________________
499
वृद्धौ क्षये च सततमङ्गलस्यैकषष्टिजा: । अष्टांशाः पञ्चभागोनमङ्गलं सप्तभिर्दिनैः ॥ १००६ ॥ सविंशतिशतं भागाः, स्युः पञ्चदशभिर्दिनैः । एकषष्ट्यंशयुग्मोनं, तैश्च स्यादङ्गलद्धयम् ॥ १००७ ॥
यत्तु-'अङ्गुलं सत्तस्तेण पक्रनेणं तु दुअङ्गुलं ।' इत्युच्यते तद्व्यवहारत इति ज्ञेयं. श्रीउत्तराध्ययनसूत्रवृत्तौ च 'अङ्गलं सत्तस्तेणं' इत्यस्य व्याख्याने अङ्गलं सप्तरात्रेण साद्धेनेति शेषो दृष्टव्यः
इत्युक्तमस्ति, तथा चाङ्गुलमेकैकषष्ट्यंशन्यूनमेव स्यादिति ध्येयं, त्रिंशता च दिनैश्चत्वारिंशमंशशतद्वयम् । चतुर्भिरेकषष्ट्यशैस्तेनोना चतुरङ्गली ॥ १००८ ॥ अहोरात्रार्द्धस्य भागचतुष्कस्यात्र योजने । सार्द्धया त्रिंशताऽहां स्यात्पूर्णाङ्गलचतुष्टयी ॥ १००९ ॥ एकः पादस्त्रिभिर्मासैर्वृद्धिहान्योर्भवेदिति । अयनेन च पूर्णेन, भवत्येवं पदद्वयम् ॥ १०१० ॥ इदमर्थलेशतो नन्दीवृत्त्यादौ ॥ यत्तु ज्योतिष्करण्डादौ, वृद्धिहान्योर्निरूपिताः । चत्वारोऽत्रालस्यांशा, एकत्रिंशत्समुद्भवाः ॥ १०११ ॥ तात्पर्यभेदस्तत्रापि, न कश्चिदिति भाव्यताम् । यतस्तिथीन् पुरस्कृत्य, तत्रेयं पद्धतिः कृता ॥ १०१२ ॥ अहोरात्रान् पुरस्कृत्य, पूर्वमुक्ता च पद्धतिः । हानिवृद्धिफलं त्वत्र, न किञ्चिदपि भिद्यते ॥ १०१३ ॥ तथा होकत्रिंशता स्युस्तिथिभिः परिपूर्णकाः । सा स्त्रिंशदहोरात्रास्तच्च प्राक् सुष्ठु भावितम् ॥ १०१४ ॥ तत्सार्द्धत्रिंशताऽहां स्याद्यथाङ्गलचतुष्टयम् । तथैकत्रिंशताऽपि स्यात्तिथिभिस्तच्चतुष्टयम् ॥ १०१५ ॥ तथाहिचत्वार एकत्रिंशदजाश्चतुर्विंशं शतं भवेत् । एकत्रिंशद्धिभक्तेऽस्मिन्, स्यादङ्गुलचतुष्टयम् ॥ १०१६ ॥ मासे मासे रखेरेवं, तिथ्य धिक्यमूह्यताम् । अहोरात्रैकषष्टौ स्यु षष्टिस्तिथयो यथा ॥ १०१७ ॥ त्र्यशीत्याढ्यमहोरात्रशतं यदयनेऽयने । भवेत्तत्र तिथीनां तत्षडशीत्यधिकं शतं ॥ १०१८ ॥ एकत्रिंशद्धिभक्तस्याङ्गलस्यांशचतुष्टयम् । वृद्धिहान्योर्यदुक्तं तल्लभ्यं त्रैराशिकादपि ॥ १०१९ ॥ षडशीत्याऽतिरिक्तेन, तिथीनां शतकेन चेत् । हानिवृद्ध्योरङ्गलानां, चतुर्विंशतिराप्यते ॥ १०२० ॥ तदैकतिथ्या किं प्राप्यं, राशित्रयमिदं लिखेत् । अन्त्येनैकेन मध्यस्थो, राशिस्त्र निहन्यते ॥ १०२१ ॥ चतुर्विंशतिरेव स्यादेकेन गुणितं हि तत् । षडशीतिशतेनाल्पो, भक्तुं नार्हत्ययं ततः ॥ १०२२ ॥ छेद्यछेदकयो राश्योः, षड्भिः कार्याऽपवर्तना । छेद्यश्चतुष्कात्माऽन्यस्तु, स्यादेकत्रिंशदात्मकः ॥ १०२३ ॥ इत्येकत्रिंशदुद्भूतमङ्गलांशचतुष्टयम् । त्रैराशिकबलेनापि, वृद्धिहान्योः समर्थितम् ॥ १०२४ ॥ अथात्र करणंयत्पर्वणोऽभीष्टतिथौ, पौरुषी ज्ञातुमिष्यते । तत: पूर्वमतीतानि, पर्वाणीह युगादितः ॥ १०२५ ॥ स्युर्यानि पञ्चदशभिर्गुणयेत्तानि तत्र च । अभीष्टतिथिपर्यन्तान्, पर्वणोऽस्य तिथीन् क्षिपेत् ॥ १०२६ ॥