SearchBrowseAboutContactDonate
Page Preview
Page 533
Loading...
Download File
Download File
Page Text
________________ 516 सत्यं यद्यपि संख्येया, भव्या: सिद्ध्यन्त्यनुक्षणम् । तथापि तत्सिद्धिकालोऽनन्तकालात्मकोभवेत् ॥ २४८ ॥ हीयन्तेऽनुक्षणम् वर्णाशास्तु यद्यप्यनन्तशः । तथापि कालोऽत्रैकावसर्पिण्यात्मक एव हि ॥ २४९ ॥ तद्दार्टान्तिकदृष्टान्तवैषम्यं चिन्त्यमत्र न । एवं पीतादिवर्णेषु, गन्धादिष्वपि भावना ॥ २५० ॥ .. एवं च द्रव्याणामानन्त्यात्प्रतिद्रव्यमेकैकांशहानिरिति यत्केचिदनन्तगुणहानिं समर्थयन्ति तदपास्तं द्रष्टव्यं । ननृक्ता क्षीयमाणा ये, देहोच्चत्वस्य पर्यवा: । एकट्यादिनप्रतरावगाहन्यूनतात्मका: ॥ २५१ ॥ असंख्या एव ते यस्मात्रिक्रोशवपुषापि हि । वगाह्यन्ते खप्रतरा, असंख्या एव नाधिकाः ॥ २५२ ॥ अनन्तगुणहानिस्तत्कथमेतेषु संभवेत् ? । अत्र ब्रूमः समाधानं, यदि शुश्रूष्यते त्वया ॥ २५३ ॥ देहस्थानां खप्रतरावगाहकारिणामिह । पुद्गलानामनन्तानां, हानियाऽत्र धीधनैः ॥ २५४ ॥ तथोक्तं जम्बूद्धीपप्रज्ञप्तिवृत्तौ-“प्रथमारके प्रथमसमयोत्पन्नानामुत्कृष्टं शरीरोच्चत्वं भवति, ततो द्वितीयादिसमयोत्पन्नानां यावतामेकनभ:प्रतरावगाहित्वलक्षणपर्यवाणां हानिस्तावत्पुद्गलानन्तकं हीयमानं द्रष्टव्यं, आधारहानावाधेयहानेरावश्यकत्वादिति, तेनोच्चत्वपर्यायाणामनन्तत्वं सिद्धं, . नभ:प्रतरावगाहस्य पुद्गलोपचयसाध्यत्वादिति ।” पर्याया आयुषोऽप्येकद्व्यादिक्षणोनतात्मकाः । असंख्येया एव तेऽपि, स्युस्त्रिपल्यायुषोऽपि हि ॥ २५५ ॥ किं त्वेकादिक्षणोनेषु, स्थितिस्थानेषु तेष्विह । प्रत्येकं तद्धेतुकर्मप्रदेशाः स्युरनन्तशः ॥ २५६ ॥ तेऽप्यायु:पर्यवा एव, हेतौ कार्योपचारतः । एवं भाव्यायुषोऽनन्तगुणहानिः प्रतिक्षणम् ॥ २५७ ॥ ___अत एव श्रीजम्बूदीपप्रज्ञप्तिसूत्रेऽभिहितं-'अणंतेहिं उच्चत्तपज्जवेहिं अणंतेहि आउअपज्जेवहिं ___ अणंतगुणपरिहाणीए परिहायमाणे २' इति. एवं चाद्यारकस्यादौ, त्रिक्रोशप्रमितं वपुः । त्रिपल्यप्रमितं चायुयुग्मिनां प्राग् यदीरितम् ॥ २५८ ॥ तद्धीयमानं क्रमेणाधारकान्ते तु युग्मिनाम् । स्याद् द्विक्रोशोच्चमङ्गं, द्विपल्यमानं च जीवितम् ॥ २५९ ॥ एवं दशस्वपि क्षेत्रेष्वारके प्रथमे गते । द्वैतीयीकोऽऽरकस्तेषु, सुषमाख्यः प्रवर्त्तते ॥ २६० ॥ तस्मिन् कालेऽपि मनुजाः, पूर्ववद्युग्मिनोऽथ ते । अनन्तगुणहीनाः स्युः, पूर्वेभ्यो गुणलक्षणैः ॥ २६१ ॥ पृथ्वीपुष्पफलाहारास्तेऽहोरात्रद्वयान्तरे । काङ्क्षन्ति पुनराहारं, बदरीफलमात्रकम् ॥ २६२ ॥ चतुष्षष्टि दिनान्येते, कुर्वतेऽपत्यपालनम् । अवस्थाः प्राग्वदत्रापि, भाव्याः सप्त यथाक्रम् ॥ २६३ ॥ चतुष्पष्टिरहोरात्रा, हियन्ते यदि सप्तभिः । एकैकस्या अवस्थायास्तदा कालो भवत्ययम् ॥ २६४ ॥ दिनानि नव घट्योऽष्टौ, चतुस्त्रिंशत्पलानि च । अक्षराणि सप्तदश, किञ्चित्समधिकानि च ॥ २६५ ॥ यत्पूर्वेभ्योऽधिकोऽपत्यपालने काल ईरितः । तदुत्थानबलादीनामनन्तगुणहानितः ॥ २६६ ॥ १ अन्तरस्याविवक्षया समयेनाष्टोत्तरशतसिद्धेश्च ।
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy