SearchBrowseAboutContactDonate
Page Preview
Page 522
Loading...
Download File
Download File
Page Text
________________ 505 किंत्वसाङ्ख्यवहार्योऽसौ, भवति स्थूलदर्शिनाम् । तत: संव्यवहार्येऽस्मिन्, सङ्ख्यानेन निरूपितः ॥ २६ ॥ तथोक्तं जम्बूद्धीपप्रज्ञप्तिवृत्तौ-"एतस्माच्च परतोऽपि सर्षपचतुष्पल्यप्ररूपणागम्यः । संख्येय: कालोऽस्ति, किन्त्वनतिशायिनामसंव्यवहार्यत्वान्नेहोक्त इति स्थित्यधिकारे तु सर्वत्रापि सिद्धान्ते पूर्वकोटेः परतोऽधिकां स्थितिं बिभ्राणौ नरतिर्यञ्चौ संख्येयायुष्कतया न व्यवहियेते, तथोक्तं-श्री भगवती चतुर्विंशे शते द्वितीयोद्देशकवृत्तौ-"इहासङ्ख्यातवर्षायुर्जघन्यस्थितिक: प्रक्रान्तः, स च सातिरेकपूर्वकोट्यायुर्भवति, तथैवागमे व्यवहृतत्वात्” इति अत एव पूर्वकोट्यधिकायुषश्चा रित्रप्राप्तिमुक्तिगमनादिकमपि निषिध्यत इति ज्ञेयम् ।। अथ द्विधोपमेयं स्यात्पल्यसागरभेदतः । तत्स्वरूपं चात्रशास्त्रे, संज्ञासगै निरूपितम् ॥ २७ ॥ पल्योपमानां सूक्ष्माद्धाहयानां कोटिकोटिभिः । दशभिर्जायतेऽत्रैकं, सूक्ष्माद्धासागरोपमम् ॥ २८ ॥ एतेषां सागराणां च, चतस्रः कोटिकोटयः । आय: कालोऽवसर्पिण्यां, सुषमसुषमाभिधः ॥ २९॥ तिस्रोऽब्धिकोटिकोट्योऽथ, द्वितीयः सुषमाभिधः । तृतीयोऽब्धिकोटिकोटिद्वयं सुषमदुःषमा ॥ ३० ॥ न्यून: कालो द्विचत्वारिंशता वर्षसहस्रकैः । तुर्योऽब्धिकोटाकोट्येका, दुःषमसुषमाभिधः ॥ ३१ ॥ पञ्चमोऽब्दसहस्राणि, स्याहुःषमैकविंशतिः । तावन्त्यब्दसहस्राणि, षष्ठो दुःषमदुःषमा ॥ ३२ ॥ एवं दशभिरब्धीनां, कोटाकोटिभिरीरिता । एकाऽवसर्पिणी कालचक्रार्द्ध षडरात्मिका ॥ ३३ ॥ विपरीता व्यवस्थेयमुत्सर्पिण्यां प्रकीर्तिता । तथाहि तत्र प्रथमः, कालो दुःषमदुःषमा ॥ ३४ ॥ प्राग्वन्मानं त्वस्य वर्षसहस्राण्येकविंशतिः । द्वितीयो दुःषमाप्यब्दसहस्राण्येकविंशतिः ॥ ३५ ॥ तृतीयोऽब्धिकोटिकोटी, दुःषमसुषमाभिधः । न्यूना सा च द्विचत्वारिंशता वर्षसहस्रकैः ॥ ३६ ॥ वार्चिकोटाकोटियुग्मं, तुर्यः सुषमदुःषमा । पञ्चमः सुषमाकालस्तिस्रोऽब्धिकोटिकोटयः ॥ ३७ ॥ चतस्रोऽब्धिकोटिकोट्यः, सुषमासुषमाऽन्तिमः । उत्सर्पिणीति वार्डीनां, दशभि कोटिकोटिभिः ॥ ३८ ॥ एवं द्वादशकालाऽवसर्पिण्युत्सर्पिणी भवेत् । पुन: कालविभागास्ते, सुषमसुषमादयः ॥ ३९ ॥ सदा विवर्तमानत्वसाधादेतदुच्यते । कालचक्रं कालभागाः, पूर्वोक्तास्त्वरका इह ॥ ४० ॥ चक्रस्य भ्रमतो यत्पूवार्द्ध योन्तिमोऽरकः । परार्द्ध प्रथम: स स्याद्यस्तत्राद्योऽत्र सोऽन्तिमः ॥ ४१ ॥ एवमत्राप्युक्तनीत्या, कालचक्रेर्द्धयोर्द्धयोः । वैपरीत्याद्विवर्त्तन्ते, द्वादशाप्यारकाः क्रमात् ॥ ४२ ॥ भरतैरावताख्येषु, क्षेत्रेषु स्याद्दशस्वयम् । काल: परावर्त्तमानः, सदा शेषेष्ववस्थितः ॥४३॥ यस्यां सर्वे शुभा भावाः, क्षीयन्तेऽनुक्षणं क्रमात् । अशुभाश्च प्रवर्द्धन्ते, सा भवत्यवसर्पिणी ॥ ४४ ॥ इति ज्योतिष्करण्डवृत्त्यभिप्रायः। जम्बूद्धीपप्रज्ञप्तिसूत्रे तु-'अणंतेहिं वण्णपज्जवेहिं गंधपज्जवेहिं . यावत्परिहायमाणेहिं २ ओसप्पिणी पडिवज्जइ' इत्येवं दृश्यते इति ज्ञेयं. शुभा भावा विवर्द्धन्ते, क्रमाद्यस्यां प्रतिक्षणम् । हीयन्ते चाशुभा भावा, भवत्युत्सर्पिणीति सा ॥ ४५ ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy