागद्वेषस्मयाधिकाः ॥ २९१ ॥ प्राक्तनापेक्षया भूरिकालपालितबालकाः । यथार्हं यान्ति गतिषु चतुसृष्वपि ते मृताः ॥ २९२ ॥