________________
503
दिवसस्य हरत्यर्क : षष्टिभागमृतौ ततः । करोत्येकमहश्छेदं तथैवैकं च चन्द्रमाः ॥ १ ॥ एवमर्धतृतीयानामब्दानामधिमासकम् । ग्रीष्मे जनयतः पूर्वं पञ्चाब्दान्ते च पश्चिमम् ॥ २ ॥ “इत्यध्यक्षप्रचारे द्वितीयेऽधिकरणे देशकालमानं विंशोऽध्यायः ॥ आदित एकचत्वारिंशः” ॥ “पञ्चसंवत्सरमययुगाध्यक्ष प्रजापतिम् । दिनर्वयनमासाङ्गं, प्रणम्य शिरसा शुचिः” ॥ १ ॥ "मासोऽधिकोऽयं स्यात्रिंशत्सूर्यमासव्यतिक्रमे ॥ ६४ ॥ युगस्य मध्ये पौषोऽयमन्ते त्वाषाढ एव च ।” "वेदा हि यज्ञार्थमभिप्रवृत्ता: कालानुपूर्व्या विहिताश्च यज्ञाः । तस्मादिदं कालविज्ञानशास्त्रं यो ज्योतिष वेद स वेद यज्ञम्” ॥ ३॥ माघशुक्लप्रपन्नस्य, पौषकृष्णसमापिनः । युगस्य पञ्चवर्षस्य, कालज्ञानं प्रचक्षते ॥ ५ ॥ स्वराक्रमेते सोमाको, यदा साकं सवासवौ । स्यात्तदादि युगं माघस्तपः शुक्लोऽयनं ख़ुदक् ॥ ६ ॥ प्रपद्येते श्रविष्ठादी, सूर्याचन्द्रमसावुदक् । सापर्धि दक्षिणार्कस्तु माघश्रावणयोः सदा ॥ ७ ॥ धर्मवृद्धिरपां प्रस्थः, क्षपाहास उदग्गतौ । दक्षिणे तौ विपर्यासः, षण्मुहूर्त्ययनेन तु” ॥ ८ ॥ “त्रिशत्यहां सषट्षष्टिरब्दे षट् चर्तवोऽयने । मासा द्वादश सूर्याः, स्युरेतत्पञ्चगुणं युगम्” ॥ २८ ॥
॥ अथैकोनत्रिंशत्तमः सर्गः ॥ युगैरित्युक्तरूपैः स्याच्चतुर्भिर्वर्षविंशतिः । पञ्चविंशतयोऽब्दानां, वर्षाणां शतमीरितम् ॥१॥ दशवर्षशतान्यब्दसहस्रं परिकीर्तितम् । शतं वर्षसहस्राणां, वर्षलक्षं भवेदिह ॥२॥ अतः परं च सर्वोऽङ्कः, शीर्षप्रहेलिकावधिः । भाव्यः क्रमेण चतुरशीतिलक्षगुणो बुधैः ॥३॥ तथाहि-वर्षलक्षाणि चतुरशीतिः पूर्वांगमुच्यते । पूर्वांङ्गलझैचतुरशीत्या पूर्व प्रकीर्तितम् ॥ ४॥ पूर्व च वर्षकोटीनां, लक्षाणि किल सप्ततिः । षट्पञ्चाशत्सहस्राणि, निर्दिष्टानि जिनेश्वरैः ॥ ५॥ पूर्वलक्षाणि चतुरशीतिश्च त्रुटिताकम् । आयुर्मानं भवत्येतन्नाभेयस्य जिनेशितुः ॥६॥ त्रुटिताङ्गैश्च चतुरशीतिलक्षमितैर्मतम् । त्रुटितं स्यात्क्रमादेवमडडाङ्गं ततः परम् ॥७॥ अडडं चाववाङ्गं चाववं हुहुकाङ्गकम् । हुहुकं चोत्पलाङ्गं चोत्पलं पद्माङ्गमेव च ॥८॥ पद्मं च नलिनाङ्गं च, नलिनं स्यात्ततः परम् । भवत्यर्थनिपूराङ्ग, ततश्चार्थनिपूरकम् ॥९॥ अयुताङ्गं चायुतं च, नयुताङ्गं भवेत्ततः । नयुतं प्रयुताङ्गं च, प्रयुतं चूलिकाङ्गकम् ॥ १० ॥