________________
504
चूलिका स्यात्ततश्चाग्रे, शीर्षप्रहेलिकाङ्गकम् । शीर्षप्रहेलिका चेति, पूर्णा गणितगोचरः ॥ ११ ॥ शीर्षप्रहेलिकाङ्काः स्युश्चतुर्णवतियुक्शतम् । अङ्कस्थानाभिधाश्चेमाः, श्रित्वा माथुरवाचनाम् ॥ १२ ॥
भगवतीसूत्रानुयोगद्वारसूत्रजम्बूदीपप्रज्ञप्त्यादिष्वयमक्रमो ज्ञेय इति भावः । वालभ्यवाचना चेयंसंख्याह्वयाश्च सन्त्यङ्कस्थानराशेरितोऽन्यथा । स्यादोऽत्रापि चतुरशीतिलक्षगुणो मुहुः ॥ १३ ॥ तथाहिस्यात्पूर्वलक्षैश्चतुरशीत्याऽत्रैकं लताङ्गकम् । लताङ्गानां च चतुरशीत्या लक्षैर्भवेल्लता ॥ १४ ॥ लताभिस्तावतीभिश्च, भवेन्महालताङ्गकम् । महालता तैस्तावद्भिरित्याशीर्षप्रहेलिकाम् ॥ १५ ॥ नलिनाङ्गं च नलिनं, स्यान्महानलिनाङ्गकम् । महानलिनमेवं स्यात्पद्माङ्गं पद्ममेव च ॥ १६ ॥ महापद्माङ्गं च महापद्मं स्यात्कमलाङ्गकम् । कमलं महाकमलाझं महाकमलं तथा ॥ १७ ॥ कुमुदाङ्गं च कुमुदं, स्यान्महाकुमुदाङ्गकम् । महाकुमुदमेवं स्यात्, त्रुटिताङ्गं ततः परम् ॥ १८ ॥ त्रुटितं महात्रुटिताङ्गं महात्रुटितं तथा । अडडाङ्गं चाडडं च, महाडडाङ्गमेव च ॥ १९ ॥ महाडडमथोहाङ्गमूहं प्रोक्तं ततः परम् । महोहाङ्ग महोहं च, शीर्षप्रहेलिकाङ्गकम् ॥ २० ॥ शीर्षप्रहेलिका च स्यात्संख्या पर्यन्तवर्तिनी । अस्यां पञ्चाशदधिकं, स्यादानां शतद्वयम् ॥ २१ ॥
१८७९५५१७९५५०११२५९५४१९००९६९९८१३४३०७७०७९७४६५४९४२६१९७७७४७६५७२५७३४५७१८६८१६ इति सप्ततिरंकाः, अग्रे चाशीत्यधिकं बिंदुशतं.
अत्र ज्योतिष्करण्डवृत्तौ श्री मलयगिरिपूज्या इति स्माहुः-"इह स्कन्दिलाचार्य प्रवृत्तौ (प्रतिपत्तौ) दुःषमानुभावतो दुर्भिक्षप्रवृत्त्या साधूनां पठनगुणनादिकं सर्वमप्यनेशत्, ततो दुर्भिक्षातिक्रमे सुभिक्षप्रवृत्तौ द्वयोः स्थानयोः सङ्घमेलकोऽभवत्तद्यथा-एको वलभ्यामेको मथुरायां, तत्र च सूत्रार्थसंघटने परस्परं वाचनाभेदो जातो, विस्मृतयोहि सूत्रार्थयोः स्मृत्वा संघटने भवत्यवश्यं वाचनाभेद इति न काचिदनुपपत्तिः, तत्रानुयोगद्धारादिकमिदानी वर्त्तमानं माथुरवाचनानुगतं, ज्योतिष्करण्डसूत्रकर्ता चाचार्यो वालभ्यस्तत इदं संख्यानप्रतिपादनं वालभ्यवाचनानुगतमिति नास्यानुयोगद्धारादिप्रतिपादित सङ्ख्यास्थानैः सह विसदृशत्वमुपलभ्य विचिकित्सितव्यमिति”।
[श्लोक ७१नी टीका] आरभ्य समयादेवं, शीर्षप्रहेलिकावधि ।. कालस्य गणितं ज्ञेयमुपमेयं ततः परम् ॥ २२ ॥
___ तथोक्तं भगवत्यनुयोगद्वारजम्बूदीपप्रज्ञप्त्यादिसूत्रेषु-'एतावतावगणिए एतावतावगणियस्स
विसए, तेण परं उवमिए' अनेन कालमानेन, घर्मायां नारकाङ्गिनाम् । यथासंभवमायूंषि, मीयन्ते तत्त्ववेदिभिः ॥ २३ ॥ भवनेशव्यंतराणां, केषाञ्चिन्नाकिनामपि । केषाञ्चिन्नृतिस्थां च, तृतीयारकवर्तिनाम् ॥ २४ ॥ यद्यप्यस्मात्परोऽप्यस्ति, सङ्ख्याया विषयो महान् । पूर्वोदितचतुःपल्यप्ररूपणनिरूपितः ॥ २५ ॥