SearchBrowseAboutContactDonate
Page Preview
Page 517
Loading...
Download File
Download File
Page Text
________________ 500 ह्रियते षडशीत्याढ्यशतेन राशिरेष च । लब्धेऽङ्के विषमे ज्ञेयमतीतं दक्षिणायनम् ॥ १०२७ ॥ ज्ञेयं लब्धे समो चाहेऽतिक्रान्तमुत्तरायणम् । एवं चात्रायनज्ञानोपाय एष प्रदर्शितः ॥ १०२८ ॥ षडशीतिशतेनाथ, तिथिराशौ हृतेऽत्र यत् । शेषं स्यादथवा भागालाभे यत्स्यायथास्थितम् ॥ १०२९ ॥ तच्चतुर्ज विधायैकत्रिंशता प्रविभज्यते । यल्लब्धं तान्यङ्गलानि, यच्छेषं तेऽङ्गलांशका: ॥ १०३० ॥ याम्यायने ध्रुवाकोऽस्ति, य: पादद्वयलक्षणः । स्यात्तत्रैतावतो वृद्धौ, पौरुष्यहि विवक्षिते ॥ १०३१ ॥ सौम्यायने ध्रुवाकोऽस्ति, यश्चतुष्पादलक्षणः । ततश्चैतावतो हानौ पौरुष्यहि विवक्षिते ॥ १०३२ ॥ युगस्य पर्वणि प्राज्ञ !, पञ्चाशीतितमे ननु । पञ्चम्यां स्यात्कतिपदा, पौरुषीति वद द्रुतम् ॥ १०३३ ॥ अतीतानामिह चतुरशीतिर्याऽस्ति पर्वणाम् । षष्ट्याढ्या द्वादशशती, सा स्यात्पञ्चदशाहता ॥ १०३४ ॥ पञ्चम्यां पृष्टमिति च, क्षिप्यते तत्र पञ्चकम् । पञ्चषष्टियुतानीति, शतानि द्वादशाभवन् ॥ १०३५ ॥ षडशीतिशतेनैषां, भागे लब्धाश्च षट् ततः । षड् गतान्ययनान्यस्ति, साम्प्रतं दक्षिणायनम् ॥ १०३६ ॥ शेषमेकोनपञ्चाशदधिकं शतमस्ति यत् । तस्मिंश्चतुर्गुणे पञ्च, शताः षण्णवतिस्पृशः ॥ १०३७ ॥ हताश्चैकत्रिंशताऽमी, प्राप्ता चैकोनविंशतिः । शेषाः सप्ताङ्गलास्ते च, स्युर्यवा अष्टभिर्हताः ॥ १०३८ ॥ षट्पञ्चाशयवा जातास्ते चैकत्रिंशता हृताः । लब्ध एको यवः शेषाः, पञ्चविंशतिरंशकाः ॥ १०३९ ॥ पाद एकोनविंशत्याङ्गलैः सप्ताङ्गलाधिकः । याम्यायनत्वादेतच्च, वर्द्धनीयं पदद्रये ॥ १०४० ॥ ततः पादत्रयं सप्ताङ्गलान्येकस्तथा यवः । एकत्रिंशद्भवाः पञ्चविंशतिश्च यवांशकाः ॥ १०४१ ॥ पञ्चाशीतितमे पर्वण्येतन्माना युगे भवेत् । पञ्चम्यां पौरुषीत्येवं, कार्याऽन्यत्रापि भावना ॥ १०४२ ॥ युगे वा सप्तनवतेः, पर्वणां समतिक्रमे । पञ्चम्यां स्यात्कतिपदा, पौरुषीत्यत्र कथ्यते ॥ १०४३ ॥ अत्र षण्णवतिः पञ्चदशजा गतपर्वणाम् । पञ्चाढ्य स्याच्छताः पञ्चचत्वारिंशाश्चतुर्दश ॥ १०४४ ॥ षडशीतिशतेनैषां, भागे सप्त करं गताः । सप्तायनी गता तस्मात्संप्रत्यस्त्युत्तरायणम् ॥ १०४५ ॥ त्रिचत्वारिंशदधिकं, शेषं यदर्द्धते शतम् । तस्मिंश्चतुर्गुणे पञ्चशती स्यात्सद्धिसप्ततिः ॥ १०४६ ॥ विभक्तैकत्रिंशतेयं, प्राप्ता चाष्टादशाङ्गली । तया चैकं पदं लब्धमधिकान्यकुलानि षट् ॥ १०४७ ॥ शेषाचतुर्दशांशा ये, स्युर्यवास्तेऽष्टताडिता: । शतमेकं भवत्येवं, यवानां द्वादशोत्तरम् ॥ १०४८ ॥ तस्यैकत्रिंशता भागे, हृते लब्धास्त्रयो यवाः । शेषाश्चैकत्रिंशदंशा, यवस्यैकोनविंशतिः ॥ १०४९ ॥ सौम्यायनत्वादेतच्च, शोध्यं पदचतुष्टयात् । तत: स्यात्पौरुषी मानमेवं पूर्वोदिते दिने ॥ १०५० ॥ पञ्चाङ्गलानि दौ पादौ, तथा यवचतुष्टयम् । एकत्रिंशद्धिभक्तस्य, यवस्य द्वादशांशकाः ॥ १०५१ ॥ किञ्च-अतीततिथिविज्ञानं, पौरुषीमानतोऽयने । यत्स्यात्त्रैराशिकायत्तं, तदप्यत्र निशम्यताम् ॥ १०५२ ॥ चतुर्भिरङ्गुस्यैकत्रिंशद्भागैर्यदाऽऽप्यते । एका तिथिस्तत्तिथयश्चतुर्भिरङ्गुलैः कति ? ॥ १०५३ ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy