________________
512
सत्यपि स्वर्णरत्नादौ, ममत्वावेशवर्जिताः । परस्परं त्यक्तवैरकलहद्रोहमत्सराः ॥ १८१ ॥ अश्वमातङ्गकरभवृषभादिषु सत्स्वपि । तद्भोगविमुखाः पादविहाराः स्वैरचारिणः ॥ १८२ ॥ गोमहिष्येडकाजासु, सुव्रतासु सतीष्वपि । तदङ्गीकारतद्दोहतहुग्धास्वादवर्जिताः ॥ १८३ ॥ यक्षभूतापिशाचादिग्रहमारिविवर्जिताः । कासश्वासज्वराद्यर्तिव्याधिव्यसनवञ्चिताः ॥ १८४ ॥ कृषिसेवावणिज्यादिवृत्तिक्लेशपरिच्युताः । वाञ्छामात्रप्राप्तकामा, निश्चिन्ताः सुखमासते ॥ १८५ ॥ भूपालयुवराजेभ्यश्रेष्ठिसैन्याधिपादिभिः । नायकै रहितास्तुल्याः, स्युः सर्वेऽप्यहमिन्द्रकाः ॥ १८६ ॥ तदा न कोऽपि कस्यापि, दास: प्रेष्यश्च कर्मकृत् । भागिको भृतक: शिष्य, आभियोग्योज्झिता हि ते ॥ १८७ ॥ प्रसूपितृस्वसृभ्रातृभार्यापुत्रनुषादिषु । स्वजनेष्वपि ते मा, न तीव्रप्रेमबन्धनाः ॥ १८८ ॥ तदा गोधूमशाल्याद्या, भवन्त्यौषधयः स्वयम् । सरसत्वाद्भुवो भूम्ना, सांप्रतीनतृणादिवत् ॥ १८९ ॥ आहारायोपयुज्यन्ते, न तास्तेषां नृणां परम् । पृथ्वीकल्पद्रुमफलपुष्पाहारा हि ते जनाः ॥ १९० ॥ शर्करामोदकादिभ्योऽप्यनन्तगुणमाधुरी । भूमिर्भवेत्तदा स्निग्धा, परिणामे हितावहा ॥ १९१ ॥ नीरोगाणां सुजातीनां, पालितानां प्रयत्नतः । पुण्ड्रेक्षुचारिणीनां च, गवां लक्षस्य यत्पयः ॥ १९२ ॥ एकगव्यां संक्रमितम ‘दिव्यवस्थया । निष्पादितं तेन लक्षद्रव्यव्ययसमुद्भवम् ॥ १९३ ॥ दीपनीयं बृंहणीयं, सर्वाङ्गीणप्रमोदकृत् । सुरभि स्वादु कल्याणभोज्यं यच्चक्रवर्तिनः ॥ १९४ ॥ ततोऽप्यधिकमाधुर्यस्तुष्टिपुष्ट्यादिकृद्रस: । कल्पद्रुमाणां तेषां स्यात्पुष्पेषु च फलेषु च ॥ १९५ ॥ तुवरीकणमात्रेण, तेनाहारेण ते जनाः । अहोरात्रत्रयं यावत्सुहिताः सुखमासते ॥ १९६ ॥ अथाहृत्य तमाहारं, प्रासादाकारशालिषु । प्रागुक्तकल्पवृक्षेषु, ते रमन्ते यथासुखम् ॥ १९७ ॥ यदा चतुर्विधाऽऽतोद्यहद्यनादरसार्थिनः । तदा ते त्रुटिताङ्गाख्यानुपयान्ति सुरद्रुमान् ॥ १९८ ॥ एवं चवसमाल्यविभूषाधैर्यदा यैर्यैः प्रयोजनम् । उपसर्पन्ति ते लोकास्तदा तांस्तान् सुरद्रुमान् ॥ १९९ ॥ तदास्ति न पुरग्रामदुर्गापणगृहादिकम् । ततस्ते स्युर्जना वृक्षवासिनः स्वैरचारिणः ॥ २०० ॥ विवाहयजनप्रेतकार्यादीनामभावतः । न तेषां कार्यवैयग्ग्रं, तेऽव्यग्रमनसः सदा ॥ २०१॥ तदा प्रमार्जनी नास्ति, न च कश्चित्प्रमार्जकः । स्वभावाद्भः कचवरपत्रस्थाणुतृणोज्झिता ॥ २०२ ॥ भवन्ति दंशमशकयूकाचञ्चटमत्कुणाः । मक्षिकाद्याश्च न तदा, जन्तवो देहिदुःखदाः ॥ २०३ ॥ ये सिंहचित्रकव्याघ्रभुजगाजगरादयः । कालस्वभावतस्तेऽपि, न रौद्रा नापि हिंसकाः ॥ २०४ ॥ एवं मृगा वृकाः श्वानः, पक्षिमार्जारमूषका: । मिथो वैरोज्झिता: सर्वे, भद्रकाः स्युरहिंसकाः ॥ २०५॥ न खगादीनि शस्त्राणि, नागबाणादयोऽपि न । न तत्प्रयोगी संग्रामः, कोऽपि कस्यापि नाशकृत् ॥ २०६॥