________________
515
ततश्च-भूयोधनुःपृथक्त्वा नरहस्त्याद्यपेक्षया । सुवहानि तदङ्गानि, खगैराधारकादिषु ॥ २२९ ॥ ____एवं च सूत्रे एकवचननिर्देशेऽपि बहुवचनव्याख्यानं श्रीमलयगिरिपादैरपि श्रीबृहत्संग्रहणीवृत्तौ“दसवाससहस्साई समयाई जाव सागरं ऊणं । दिवसमुहूत्तपुहुत्ता आहारुस्सास सेसाणं" ॥ [गा. १८२]
इत्यस्या गाथाया व्याख्याने कृतमस्तीति सर्वं सुस्थमित्याद्यधिकमुपाध्याय-श्रीशान्तिचन्द्रीयजम्बू० प्र० ० यद्धा-भारण्डपक्षिणां लोकळ्यातेभोरहनादिवत् । तेषां खगानां तद्युग्मिदेहोरहनसंभवः ॥ २३० ॥ एवं स्वरूपमुक्तं यत्प्रथमं प्रथमारके । क्रमात्ततो हीयमानमवसेयं प्रतिक्षणम् ॥ २३१ ॥ वर्णगन्धरसस्पर्शसंस्थानोच्चत्वपर्यवैः । तथा संहननायुष्कबलवीर्यादिपर्यवैः ॥ २३२ ॥ अनन्तगुणहान्याउनुसमयं हीयमानकैः । संपूर्णाः स्युः सागराणां, चतस्रः कोटिकोटय: ॥ २३३ ॥ गुणशब्दश्चात्र भागपर्यायस्तेन हीयते । अनन्तभागहान्यैव, वर्णादि: पर्यवव्रजः ॥ २३४ ॥ इत्थमेवानुयोगद्धावृत्तौ एकगुणकालकविचारे स्पष्टमाख्यातं. अनन्तगुणानां हानिरेवं तत्पुरुषोऽत्र सः । न त्वनन्तगुणा हानिरित्येवं कर्मधारयः ॥ २३५ ॥ ___ अत्र स इति समासो वैयाकरणरूढेः, पदैकदेशे पदसमुदायोपचारादेति अनन्तगुणहानिभावना चैवंआद्यारकाद्यसमये, वर्त्तते यो द्रुमादिषु । सर्वोत्कृष्टः शुक्लवर्णः, केवलिप्रज्ञयाऽस्य च ॥ २३६ ॥ छिद्यमानस्य भागा: स्युनिर्विभागा अनन्तश: । एते सर्वजीवराशेः, स्युरनन्तगुणाधिकाः ॥ २३७ ॥ तेषां मध्याद्राशिरेकोऽनन्तभागात्मकस्त्रुटेत् । द्वितीये समये चैवं, तृतीयादिक्षणेष्वपि ॥ २३८ ॥ इत्येवमवसर्पिण्या:, सर्वान्त्यसमयावधि । तत्र चायं निकृष्टः स्यात्तादृक्कालानुभावत: ॥ २३९ ॥ उत्सर्पिण्याद्यसमयेऽप्येवंरूपो भवत्ययम् । ततो द्वितीयसमये, यथाहानि विवर्द्धते ॥ २४० ॥ अनन्तगुणवृद्ध्यैवं, वर्द्धमानः क्षणे क्षणे । उत्सर्पिण्यन्त्यसमये, सर्वोत्कृष्टः स जायते ॥ २४१ ॥ नन्वेवं शुक्लवर्णस्य, मूलोच्छेदः प्रसज्यते । प्रत्यक्षबाधितं तच्च, जात्यादौ शौक्ल्यदर्शनात् ॥ २४२ ॥ अत्रोच्यतेऽनन्तकस्यानन्तभेदाः स्मृतास्ततः । प्रक्षीयमाणपर्यायांशानामल्पमनन्तकम् ॥ २४३ ॥ मूलपर्यायांशराशेस्त्वनन्तकं महत्तमम् । ततोऽनुसमयेऽनन्तहान्याऽप्युच्छिद्यते न तत् ॥ २४४ ॥ यदि भव्येषु सिध्यत्सु, संसारेऽस्मिन् प्रतिक्षणम् । अनन्तेनापि कालेन, भव्योच्छेदो न जायते ॥ २४५ ॥ तदेषां सर्वजीवेभ्योऽनन्तजानां कथं भवेत् ?। उत्कृष्टवर्णभागानामुच्छेदोऽसंख्यकालतः ॥ २४६ ॥ ननु भव्यास्तु संख्येया, एव सिद्धयन्त्यनुक्षणम् । एते त्वनन्ता हीयन्ते, तत्साम्यमनयोः कथम् ॥ २४७ ॥
१ यद्यापि पृथक्त्वशब्देन बहुनि पृथक्त्वानि गृहान्ते पर तानि गव्यूतादगिव न परतः, संग्रहणीव्याख्यानेऽपि दिवसपृथक्त्वादर्वागेव मुहूर्तपृथक्त्वस्य ग्राहाता, तत्त्वतस्तु अनेकैस्तैरुत्पाटने युग्मिनां न काप्यनुत्पत्तिः, कीटिकाभिःसर्वाकर्षणवत् । २ कालस्योत्सर्पिणीरुपत्वात् स्यादेव वृद्धिराद्येऽपिसमये, परं द्वयोः साम्यायेदं ।