________________
507
ग्रथितैष्टिमैः संघातिमैश्च पूरिमैरिति । माल्यैः पूर्णं द्वारदेशोल्लसद्धन्दनमालिकम् ॥ ७० ॥ पञ्चवर्णपुष्पपुञ्जोपचारचारुभूतलम् । सुखदायि भवेल्लोके, तथा ते स्वर्द्वमा अपि ॥७१ ॥ भोज्यसंपादकाः कल्पवृक्षाश्चित्ररसाह्वयाः । चित्रो नानाश्चर्यदो वा, रसो ह्येषां ततस्तथा ॥७२॥ सुगन्धिस्वच्छकलमशालितन्दुलगर्भितम् । तादृग्गोदुग्धसंराद्धं, परमान्नं सुसंस्कृतम् ॥७३॥ सद्यस्कशारदघृतशर्कराक्षोदमिश्रितम् । तुष्टिपुष्ट्यादिजनकमतिस्वादु भवेद्यथा ॥७४ ॥ संस्कृतो वा सूपकारोदनश्चक्रवर्तिनः । चतुष्कल्पसेकसिक्तोऽखण्डः कलमशालिजः ॥७५ ॥ सुपक्चो बाष्पमुन्मुञ्चन्मृदुस्तुषमलोज्झित: । विविक्तसिक्थो विविधशाकशाली भवेद्यथा ॥७६ ॥ चतुष्कल्पसेकसिक्त इति । विज्ञा रसवतीशास्त्रे, कोमलं कर्तुमोदनम् । कुर्वन्ति चतुरः कल्पांस्ते सेकविषयानिह ॥ ७७ ॥ वस्त्रपूतस्वग्निपक्म्राज्याज्यसमितोद्भवः । यथा वा मोदको भूरिशर्कराक्षोदमेदुरः ॥७८ ॥ द्राक्षाचारुकुलीनालिके रखण्डादिबन्धुरः । कर्पूरैलालवङ्गादिराजद्रव्यपरिष्कृतः ॥७९॥ सुरभिः कोमल: स्वच्छो, बलपुष्ट्यादिकृद्भवेत् । क्षुत्पिपासाप्रशमनः, सर्वांगीणप्रमोदकृत् ॥ ८॥ तथा नानारसोपेतसद्भोज्यविधिशालिभिः । फलपुष्पैर्विराजन्ते, वृक्षाश्चित्ररसा अपि ॥ ८१ ॥ मण्यङ्गा नाम ये कल्पद्रुमास्ते भूषणप्रदा: । मणीमणिमयीभूषास्तदायित्वाच्च ते तथा ॥ ८२ ॥ हारोऽर्द्धहारो मुकुटः, कुण्डलं कर्णवालिका । कर्णवेष्टनकं ग्रैवेयकं कङ्कणमुद्रिका ॥ ८३ ॥ हेमजालं रत्नजालं, कटकं वलयाङ्गदे । बाहुबन्धो बाहुरक्षा, पुष्पकं तिलकोऽपि च ॥ ८४ ॥ दीनारमालिका चन्द्रमालिका सूर्यमालिका । शिरोमणिमुम्बनकं, काञ्ची च कटिसूत्रकम् ॥ ५॥ नूपुरः पादकटको, घर्घरी क्षुद्रघण्टिका । भूषाभिदो या इत्याद्याः, स्वर्णमुक्तामणीभवाः ॥८६॥ स्वभावतस्तथारूपैः, फलपुष्पैरलङ्कताः । तदर्थिनां द्रुमास्ते द्राक्, पूरयन्ति मनोरथान् ॥ ८७ ॥ गेहाकाराः कल्पवृक्षा, नानागेहाकृतिस्पृशः । निवाससौख्यं विपुलं, वितरन्ति तदर्थिनाम् ॥ ८ ॥ कपिशीर्षस्फुरद्धप्रचरिकाट्टालकाञ्चिताः । मनोज्ञमण्डपास्तुङ्गतोरणाञ्चितगोपुराः ॥ ८९ ॥ एकद्वित्रिचतुःपञ्चषट्सप्तायुरुभूमयः । गवाक्षालीपरिक्षिप्ताः, सन्नियूहविटङ्किकाः ॥९० ॥ अभंलिहशिरश्चन्द्रशालाशालितमौलयः । सद्भारपट्टवलभीस्तम्भसंबन्धबन्धुराः ॥ ९१ ॥ वृत्तास्त्र्यप्राश्चतुःकोणा, आदर्शापमकुट्टिमाः । चञ्चच्चन्द्रोदयाश्चारुचित्रचित्रितभित्तयः ॥ ९२ ॥ एकद्वित्रिचतुरादिशाला गर्भगृहाञ्चिताः । श्रीवत्ससर्वतोभद्रनन्दावर्तादिसंजिनः ॥९३ ॥ शैलार्द्धशैलसंस्थाना, गिरिकूटाकृतिस्पृश: । आस्थानप्रेक्षणगृहचित्रशालाद्यलङ्कताः ॥ ९४ ॥ मज्जनादर्शशृङ्गारमोहनागारमण्डिताः । आपणाद्यैर्विशेषैश्च, विविधैरूपलक्षिताः ॥ ९५ ॥