SearchBrowseAboutContactDonate
Page Preview
Page 530
Loading...
Download File
Download File
Page Text
________________ 513 नागबाणादयश्चैवंनागबाणस्तमोबाणो, वहिबाणो मरुच्छर: । एवमन्येऽपि ते स्वस्वनामकार्यप्रसाधकाः ॥ २०७ ॥ नेतयः सप्त नो मारिख़रा नैकान्तरादयः । तदा नाकालमरणं, न दुर्भिक्षं न विड्वरः ॥ २०८ ॥ एवं च ते निरातङ्का, निर्बाधा निरुपद्रवाः । सुखानि भुञ्जन्ते यावज्जीवं प्राचीनपुण्यतः ॥ २०९ ॥ ते च षोढा पद्मगन्धा १, मृगगन्धा २ स्तथाऽममा: ३ । सहाश्च ४ तेजस्तलिन: ५, शनैश्चारिण ६ इत्यपि ॥ २१०॥ इमे जातिवाचकाः शब्दा: संज्ञाशब्दत्वेन रूढाः यथा पूर्वमेकाकारापि मनुष्यजातिस्तृतीयारकप्रान्ते श्रीऋषभदेवेन उग्रभोगराजन्यक्षत्रियभेदैश्चतुर्धा कृता, तथाऽत्राप्येवं षड्विधा सा स्वभावत एवास्तीति जीवाभिगमवृत्तौ जम्बूप्र० वृ० च. पञ्चमाङ्गषष्ठशतकसप्तमोद्देशके तु पद्मसमगंधयः, मृगमदगन्धय: ममकाररहिताः, तेजश्च तलं च रूपं येषामस्तीति तेजस्तलिनः, सहिष्णवः समर्थाः, शनैर्मन्दमुत्सुकत्वा-भावाच्चरन्तीत्येवंशीला इत्यन्वर्थता व्याख्याताऽस्तीति । आयुषः शेषषण्मास्यां, बद्धाग्रिमभवायुषः । ते युग्ममेकं स्त्रीपुंसरूपं प्रसुवते जनाः ॥ २११ ॥ अहोरात्रांस्तदेकोनपञ्चाशतममी जनाः । रक्षन्ति तावता तौ च, स्यातां संप्राप्तयौवनौ ॥ २१२ ॥ एषामेकोनपञ्चाशद्दिनावधि च पालने । केचिदेवं पूर्वशास्त्रे, व्यवस्था कोविदा विदुः ॥ २१३ ॥ तथाहिसुप्तोत्तानशया लिहन्ति दिवसान् स्वाइष्ठमार्यास्ततः । को रिङ्गन्ति पदैस्तत: कलगिरो यान्ति स्खलद्भिस्ततः । स्थेयोभिश्च तत: कलागणभृतस्तारुण्यभोगोद्गताः । सप्ताहेन ततो भवन्ति सुदृगादानेऽपि योग्यास्ततः ॥ २१४ ॥ अयं भाव:-सप्ताहे प्रथमेऽङ्गुष्ठं लिहन्त्युत्तानशायिनः । द्वितीये भुवि रिझन्ति, व्यक्तवाचस्तृतीयके ॥ २१५ ॥ पदैः स्खलद्भिर्गच्छन्ति, चतुर्थे पञ्चमे पुनः । स्थिरैः पदैस्ते गच्छन्ति, षष्ठे सर्वकलाविदः ॥ २१६ ॥ सप्ताहे सप्तमे प्राप्तयौवनाः प्रभविष्णवः । स्युः स्त्रीभोगेऽपि केचिच्च, सम्यक्त्वग्रहणोचिताः ॥ २१७ ॥ तथोक्तं जम्बू० प्र० वृ० “केचिच्च सुदृगादानेऽपि सम्यक्त्वग्रहणेऽपि योग्या भवन्तीति.” एवं चात्र सप्तसप्तकव्यतिक्रमे सम्यक्त्वयोग्यतोक्ता. प्रज्ञापनाविशेषपदवृत्तौ च उत्कृष्टस्थितिमनुष्यसूत्रे 'दो नाणा दो अन्नाणा' इति उत्कृष्टस्थितिका मनुष्यास्त्रिपल्योपमायुषस्तेषां तावद् अज्ञाने नियमेन, यदा पुनः षण्मासावशेषायुषो वैमानिकेषु बद्धायुषस्तदा सम्यक्त्वलाभाद् द्वे ज्ञाने लभ्येते, अवधिविभौ चासंख्येयवर्षायुषां न स्त” इति । “तत्रोत्सर्पिण्यामवसर्पिण्यां च प्रत्येकं षड्विधेऽपि कालविभागे सम्यक्त्वस्य श्रुतस्य च द्वयोरप्यनयोः प्रतिपत्तिः संभवतीति प्रतिपद्यमानकस्संभवति, स च प्रतिपद्यमानकस्सुषमदुःषमादिषु देशन्यूनपूर्वकोट्यायुरशेष एव प्रतिपद्यते, नाधिकायुश्शेष" इत्यावश्यकमलयगिरीवृत्तौ. तदत्र मतत्रये तत्त्वं सर्वविद्वेद्यमिति ज्ञेयं. १ आयं तावन्मतं न क्वचित् तथाभूते शास्त्रे, तृतीये च मते शास्त्रज्ञानपूर्वकस्य सम्यवत्वस्याधिगमरुपस्याधिकार इाते न विरोधः, योग्यतापेक्षं वाऽऽयं.
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy