SearchBrowseAboutContactDonate
Page Preview
Page 528
Loading...
Download File
Download File
Page Text
________________ 511 द्वात्रिंशल्लक्षणानि च ज्योतिष्करण्डवृत्तौ श्रीमलयगिरिभिर्दर्शितानि पूर्वोक्तान्येव, किन्त्वत्र जम्बूदीपप्रज्ञप्तिसूत्रवृत्तौ मकरस्थाने मकरध्वज इति दृश्यते, तथा च तद्ग्रन्थ:-“मकरध्वजः कामदेवस्तत्संसूचकं सूचनीये सूचकोपचाराल्लक्षणमिति”, तच्च सर्वकालमविधवत्वादिसूचकमिति । स्वभर्तुः किञ्चिदूनोच्चा, भाग्यसौभाग्यभूमयः । सर्वेषामप्यनुमता, दक्षालापा: प्रियंवदाः ॥ १६७ ॥ सुस्था भाविकशृङ्गाराः, सीमन्तायुज्झिता अपि । मदमन्थरगामिन्यो, निर्विकाराशया अपि ॥ १६८ ॥ स्वाभाविकैरलारै-दशभिः स्त्रीजनोचितैः । सुशिक्षिता इव सदा, लीलादिभिरलङ्कताः ॥ १६९ ॥ ते चामी-लीला १ विलासो २ विच्छित्ति ३ बिब्बोकः ४ किलकिञ्चितम् ५ । मोट्टायितं ६ कुट्टमितं ७, ललितं ८ विहृतं ९ तथा ॥ विभ्रम १० श्चेत्यलाराः स्त्रीणां स्वाभाविका दश ॥ __एतल्लक्षणानि चैवं काव्यानुशासनसूत्रे-वाग्वेषचेष्टितैः प्रियस्यानुकृतिीला १ स्थानादीनां वैशिष्ट्यं विलासः २ ग्रन्थान्तरेऽप्युक्तं-स्थानासनगमनानां, हस्तभूनेत्रकर्मणां चैव । उत्पद्यते विशेषो य:, श्लिष्टः स तु विलास: स्यात् ॥ गर्वादल्पाकल्पन्यास: शोभाकृद्धिच्छित्तिः ३ इष्टेऽवज्ञा बिब्बोकः ४ वागङ्गभूषणानां व्यत्यासो विभ्रमः ५ स्मितहसितरुदितभयरोषगर्वदुःखश्रमाभिलाषसंकरः किलकिञ्चितं ६ प्रियकथादौ तद्भावभावनोत्था चेष्टा मोट्टायितं ७ अधरादिग्रहाहुःखेऽपि हर्षः कुट्टमितं ८ मसृणोऽङ्गन्यासो ललितं ९ व्याजादेः प्राप्तकालस्याप्यवचनं विहृतं १० । एतेषां दशानां सूत्राणां सोदाहरणा वृत्तयस्तु काव्यानुशासनटीकाया अलङ्कारचूडामणेरवसेयाः, एतच्च जम्बूद्धीपप्रज्ञप्तिसूत्रेऽपि सूचितं. तथाहि-“संगयगयहसिअभाणिअचिट्ठिअविलाससंलावणि उणजुत्तोवयारकुसला" इति । न तूद्दिश्यान्यमास्ता, विकारं बिभ्रते मनाक् । कालखभावादेवाल्पविकारा न्यायमार्गगा: ॥ १७० ॥ अनभ्यस्तनीतिकामशास्त्रा अपि स्वभावतः । युक्तकामोपचारेषु, चतुराश्चतुराशयाः ॥ १७१ ॥ नयनोत्सवकारिण्यश्चित्रकृत्प्रियदर्शनाः । साक्षादप्सरसः स्वर्गादवतीर्णा इव क्षितिम् ॥ १७२ ॥ तत्पतिप्राग्भवाचीर्णदानादिसुकृतोद्भवैः । पचेलिमैरिव फलैतिदृगूपसंपदः ॥१७३ ॥ तास्तादृश्यस्तदानी स्युः, स्त्रियः कालस्वभावतः । युग्मिन्यः परिभोगार्हा, युग्मिनां पुण्यशालिनाम् ॥ १७४ ॥ सर्वेऽपि पुंस्त्रीरूपास्ते, मनुष्याः शुभलक्षणा: । नान्दीसिंहक्रौञ्चहंसगम्भीरमधुरस्वराः ॥ १७५ ॥ आद्यसंहनना आद्यसंस्थाना: कान्तिशालिनः । दर्दुकुष्ठकिलासादित्वग्दोषरहिताङ्गकाः ॥ १७६ ॥ कपोतवत्परिणताहाराः कवयोगुदाः । अलग्नमलमूत्रादिलेपापानास्तुरङ्गवत् ॥१७७ ॥ पृष्ठकरण्डकवाच्यानि पृष्ठवंशोन्नतास्थिशकलानि । षट्पञ्चाशां द्विशती, दधत: क्रोशत्रयोन्नतयः ॥ १७८ ॥ पद्मोत्पलादिवच्चारुगन्धश्वासमुखाम्बुजा: । तनुक्रोधमानमायालोभदोषाः स्वभावतः ॥ १७९ ॥ विनीता भद्रकास्त्यक्तभक्ष्यभोज्यादिसंचया: । संतोषिणो निरौत्सुक्या, माईवार्जवशालिनः ॥ १८० ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy