SearchBrowseAboutContactDonate
Page Preview
Page 531
Loading...
Download File
Download File
Page Text
________________ 514 असंख्यायुस्तिर्यक्षु तु जन्मतोऽपि सम्यक्त्वं संभवति, तथोक्तं षष्ठकर्मग्रन्थवृत्तौ-१ “क्षायिकसम्यग्दृष्टिस्तिर्यक्षु न संख्येयवर्षायुष्केषु मध्ये समुत्पद्यते. किंत्वसंख्येयवर्षायुष्केषु ।” सप्तावस्थाकालमानमित्यादौ प्रथमारके । तत: कालक्रमात्किञ्चित्संभवत्यधिकाधिकम् ॥ २१८ ॥ इदमर्थतो जम्बूद्वीपप्रज्ञप्तिवृत्तौ । ततस्ते पितरस्तेषामरोगाः पूरितायुषः । कासजृम्भादिभिर्मृत्वोद्भवन्ति त्रिदशालये ॥ २१९ ॥ एतद्भवायुषा तुल्यायुषो न्यूनायुषोऽथवा । ते देवाः स्युर्युग्मिभवायुष्कान्न त्वधिकायुषः ॥ २२० ॥ तिर्यञ्चोऽपि तदा तादृग्गुणा: कालानुभावतः । समापितायुषो यान्ति, युग्मिनस्त्रिदशालयम् ॥ २२१ ॥ तिर्यक्षु युग्मिनश्च स्युः, संज्ञिपक्षिचतुष्पदाः । तेषामेव ह्यसंख्यायुष्टया स्वर्गतिनिश्चयात् ॥ २२२ ॥ तथोक्तं-"नरतिरि असंख्रजीवी सब्वे नियमेण जंति देवेसु ।” इति. [बृहत्संग्रहणी गा. १५०] अन्येषां तु न युग्मित्वं, नापि स्वर्गतिनिश्चयः । पूर्वकोटिप्रान्तमायुस्तेषामुत्कर्षतोऽपि यत् ॥ २२३ ॥ "गब्भभुअजलयरोभयगब्भोरगपुब्बकोडि उक्कोसा [बृहत्संग्रहणी गा. २८६] । तथासंमुच्छिपणिंदिथलनयरोरगभुअग जिट्टिइ कमसो । वाससहस्सा चुलसी बिसत्तरि तिपन्न बायाला" ॥ [बृहत्संग्रहणी गा. २८८] इति वचनात्, पूर्वकोट्यायुप्काच न युग्मिन: संख्यातायुष्कत्वादिति संभावयामः, किंचसंमूर्छिम पञ्चेन्द्रियाणां नपुंसकत्वेनैव युगलित्वं दुःश्रद्धानं, नपुंसकत्वमप्येषां दुर्वारं 'गब्भनरतिरिआ संखाउआ तिवेआ' इति वचनात् । कालसप्ततिकायां तु- अवि सब्बजीवजुअला, निअसमहीणा उ सुरगई तह य । थोवकसाया नवरं सवारयथलयराउमिणं ॥ मणुयाउसमगयाई, चउरंसहयादजाइ अटुंसा । गोमहिसुट्टखराइ, पणंस साणाइ दसमंसा ॥ उरभुअग पुनकोडि पलियासंखंस खयरपढमारे ।” इत्युक्तं, [श्लो. ११, १२, १३] तदत्र तत्त्वं बहुश्रुतगम्यं ।। मृतानां नास्ति संस्कारो, युग्मिनामग्न्यभावतः । ततस्तेषां शरीराणि, तदासन्नवनस्थिताः ॥ २२४ ॥ भारण्डाद्या: पक्षिणो द्राग्, जगत्स्वाभाव्यतस्तथा । नीडकाष्ठवदादाय, प्रक्षिपन्त्यर्णवादिषु ॥ २२५ ॥ तदुक्तं श्रीहैमऋषभचरित्रे- “पुराहि मृतमिथुनशरीराणि महानगाः । नीडकाष्ठमिवोत्पाट्य, सद्यविक्षिपुरम्बुधौ” ॥ [त्रिषष्ठि पर्व-१. सर्ग २. श्लो. ७३९] अत्राम्बुधेरूपलक्षणत्वाद्यथायोगं गङ्गाप्रभृतिनदीष्वपीति ज्ञेयं । ननूत्कर्षादपि धनुःपृथक्त्वाङ्गैः पतत्रिभिः । तेषां त्रिकोशमानानां, वहनं संभवेत्कथम् ? ॥ २२६ ॥ अत्रोच्यतेखगाङ्गमाने यत्प्रोक्तं, पृथक्त्वं धनुषां श्रुते । तत्रैकवचनं जातौ, यथा व्रीहिः सुभिक्षकृत् ॥ २२७ ॥ ततो धनुःपृथक्त्वानां, बहुत्वमपि संभवेत् । विहङ्गानां देहमानं, तादृक्कालाद्यपेक्षया ॥ २२८ ॥ २ सम्यक्त्वात् प्राग् येनायुर्बद्धं तस्यैवोत्पत्तेस्तिर्यक्षु तादृक्षु नात्र तदा नूतनोत्पादः सम्यक्त्वस्य. ३ द्वितीये सर्वयुग्मिणीवा इत्युक्तावपि नात्र उरोभुजगादिग्रहणं, तस्य युग्मित्वाभावात्, तत्कालीनेषु तिर्यक्षु तद्गणनं च नैवास्ति सूत्रे.
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy