________________
501
अङ्गुलात्मान्तिमो राशि:, सावर्ण्यायाद्यराशिना । भवेच्छतं चतुर्विंशमेकत्रिंशद्गुणीकृतः ॥ १०५४ ॥ एतेन गुणितो मध्यराशिर्जात इयन्मितः । आद्येन राशिना भागे, चैकत्रिंशदवाप्यते ।। १०५५ ॥ चतुरङ्गुलवृद्धायां, पौरुष्यां ध्रुवकोपरि । गता याम्यायनस्यैकत्रिंशत्तिथय एव तत् ।। १०५६ ।। ध्रुवाच्चतुष्पादरूपादथ क्षीणेष्विहाष्टसु । अङ्गुलेषु कियत्सौम्यायनस्य गतमुच्यताम् ॥ १०५७ ॥ अत्रोच्यते
१०५८ ॥
१०५९ ॥
चतुर्भिरङ्गुलस्यैकत्रिंशद्भागैः क्षयं गतैः । तिथिरेकाऽऽप्यते चेत्तत्ताः कत्यष्टभिरङ्गुलैः ॥ सावर्ण्यायान्तिमो राशिरेकत्रिंशद्गुणीकृतः । जायेते द्वे शते अष्टचत्वारिंशत्समन्विते ॥ अन्त्येन राशिनाऽनेन राशिर्मध्यो हतोऽभवत् । इयन्मानोऽथायमाद्यराशिना प्रविभज्यते ॥ १०६० ॥ द्वाषष्टिराप्यते तस्मात्, द्वाषष्टिस्तिथयो गताः । ज्ञेया सौम्यायनस्येदृक्पौरुषी मानदर्शनात् ।। १०६१ ।। इति पौरुषीप्रकरणं ।
पादोनपौरुषीरूपा, या पात्रप्रतिलेखना । प्रातः स्यात्साङ्गुलैः षड्भिर्ज्येष्ठाषाढनभस्त्रिके ।। १०६२ ॥ भाद्रादित्रितयेऽष्टाभिर्मार्गादित्रितये पुनः । अङ्गुलैर्दशभिः शेषत्रये त्वष्टाभिरङ्गुलैः ॥ १०६३ ॥
अत्रेदं तत्त्वं
यत्र यत्र हि मासादौ, या योक्ता पौरुषीमिति: । तत्र तत्रोक्ताङ्गुलानां, क्षेपे पादोनपौरुषी ॥ १०६४ ॥ इति पादोनपौरुषी ।
पौषमासे तनुच्छाया, नवपादमिता यदि । तदा स्यात्पौरुषी सार्द्धा, मासे मासे ततः क्रमात् ।। १०६५ ।। एकैको हीयते पादस्तदाऽऽषाढे पदत्रयम् । यथा हानिस्ततोवृद्धिस्ततः पौषे यथोदितम् ॥ १०६६ ॥ इति सार्द्धपौरुषी ।
पौषे वितस्तिच्छायाऽथ, यदि स्याद् द्वादशाङ्गुला । तदा दिनस्य पूर्वार्द्ध, मासे मासे ततः पुनः ॥ १०६७ ॥ द्वयोर्द्वयोरङ्गुलयोर्हानिर्भाव्या ततः शुचौ । मध्याहने स्यान्न तच्छाया, खलमैत्रीव मूलतः ॥ १०६८ ॥
यद्वा
पौषे दिनार्द्धेङ्गच्छाया, षट्पादा हीयते ततः । एकैकोऽह्निर्मासि मासि, चाषाढे निष्ठिताऽखिला ॥ १०६९ ॥ एतत्पादोनपौरुष्यादिकं मानं यदीरितम् । तत्सर्वं स्वस्वराकायां, विज्ञेयं व्यवहारतः ॥ १०७० ॥ इति पूर्वार्द्धं ।
इत्थं युगस्याभिहितं स्वरूपं, मयाऽऽपवाक्यानुगमेन किञ्चित् । विशेषबोधस्पृहयालुभिस्तु, ज्योतिष्करण्डाद्यवलोकनीयम् ॥ १०७१ ॥